09.045
Library: Names of the illustrious mothers; Army of Skanda; Skanda kills the demon Lord Tāraka; Significance of the holy place named Aujasa.
वैशम्पायन उवाच॥
शृणु मातृगणान्राजन्कुमारानुचरानिमान्। कीर्त्यमानान्मया वीर सपत्नगणसूदनान् ॥९-४५-१॥
यशस्विनीनां मातॄणां शृणु नामानि भारत। याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः ॥९-४५-२॥
प्रभावती विशालाक्षी पलिता गोनसी तथा। श्रीमती बहुला चैव तथैव बहुपुत्रिका ॥९-४५-३॥
अप्सुजाता च गोपाली बृहदम्बालिका तथा। जयावती मालतिका ध्रुवरत्ना भयङ्करी ॥९-४५-४॥
वसुदामा सुदामा च विशोका नन्दिनी तथा। एकचूडा महाचूडा चक्रनेमिश्च भारत ॥९-४५-५॥
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना। शत्रुञ्जया तथा चैव क्रोधना शलभी खरी ॥९-४५-६॥
माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत। गीतप्रिया च कल्याणी कद्रुला चामिताशना ॥९-४५-७॥
मेघस्वना भोगवती सुभ्रूश्च कनकावती। अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत ॥९-४५-८॥
पद्मावती सुनक्षत्रा कन्दरा बहुयोजना। सन्तानिका च कौरव्य कमला च महाबला ॥९-४५-९॥
सुदामा बहुदामा च सुप्रभा च यशस्विनी। नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला ॥९-४५-१०॥
शतघण्टा शतानन्दा भगनन्दा च भामिनी। वपुष्मती चन्द्रशीता भद्रकाली च भारत ॥९-४५-११॥
सङ्कारिका निष्कुटिका भ्रमा चत्वरवासिनी। सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया ॥९-४५-१२॥
धनदा सुप्रसादा च भवदा च जलेश्वरी। एडी भेडी समेडी च वेतालजननी तथा ॥ कण्डूतिः कालिका चैव देवमित्रा च भारत ॥९-४५-१३॥
लम्बसी केतकी चैव चित्रसेना तथा बला। कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप ॥९-४५-१४॥
कुण्डारिका कोकलिका कण्डरा च शतोदरी। उत्क्राथिनी जरेणा च महावेगा च कङ्कणा ॥९-४५-१५॥
मनोजवा कण्टकिनी प्रघसा पूतना तथा। खशया चुर्व्युटिर्वामा क्रोशनाथ तडित्प्रभा ॥९-४५-१६॥
मण्डोदरी च तुण्डा च कोटरा मेघवासिनी। सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी ॥९-४५-१७॥
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला। पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च ॥९-४५-१८॥
पक्षालिका मन्थनिका जरायुर्जर्जरानना। ख्याता दहदहा चैव तथा धमधमा नृप ॥९-४५-१९॥
खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला। अमोचा चैव कौरव्य तथा लम्बपयोधरा ॥९-४५-२०॥
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला। शशोलूकमुखी कृष्णा खरजङ्घा महाजवा ॥९-४५-२१॥
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा। जटालिका कामचरी दीर्घजिह्वा बलोत्कटा ॥९-४५-२२॥
कालेडिका वामनिका मुकुटा चैव भारत। लोहिताक्षी महाकाया हरिपिण्डी च भूमिप ॥९-४५-२३॥
एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत। क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा ॥९-४५-२४॥
चतुष्पथनिकेता च गोकर्णी महिषानना। खरकर्णी महाकर्णी भेरीस्वनमहास्वना ॥९-४५-२५॥
शङ्खकुम्भस्वना चैव भङ्गदा च महाबला। गणा च सुगणा चैव तथाभीत्यथ कामदा ॥९-४५-२६॥
चतुष्पथरता चैव भूतितीर्थान्यगोचरा। पशुदा वित्तदा चैव सुखदा च महायशाः ॥ पयोदा गोमहिषदा सुविषाणा च भारत ॥९-४५-२७॥
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना। गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा ॥ एकचक्रा मेघरवा मेघमाला विरोचना ॥९-४५-२८॥
एताश्चान्याश्च बहवो मातरो भरतर्षभ। कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः ॥९-४५-२९॥
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत। सरला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः ॥९-४५-३०॥
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा। निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसंनिभाः ॥९-४५-३१॥
कृष्णमेघनिभाश्चान्या धूम्राश्च भरतर्षभ। अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः ॥९-४५-३२॥
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः। लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः ॥९-४५-३३॥
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथापराः। वरदाः कामचारिण्यो नित्यप्रमुदितास्तथा ॥९-४५-३४॥
याम्यो रौद्र्यस्तथा सौम्याः कौबेर्योऽथ महाबलाः। वारुण्योऽथ च माहेन्द्र्यस्तथाग्नेय्यः परन्तप ॥९-४५-३५॥
वायव्यश्चाथ कौमार्यो ब्राह्म्यश्च भरतर्षभ। रूपेणाप्सरसां तुल्या जवे वायुसमास्तथा ॥९-४५-३६॥
परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः। शक्रवीर्योपमाश्चैव दीप्त्या वह्निसमास्तथा ॥९-४५-३७॥
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः। गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः ॥९-४५-३८॥
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा। नानाविचित्रवेषाश्च नानाभाषास्तथैव च ॥९-४५-३९॥
एते चान्ये च बहवो गणाः शत्रुभयङ्कराः। अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य संमते ॥९-४५-४०॥
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः। गुहाय राजशार्दूल विनाशाय सुरद्विषाम् ॥९-४५-४१॥
महास्वनां महाघण्टां द्योतमानां सितप्रभाम्। तरुणादित्यवर्णां च पताकां भरतर्षभ ॥९-४५-४२॥
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम्। उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् ॥९-४५-४३॥
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम्। उमा ददौ चारजसी वाससी सूर्यसप्रभे ॥९-४५-४४॥
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम्। ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः ॥९-४५-४५॥
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम्। अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ॥९-४५-४६॥
पाशं तु वरुणो राजा बलवीर्यसमन्वितम्। कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ प्रभुः ॥ समरेषु जयं चैव प्रददौ लोकभावनः ॥९-४५-४७॥
सेनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह। शुशुभे ज्वलितोऽर्चिष्मान्द्वितीय इव पावकः ॥ ततः पारिषदैश्चैव मातृभिश्च समन्वितः ॥९-४५-४८॥
सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना। सभेरीशङ्खमुरजा सायुधा सपताकिनी ॥९-४५-४९॥
शारदी द्यौरिवाभाति ज्योतिर्भिरुपशोभिता ॥९-४५-४९॥
ततो देवनिकायास्ते भूतसेनागणास्तथा। वादयामासुरव्यग्रा भेरीशङ्खांश्च पुष्कलान् ॥९-४५-५०॥
पटहाञ्झर्झरांश्चैव कृकचान्गोविषाणिकान्। आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् ॥९-४५-५१॥
तुष्टुवुस्ते कुमारं च सर्वे देवाः सवासवाः। जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥९-४५-५२॥
ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ। रिपून्हन्तास्मि समरे ये वो वधचिकीर्षवः ॥९-४५-५३॥
प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात्। प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् ॥९-४५-५४॥
सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः। अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना ॥९-४५-५५॥
स निर्ययौ महासेनो महत्या सेनया वृतः। वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम् ॥९-४५-५६॥
व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः। महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप ॥९-४५-५७॥
स तया भीमया देवः शूलमुद्गरहस्तया। गदामुसलनाराचशक्तितोमरहस्तया ॥ दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः ॥९-४५-५८॥
तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा। व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः ॥ अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः ॥९-४५-५९॥
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः। शक्त्यस्त्रं भगवान्भीमं पुनः पुनरवासृजत् ॥ आदधच्चात्मनस्तेजो हविषेद्ध इवानलः ॥९-४५-६०॥
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा। उल्काज्वाला महाराज पपात वसुधातले ॥९-४५-६१॥
संह्रादयन्तश्च तथा निर्घाताश्चापतन्क्षितौ। यथान्तकालसमये सुघोराः स्युस्तथा नृप ॥९-४५-६२॥
क्षिप्ता ह्येका तथा शक्तिः सुघोरानलसूनुना। ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ ॥९-४५-६३॥
स शक्त्यस्त्रेण सङ्ग्रामे जघान भगवान्प्रभुः। दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् ॥ वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप ॥९-४५-६४॥
महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान्। त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् ॥९-४५-६५॥
ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः। जघानानुचरैः सार्धं विविधायुधपाणिभिः ॥९-४५-६६॥
तत्राकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु। कुमारानुचरा राजन्पूरयन्तो दिशो दश ॥९-४५-६७॥
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः। दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे ॥९-४५-६८॥
पताकयावधूताश्च हताः केचित्सुरद्विषः। केचिद्घण्टारवत्रस्ता निपेतुर्वसुधातले ॥ केचित्प्रहरणैश्छिन्ना विनिपेतुर्गतासवः ॥९-४५-६९॥
एवं सुरद्विषोऽनेकान्बलवानाततायिनः। जघान समरे वीरः कार्त्तिकेयो महाबलः ॥९-४५-७०॥
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः। क्रौञ्चं पर्वतमासाद्य देवसङ्घानबाधत ॥९-४५-७१॥
तमभ्ययान्महासेनः सुरशत्रुमुदारधीः। स कार्त्तिकेयस्य भयात्क्रौञ्चं शरणमेयिवान् ॥९-४५-७२॥
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम्। शक्त्या बिभेद भगवान्कार्त्तिकेयोऽग्निदत्तया ॥९-४५-७३॥
सशालस्कन्धसरलं त्रस्तवानरवारणम्। पुलिनत्रस्तविहगं विनिष्पतितपन्नगम् ॥९-४५-७४॥
गोलाङ्गूलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम्। कुरङ्गगतिनिर्घोषमुद्भ्रान्तसृमराचितम् ॥९-४५-७५॥
विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः। शोच्यामपि दशां प्राप्तो रराजैव स पर्वतः ॥९-४५-७६॥
विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः। किंनराश्च समुद्विग्नाः शक्तिपातरवोद्धताः ॥९-४५-७७॥
ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः। प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः ॥९-४५-७८॥
तान्निजघ्नुरतिक्रम्य कुमारानुचरा मृधे। बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा ॥९-४५-७९॥
बहुधा चैकधा चैव कृत्वात्मानं महात्मना। शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः ॥९-४५-८०॥
एवम्प्रभावो भगवानतो भूयश्च पावकिः। क्रौञ्चस्तेन विनिर्भिन्नो दैत्याश्च शतशो हताः ॥९-४५-८१॥
ततः स भगवान्देवो निहत्य विबुधद्विषः। सभाज्यमानो विबुधैः परं हर्षमवाप ह ॥९-४५-८२॥
ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत। मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् ॥९-४५-८३॥
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः। गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः ॥९-४५-८४॥
केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम्। सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् ॥९-४५-८५॥
केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः। उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत ॥९-४५-८६॥
एकधा च द्विधा चैव चतुर्धा च महाबलम्। योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ॥९-४५-८७॥
एतत्ते कथितं राजन्कार्त्तिकेयाभिषेचनम्। शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् ॥९-४५-८८॥
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु। कुमारेण महाराज त्रिविष्टपमिवापरम् ॥९-४५-८९॥
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक्। तदा नैरृतमुख्येभ्यस्त्रैलोक्ये पावकात्मजः ॥९-४५-९०॥
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः। अभिषिक्तो महाराज देवसेनापतिः सुरैः ॥९-४५-९१॥
औजसं नाम तत्तीर्थं यत्र पूर्वमपां पतिः। अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ ॥९-४५-९२॥
तस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली। ब्राह्मणेभ्यो ददौ रुक्मं वासांस्याभरणानि च ॥९-४५-९३॥
उषित्वा रजनीं तत्र माधवः परवीरहा। पूज्य तीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली ॥ हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः ॥९-४५-९४॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। यथाभिषिक्तो भगवान्स्कन्दो देवैः समागतैः ॥९-४५-९५॥