09.056
Core and Pancharatra: War commences and both Bhima and Yudhisthira appear equally posed.
सञ्जय उवाच॥
ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम्। प्रत्युद्ययावदीनात्मा वेगेन महता नदन् ॥९-५६-१॥
समापेततुरानद्य शृङ्गिणौ वृषभाविव। महानिर्घातघोषश्च सम्प्रहारस्तयोरभूत् ॥९-५६-२॥
अभवच्च तयोर्युद्धं तुमुलं रोमहर्षणम्। जिगीषतोर्युधान्योन्यमिन्द्रप्रह्रादयोरिव ॥९-५६-३॥
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ। ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥९-५६-४॥
तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे। खद्योतसङ्घैरिव खं दर्शनीयं व्यरोचत ॥९-५६-५॥
तथा तस्मिन्वर्तमाने सङ्कुले तुमुले भृशम्। उभावपि परिश्रान्तौ युध्यमानावरिंदमौ ॥९-५६-६॥
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ। अभ्यहारयतां तत्र सम्प्रगृह्य गदे शुभे ॥९-५६-७॥
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ। बलिनौ वारणौ यद्वद्वाशितार्थे मदोत्कटौ ॥९-५६-८॥
अपारवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदावुभौ। विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥९-५६-९॥
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ। संशयः सर्वभूतानां विजये समपद्यत ॥९-५६-१०॥
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ। अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति ॥९-५६-११॥
यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम्। ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् ॥९-५६-१२॥
आविध्यतो गदां तस्य भीमसेनस्य संयुगे। शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत ॥९-५६-१३॥
आविध्यन्तमभिप्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम्। गदामलघुवेगां तां विस्मितः सम्बभूव ह ॥९-५६-१४॥
चरंश्च विविधान्मार्गान्मण्डलानि च भारत। अशोभत तदा वीरो भूय एव वृकोदरः ॥९-५६-१५॥
तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे। मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः ॥९-५६-१६॥
अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा। मण्डलानि विचित्राणि स्थानानि विविधानि च ॥९-५६-१७॥
गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च। परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥९-५६-१८॥
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम्। परावर्तनसंवर्तमवप्लुतमथाप्लुतम् ॥ उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ ॥९-५६-१९॥
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम्। वञ्चयन्तौ पुनश्चैव चेरतुः कुरुसत्तमौ ॥९-५६-२०॥
विक्रीडन्तौ सुबलिनौ मण्डलानि प्रचेरतुः। गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली ॥९-५६-२१॥
दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत। सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत ॥९-५६-२२॥
तथा तु चरतस्तस्य भीमस्य रणमूर्धनि। दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् ॥९-५६-२३॥
आहतस्तु तदा भीमस्तव पुत्रेण भारत। आविध्यत गदां गुर्वीं प्रहारं तमचिन्तयन् ॥९-५६-२४॥
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम्। ददृशुस्ते महाराज भीमसेनस्य तां गदाम् ॥९-५६-२५॥
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः। समुद्यम्य गदां घोरां प्रत्यविध्यदरिंदमः ॥९-५६-२६॥
गदामारुतवेगेन तव पुत्रस्य भारत। शब्द आसीत्सुतुमुलस्तेजश्च समजायत ॥९-५६-२७॥
स चरन्विविधान्मार्गान्मण्डलानि च भागशः। समशोभत तेजस्वी भूयो भीमात्सुयोधनः ॥९-५६-२८॥
आविद्धा सर्ववेगेन भीमेन महती गदा। सधूमं सार्चिषं चाग्निं मुमोचोग्रा महास्वना ॥९-५६-२९॥
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः। अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत ॥९-५६-३०॥
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः। भयं विवेश पाण्डून्वै सर्वानेव ससोमकान् ॥९-५६-३१॥
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः। गदाभ्यां सहसान्योन्यमाजघ्नतुररिंदमौ ॥९-५६-३२॥
तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा। अशोभेतां महाराज शोणितेन परिप्लुतौ ॥९-५६-३३॥
एवं तदभवद्युद्धं घोररूपमसंवृतम्। परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥९-५६-३४॥
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः। चरंश्चित्रतरान्मार्गान्कौन्तेयमभिदुद्रुवे ॥९-५६-३५॥
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम्। अभिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् ॥९-५६-३६॥
सविस्फुलिङ्गो निर्ह्रादस्तयोस्तत्राभिघातजः। प्रादुरासीन्महाराज सृष्टयोर्वज्रयोरिव ॥९-५६-३७॥
वेगवत्या तया तत्र भीमसेनप्रमुक्तया। निपतन्त्या महाराज पृथिवी समकम्पत ॥९-५६-३८॥
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे। मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् ॥९-५६-३९॥
स सव्यं मण्डलं राजन्नुद्भ्राम्य कृतनिश्चयः। आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया ॥९-५६-४०॥
तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः। नाकम्पत महाराज तदद्भुतमिवाभवत् ॥९-५६-४१॥
आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन्। यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् ॥९-५६-४२॥
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम्। दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः ॥९-५६-४३॥
तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः। मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् ॥९-५६-४४॥
सा तु मोघा गदा राजन्पतन्ती भीमचोदिता। चालयामास पृथिवीं महानिर्घातनिस्वना ॥९-५६-४५॥
आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः। गदानिपातं प्रज्ञाय भीमसेनमवञ्चयत् ॥९-५६-४६॥
वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः। ताडयामास सङ्क्रुद्धो वक्षोदेशे महाबलः ॥९-५६-४७॥
गदयाभिहतो भीमो मुह्यमानो महारणे। नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव ॥९-५६-४८॥
तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः। भृशोपहतसङ्कल्पा नहृष्टमनसोऽभवन् ॥९-५६-४९॥
स तु तेन प्रहारेण मातङ्ग इव रोषितः। हस्तिवद्धस्तिसङ्काशमभिदुद्राव ते सुतम् ॥९-५६-५०॥
ततस्तु रभसो भीमो गदया तनयं तव। अभिदुद्राव वेगेन सिंहो वनगजं यथा ॥९-५६-५१॥
उपसृत्य तु राजानं गदामोक्षविशारदः। आविध्यत गदां राजन्समुद्दिश्य सुतं तव ॥९-५६-५२॥
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा। स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ॥९-५६-५३॥
तस्मिंस्तु भरतश्रेष्ठे जानुभ्यामवनीं गते। उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते ॥९-५६-५४॥
तेषां तु निनदं श्रुत्वा सृञ्जयानां नरर्षभः। अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ॥९-५६-५५॥
उत्थाय तु महाबाहुः क्रुद्धो नाग इव श्वसन्। दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ॥९-५६-५६॥
ततः स भरतश्रेष्ठो गदापाणिरभिद्रवत्। प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे ॥९-५६-५७॥
स महात्मा महात्मानं भीमं भीमपराक्रमः। अताडयच्छङ्खदेशे स चचालाचलोपमः ॥९-५६-५८॥
स भूयः शुशुभे पार्थस्ताडितो गदया रणे। उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः ॥९-५६-५९॥
ततो गदां वीरहणीमयस्मयीं; प्रगृह्य वज्राशनितुल्यनिस्वनाम्। अताडयच्छत्रुममित्रकर्शनो; बलेन विक्रम्य धनञ्जयाग्रजः ॥९-५६-६०॥
स भीमसेनाभिहतस्तवात्मजः; पपात सङ्कम्पितदेहबन्धनः। सुपुष्पितो मारुतवेगताडितो; महावने साल इवावघूर्णितः ॥९-५६-६१॥
ततः प्रणेदुर्जहृषुश्च पाण्डवाः; समीक्ष्य पुत्रं पतितं क्षितौ तव। ततः सुतस्ते प्रतिलभ्य चेतनां; समुत्पपात द्विरदो यथा ह्रदात् ॥९-५६-६२॥
स पार्थिवो नित्यममर्षितस्तदा; महारथः शिक्षितवत्परिभ्रमन्। अताडयत्पाण्डवमग्रतः स्थितं; स विह्वलाङ्गो जगतीमुपास्पृशत् ॥९-५६-६३॥
स सिंहनादान्विननाद कौरवो; निपात्य भूमौ युधि भीममोजसा। बिभेद चैवाशनितुल्यतेजसा; गदानिपातेन शरीररक्षणम् ॥९-५६-६४॥
ततोऽन्तरिक्षे निनदो महानभू; द्दिवौकसामप्सरसां च नेदुषाम्। पपात चोच्चैरमरप्रवेरितं; विचित्रपुष्पोत्करवर्षमुत्तमम् ॥९-५६-६५॥
ततः परानाविशदुत्तमं भयं; समीक्ष्य भूमौ पतितं नरोत्तमम्। अहीयमानं च बलेन कौरवं; निशम्य भेदं च दृढस्य वर्मणः ॥९-५६-६६॥
ततो मुहूर्तादुपलभ्य चेतनां; प्रमृज्य वक्त्रं रुधिरार्द्रमात्मनः। धृतिं समालम्ब्य विवृत्तलोचनो; बलेन संस्तभ्य वृकोदरः स्थितः ॥९-५६-६७॥