09.057
Pancharatra and Core: Signalled by Arjuna, Bhima breaks the thigh of Duryodhana.
सञ्जय उवाच॥
समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः। अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम् ॥९-५७-१॥
अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः। कस्य वा को गुणो भूयानेतद्वद जनार्दन ॥९-५७-२॥
वासुदेव उवाच॥
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः। कृतयत्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात् ॥९-५७-३॥
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति। अन्यायेन तु युध्यन्वै हन्यादेष सुयोधनम् ॥९-५७-४॥
मायया निर्जिता देवैरसुरा इति नः श्रुतम्। विरोचनश्च शक्रेण मायया निर्जितः सखे ॥९-५७-५॥
मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः ॥९-५७-५॥
प्रतिज्ञातं तु भीमेन द्यूतकाले धनञ्जय। ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम् ॥९-५७-६॥
सोऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनः। मायाविनं च राजानं माययैव निकृन्ततु ॥९-५७-७॥
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति। विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः ॥९-५७-८॥
पुनरेव च वक्ष्यामि पाण्डवेदं निबोध मे। धर्मराजापराधेन भयं नः पुनरागतम् ॥९-५७-९॥
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून्। जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम् ॥ तदेवं विजयः प्राप्तः पुनः संशयितः कृतः ॥९-५७-१०॥
अबुद्धिरेषा महती धर्मराजस्य पाण्डव। यदेकविजये युद्धं पणितं कृतमीदृशम् ॥ सुयोधनः कृती वीर एकायनगतस्तथा ॥९-५७-११॥
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः। श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु ॥९-५७-१२॥
पुनरावर्तमानानां भग्नानां जीवितैषिणाम्। भेतव्यमरिशेषाणामेकायनगता हि ते ॥९-५७-१३॥
सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम्। पराजितं वनप्रेप्सुं निराशं राज्यलम्भने ॥९-५७-१४॥
को न्वेष संयुगे प्राज्ञः पुनर्द्वंद्वे समाह्वयेत्। अपि वो निर्जितं राज्यं न हरेत सुयोधनः ॥९-५७-१५॥
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः। चरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसया ॥९-५७-१६॥
एवं चेन्न महाबाहुरन्यायेन हनिष्यति। एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति ॥९-५७-१७॥
धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः। प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत् ॥९-५७-१८॥
गृह्य सञ्ज्ञां ततो भीमो गदया व्यचरद्रणे। मण्डलानि विचित्राणि यमकानीतराणि च ॥९-५७-१९॥
दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च। व्यचरत्पाण्डवो राजन्नरिं संमोहयन्निव ॥९-५७-२०॥
तथैव तव पुत्रोऽपि गदामार्गविशारदः। व्यचरल्लघु चित्रं च भीमसेनजिघांसया ॥९-५७-२१॥
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते। वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ ॥९-५७-२२॥
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ। युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ ॥९-५७-२३॥
मण्डलानि विचित्राणि चरतोर्नृपभीमयोः। गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः ॥९-५७-२४॥
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे। क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः ॥९-५७-२५॥
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव। गदानिर्घातसंह्रादः प्रहाराणामजायत ॥९-५७-२६॥
तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम्। उभावपि परिश्रान्तौ युध्यमानावरिंदमौ ॥९-५७-२७॥
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ। अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे ॥९-५७-२८॥
तयोः समभवद्युद्धं घोररूपमसंवृतम्। गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् ॥९-५७-२९॥
व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ। अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव ॥९-५७-३०॥
जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसम्प्लुतौ। ददृशाते हिमवति पुष्पिताविव किंशुकौ ॥९-५७-३१॥
दुर्योधनेन पार्थस्तु विवरे सम्प्रदर्शिते। ईषदुत्स्मयमानस्तु सहसा प्रससार ह ॥९-५७-३२॥
तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः। अवाक्षिपद्गदां तस्मै वेगेन महता बली ॥९-५७-३३॥
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पते। अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि ॥९-५७-३४॥
मोक्षयित्वा प्रहारं तं सुतस्तव स सम्भ्रमात्। भीमसेनं च गदया प्राहरत्कुरुसत्तमः ॥९-५७-३५॥
तस्य विष्यन्दमानेन रुधिरेणामितौजसः। प्रहारगुरुपाताच्च मूर्छेव समजायत ॥९-५७-३६॥
दुर्योधनस्तं च वेद पीडितं पाण्डवं रणे। धारयामास भीमोऽपि शरीरमतिपीडितम् ॥९-५७-३७॥
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे। अतो न प्राहरत्तस्मै पुनरेव तवात्मजः ॥९-५७-३८॥
ततो मुहूर्तमाश्वस्य दुर्योधनमवस्थितम्। वेगेनाभ्यद्रवद्राजन्भीमसेनः प्रतापवान् ॥९-५७-३९॥
तमापतन्तं सम्प्रेक्ष्य संरब्धममितौजसम्। मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ ॥९-५७-४०॥
अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः। इयेषोत्पतितुं राजंश्छलयिष्यन्वृकोदरम् ॥९-५७-४१॥
अबुध्यद्भीमसेनस्तद्राज्ञस्तस्य चिकीर्षितम्। अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत् ॥९-५७-४२॥
सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतः। ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः ॥९-५७-४३॥
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा। ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ ॥९-५७-४४॥
स पपात नरव्याघ्रो वसुधामनुनादयन्। भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते ॥९-५७-४५॥
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च। चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ॥९-५७-४६॥
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम्। महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी ॥ पपात चोल्का महती पतिते पृथिवीपतौ ॥९-५७-४७॥
तथा शोणितवर्षं च पांसुवर्षं च भारत। ववर्ष मघवांस्तत्र तव पुत्रे निपातिते ॥९-५७-४८॥
यक्षाणां राक्षसानां च पिशाचानां तथैव च। अन्तरिक्षे महानादः श्रूयते भरतर्षभ ॥९-५७-४९॥
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम्। जज्ञे घोरतमः शब्दो बहूनां सर्वतोदिशम् ॥९-५७-५०॥
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह। मुमुचुस्ते महानादं तव पुत्रे निपातिते ॥९-५७-५१॥
भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान्। अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते ॥९-५७-५२॥
बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः। नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप ॥९-५७-५३॥
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च। प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते ॥९-५७-५४॥
ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम। नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाभवन् ॥९-५७-५५॥
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन्। दुर्योधने तदा राजन्पतिते तनये तव ॥९-५७-५६॥
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह। आविग्नमनसः सर्वे बभूवुर्भरतर्षभ ॥९-५७-५७॥
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा। कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत ॥९-५७-५८॥
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः। नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् ॥९-५७-५९॥