09.062
जनमेजय उवाच॥
किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः। गान्धार्याः प्रेषयामास वासुदेवं परन्तपम् ॥९-६२-१॥
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति। न च तं लब्धवान्कामं ततो युद्धमभूदिदम् ॥९-६२-२॥
निहतेषु तु योधेषु हते दुर्योधने तथा। पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि ॥९-६२-३॥
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे। किं नु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः ॥९-६२-४॥
न चैतत्कारणं ब्रह्मन्नल्पं वै प्रतिभाति मे। यत्रागमदमेयात्मा स्वयमेव जनार्दनः ॥९-६२-५॥
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम। यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये ॥९-६२-६॥
वैशम्पायन उवाच॥
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव। तत्तेऽहं सम्प्रवक्ष्यामि यथावद्भरतर्षभ ॥९-६२-७॥
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे। व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् ॥९-६२-८॥
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत। युधिष्ठिरं महाराज महद्भयमथाविशत् ॥९-६२-९॥
चिन्तयानो महाभागां गान्धारीं तपसान्विताम्। घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् ॥९-६२-१०॥
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा। गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् ॥९-६२-११॥
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम्। मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति ॥९-६२-१२॥
कथं दुःखमिदं तीव्रं गान्धारी प्रसहिष्यति। श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् ॥९-६२-१३॥
एवं विचिन्त्य बहुधा भयशोकसमन्वितः। वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत ॥९-६२-१४॥
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम्। अप्राप्यं मनसापीह प्राप्तमस्माभिरच्युत ॥९-६२-१५॥
प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे। विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन ॥९-६२-१६॥
त्वया देवासुरे युद्धे वधार्थममरद्विषाम्। यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः ॥९-६२-१७॥
साह्यं तथा महाबाहो दत्तमस्माकमच्युत। सारथ्येन च वार्ष्णेय भवता यद्धृता वयम् ॥९-६२-१८॥
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे। कथं शक्यो रणे जेतुं भवेदेष बलार्णवः ॥९-६२-१९॥
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम्। शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वधैः ॥९-६२-२०॥
वाचश्च परुषाः प्राप्तास्त्वया ह्यस्मद्धितैषिणा। ताश्च ते सफलाः सर्वा हते दुर्योधनेऽच्युत ॥९-६२-२१॥
गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधव। सा हि नित्यं महाभागा तपसोग्रेण कर्शिता ॥९-६२-२२॥
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति। तस्याः प्रसादनं वीर प्राप्तकालं मतं मम ॥९-६२-२३॥
कश्च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम्। वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम ॥९-६२-२४॥
तत्र मे गमनं प्राप्तं रोचते तव माधव। गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम ॥९-६२-२५॥
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः। हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः ॥९-६२-२६॥
क्षिप्रमेव महाप्राज्ञ गान्धारीं शमयिष्यसि। पितामहश्च भगवान्कृष्णस्तत्र भविष्यति ॥९-६२-२७॥
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम्। कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा ॥९-६२-२८॥
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः। आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम् ॥९-६२-२९॥
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः। न्यवेदयद्रथं सज्जं केशवाय महात्मने ॥९-६२-३०॥
तं रथं यादवश्रेष्ठः समारुह्य परन्तपः। जगाम हास्तिनपुरं त्वरितः केशवो विभुः ॥९-६२-३१॥
ततः प्रायान्महाराज माधवो भगवान्रथी। नागसाह्वयमासाद्य प्रविवेश च वीर्यवान् ॥९-६२-३२॥
प्रविश्य नगरं वीरो रथघोषेण नादयन्। विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् ॥९-६२-३३॥
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम्। पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् ॥९-६२-३४॥
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः। अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः ॥९-६२-३५॥
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः। पाणिमालम्ब्य राज्ञः स सस्वरं प्ररुरोद ह ॥९-६२-३६॥
स मुहूर्तमिवोत्सृज्य बाष्पं शोकसमुद्भवम्। प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि ॥ उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिंदमः ॥९-६२-३७॥
न तेऽस्त्यविदितं किञ्चिद्भूतभव्यस्य भारत। कालस्य च यथा वृत्तं तत्ते सुविदितं प्रभो ॥९-६२-३८॥
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः। कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत ॥९-६२-३९॥
भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः। द्यूतच्छलजितैः शक्तैर्वनवासोऽभ्युपागतः ॥९-६२-४०॥
अज्ञातवासचर्या च नानावेशसमावृतैः। अन्ये च बहवः क्लेशास्त्वशक्तैरिव नित्यदा ॥९-६२-४१॥
मया च स्वयमागम्य युद्धकाल उपस्थिते। सर्वलोकस्य सांनिध्ये ग्रामांस्त्वं पञ्च याचितः ॥९-६२-४२॥
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः। तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् ॥९-६२-४३॥
भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण च। द्रोणेन च सपुत्रेण विदुरेण च धीमता ॥ याचितस्त्वं शमं नित्यं न च तत्कृतवानसि ॥९-६२-४४॥
कालोपहतचित्तो हि सर्वो मुह्यति भारत। यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते ॥९-६२-४५॥
किमन्यत्कालयोगाद्धि दिष्टमेव परायणम्। मा च दोषं महाराज पाण्डवेषु निवेशय ॥९-६२-४६॥
अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम्। धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप ॥९-६२-४७॥
एतत्सर्वं तु विज्ञाय आत्मदोषकृतं फलम्। असूयां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति ॥९-६२-४८॥
कुलं वंशश्च पिण्डश्च यच्च पुत्रकृतं फलम्। गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम् ॥९-६२-४९॥
एतत्सर्वमनुध्यात्वा आत्मनश्च व्यतिक्रमम्। शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ ॥९-६२-५०॥
जानासि च महाबाहो धर्मराजस्य या त्वयि। भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः ॥९-६२-५१॥
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम्। दह्यते स्म दिवारात्रं न च शर्माधिगच्छति ॥९-६२-५२॥
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम्। स शोचन्भरतश्रेष्ठ न शान्तिमधिगच्छति ॥९-६२-५३॥
ह्रिया च परयाविष्टो भवन्तं नाधिगच्छति। पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम् ॥९-६२-५४॥
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः। उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् ॥९-६२-५५॥
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते। त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे ॥९-६२-५६॥
जानामि च यथा राज्ञि सभायां मम संनिधौ। धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् ॥ उक्तवत्यसि कल्याणि न च ते तनयैः श्रुतम् ॥९-६२-५७॥
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः। शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः ॥९-६२-५८॥
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे। एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः ॥ पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन ॥९-६२-५९॥
शक्ता चासि महाभागे पृथिवीं सचराचराम्। चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् ॥९-६२-६०॥
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत्। एवमेतन्महाबाहो यथा वदसि केशव ॥९-६२-६१॥
आधिभिर्दह्यमानाया मतिः सञ्चलिता मम। सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन ॥९-६२-६२॥
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव। त्वं गतिः सह तैर्वीरैः पाण्डवैर्द्विपदां वर ॥९-६२-६३॥
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा। पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह ॥९-६२-६४॥
तत एनां महाबाहुः केशवः शोककर्शिताम्। हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः ॥९-६२-६५॥
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः। द्रौणेः सङ्कल्पितं भावमन्वबुध्यत केशवः ॥९-६२-६६॥
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च। द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् ॥९-६२-६७॥
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः। द्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितः ॥ पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता ॥९-६२-६८॥
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत्। धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् ॥९-६२-६९॥
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय। भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन ॥ प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः ॥९-६२-७०॥
वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम्। आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः ॥९-६२-७१॥
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह। शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप ॥९-६२-७२॥
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान्। तच्च तेभ्यः समाख्याय सहितस्तैः समाविशत् ॥९-६२-७३॥