Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.061
सञ्जय उवाच॥
ततस्ते प्रययुः सर्वे निवासाय महीक्षितः। शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः ॥९-६१-१॥
पाण्डवान्गच्छतश्चापि शिबिरं नो विशां पते। महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा ॥९-६१-२॥
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः। सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत ॥९-६१-३॥
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम्। दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने ॥९-६१-४॥
गतोत्सवं पुरमिव हृतनागमिव ह्रदम्। स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् ॥९-६१-५॥
तत्रैतान्पर्युपातिष्ठन्दुर्योधनपुरःसराः। कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः ॥९-६१-६॥
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः। अवतेरुर्महाराज रथेभ्यो रथसत्तमाः ॥९-६१-७॥
ततो गाण्डीवधन्वानमभ्यभाषत केशवः। स्थितः प्रियहिते नित्यमतीव भरतर्षभ ॥९-६१-८॥
अवरोपय गाण्डीवमक्षय्यौ च महेषुधी। अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम ॥९-६१-९॥
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ। तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः ॥९-६१-१०॥
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम्। अवारोहत मेधावी रथाद्गाण्डीवधन्वनः ॥९-६१-११॥
अथावतीर्णे भूतानामीश्वरे सुमहात्मनि। कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः ॥९-६१-१२॥
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः। अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते ॥९-६१-१३॥
सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः। भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः ॥९-६१-१४॥
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो। अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् ॥९-६१-१५॥
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य च। गोविन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना ॥९-६१-१६॥
किमेतन्महदाश्चर्यमभवद्यदुनन्दन। तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे ॥९-६१-१७॥
वासुदेव उवाच॥
अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन। मदधिष्ठितत्वात्समरे न विशीर्णः परन्तप ॥९-६१-१८॥
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा। मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि ॥९-६१-१९॥
सञ्जय उवाच॥
ईषदुत्स्मयमानश्च भगवान्केशवोऽरिहा। परिष्वज्य च राजानं युधिष्ठिरमभाषत ॥९-६१-२०॥
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः। दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ॥९-६१-२१॥
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ। मुक्ता वीरक्षयादस्मात्सङ्ग्रामान्निहतद्विषः ॥ क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत ॥९-६१-२२॥
उपयातमुपप्लव्यं सह गाण्डीवधन्वना। आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः ॥९-६१-२३॥
एष भ्राता सखा चैव तव कृष्ण धनञ्जयः। रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो ॥ तव चैवं ब्रुवाणस्य तथेत्येवाहमब्रुवम् ॥९-६१-२४॥
स सव्यसाची गुप्तस्ते विजयी च नरेश्वर। भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः ॥ मुक्तो वीरक्षयादस्मात्सङ्ग्रामाद्रोमहर्षणात् ॥९-६१-२५॥
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः। हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् ॥९-६१-२६॥
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन। कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरंदरः ॥९-६१-२७॥
भवतस्तु प्रसादेन सङ्ग्रामे बहवो जिताः। महारणगतः पार्थो यच्च नासीत्पराङ्मुखः ॥९-६१-२८॥
तथैव च महाबाहो पर्यायैर्बहुभिर्मया। कर्मणामनुसन्तानं तेजसश्च गतिः शुभा ॥९-६१-२९॥
उपप्लव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत्। यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥९-६१-३०॥
इत्येवमुक्ते ते वीराः शिबिरं तव भारत। प्रविश्य प्रत्यपद्यन्त कोशरत्नर्द्धिसञ्चयान् ॥९-६१-३१॥
रजतं जातरूपं च मणीनथ च मौक्तिकान्। भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च ॥ दासीदासमसङ्ख्येयं राज्योपकरणानि च ॥९-६१-३२॥
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ। उदक्रोशन्महेष्वासा नरेन्द्र विजितारयः ॥९-६१-३३॥
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च। अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा ॥९-६१-३४॥
अथाब्रवीन्महाराज वासुदेवो महायशाः। अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः ॥९-६१-३५॥
तथेत्युक्त्वा च ते सर्वे पाण्डवाः सात्यकिस्तथा। वासुदेवेन सहिता मङ्गलार्थं ययुर्बहिः ॥९-६१-३६॥
ते समासाद्य सरितं पुण्यामोघवतीं नृप। न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः ॥९-६१-३७॥
ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम्। स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् ॥ दारुकं रथमारोप्य येन राजाम्बिकासुतः ॥९-६१-३८॥
तमूचुः सम्प्रयास्यन्तं सैन्यसुग्रीववाहनम्। प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् ॥९-६१-३९॥
स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः। आससादयिषुः क्षिप्रं गान्धारीं निहतात्मजाम् ॥९-६१-४०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.