09.050
Library: Story of sage Dadhichi, Sarasvati, his fish-eating son Sarsvata and his 12-year penance and how he revived Vedic knowledge.
वैशम्पायन उवाच॥
यत्रेजिवानुडुपती राजसूयेन भारत। तस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः ॥९-५०-१॥
तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान्। सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह ॥९-५०-२॥
यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान्। वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥९-५०-३॥
जनमेजय उवाच॥
कथं द्वादशवार्षिक्यामनावृष्ट्यां तपोधनः। वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥९-५०-४॥
वैशम्पायन उवाच॥
आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः। दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः ॥९-५०-५॥
तस्यातितपसः शक्रो बिभेति सततं विभो। न स लोभयितुं शक्यः फलैर्बहुविधैरपि ॥९-५०-६॥
प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः। दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् ॥९-५०-७॥
तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः। समीपतो महाराज सोपातिष्ठत भामिनी ॥९-५०-८॥
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः। रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा ॥९-५०-९॥
कुक्षौ चाप्यदधद्दृष्ट्वा तद्रेतः पुरुषर्षभ। सा दधार च तं गर्भं पुत्रहेतोर्महानदी ॥९-५०-१०॥
सुषुवे चापि समये पुत्रं सा सरितां वरा। जगाम पुत्रमादाय तमृषिं प्रति च प्रभो ॥९-५०-११॥
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम्। ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् ॥ ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया ॥९-५०-१२॥
दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम्। तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् ॥९-५०-१३॥
न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात्। प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् ॥९-५०-१४॥
इत्युक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम्। मन्त्रवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः ॥९-५०-१५॥
परिष्वज्य चिरं कालं तदा भरतसत्तम। सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः ॥९-५०-१६॥
विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः। तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा ॥९-५०-१७॥
इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम्। प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव ॥९-५०-१८॥
प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा। जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः ॥९-५०-१९॥
मम प्रियकरी चापि सततं प्रियदर्शने। तस्मात्सारस्वतः पुत्रो महांस्ते वरवर्णिनि ॥९-५०-२०॥
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः। सारस्वत इति ख्यातो भविष्यति महातपाः ॥९-५०-२१॥
एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान्। सारस्वतो महाभागे वेदानध्यापयिष्यति ॥९-५०-२२॥
पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे। भविष्यसि महाभागे मत्प्रसादात्सरस्वति ॥९-५०-२३॥
एवं सा संस्तुता तेन वरं लब्ध्वा महानदी। पुत्रमादाय मुदिता जगाम भरतर्षभ ॥९-५०-२४॥
एतस्मिन्नेव काले तु विरोधे देवदानवैः। शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह ॥९-५०-२५॥
न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा। यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् ॥९-५०-२६॥
ततोऽब्रवीत्सुराञ्शक्रो न मे शक्या महासुराः। ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः ॥९-५०-२७॥
तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः। दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् ॥९-५०-२८॥
स देवैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा। प्राणत्यागं कुरुष्वेति चकारैवाविचारयन् ॥ स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा ॥९-५०-२९॥
तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा। कारयामास दिव्यानि नानाप्रहरणान्युत ॥ वज्राणि चक्राणि गदा गुरुदण्डांश्च पुष्कलान् ॥९-५०-३०॥
स हि तीव्रेण तपसा सम्भृतः परमर्षिणा। प्रजापतिसुतेनाथ भृगुणा लोकभावनः ॥९-५०-३१॥
अतिकायः स तेजस्वी लोकसारविनिर्मितः। जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः ॥ नित्यमुद्विजते चास्य तेजसा पाकशासनः ॥९-५०-३२॥
तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत। भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च ॥ दैत्यदानववीराणां जघान नवतीर्नव ॥९-५०-३३॥
अथ काले व्यतिक्रान्ते महत्यतिभयङ्करे। अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी ॥९-५०-३४॥
तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः। वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् ॥९-५०-३५॥
दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा। गमनाय मतिं चक्रे तं प्रोवाच सरस्वती ॥९-५०-३६॥
न गन्तव्यमितः पुत्र तवाहारमहं सदा। दास्यामि मत्स्यप्रवरानुष्यतामिह भारत ॥९-५०-३७॥
इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा। आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् ॥९-५०-३८॥
अथ तस्यामतीतायामनावृष्ट्यां महर्षयः। अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् ॥९-५०-३९॥
तेषां क्षुधापरीतानां नष्टा वेदा विधावताम्। सर्वेषामेव राजेन्द्र न कश्चित्प्रतिभानवान् ॥९-५०-४०॥
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान्। कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् ॥९-५०-४१॥
स गत्वाचष्ट तेभ्यश्च सारस्वतमतिप्रभम्। स्वाध्यायममरप्रख्यं कुर्वाणं विजने जने ॥९-५०-४२॥
ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः। सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः ॥९-५०-४३॥
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः। शिष्यत्वमुपगच्छध्वं विधिवद्भो ममेत्युत ॥९-५०-४४॥
ततोऽब्रवीदृषिगणो बालस्त्वमसि पुत्रक। स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् ॥९-५०-४५॥
यो ह्यधर्मेण विब्रूयाद्गृह्णीयाद्वाप्यधर्मतः। म्रियतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ॥९-५०-४६॥
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः। ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥९-५०-४७॥
एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः। तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे ॥९-५०-४८॥
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे। सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् ॥९-५०-४९॥
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां तेऽभ्युपाहरन्। तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः ॥९-५०-५०॥
तत्रापि दत्त्वा वसु रौहिणेयो; महाबलः केशवपूर्वजोऽथ। जगाम तीर्थं मुदितः क्रमेण; ख्यातं महद्वृद्धकन्या स्म यत्र ॥९-५०-५१॥