10.011
Core and Pancharatra: Draupadi laments and asks for Ashwatthama's life in revenge. Bhima goes after Ashwatthama, making Nakula his charioteer.
वैशम्पायन उवाच॥
स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्भ्रातॄन्सखींस्तथा। महादुःखपरीतात्मा बभूव जनमेजय ॥१०-११-१॥
ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः। स्मरतः पुत्रपौत्राणां भ्रातॄणां स्वजनस्य ह ॥१०-११-२॥
तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम्। सुहृदो भृशसंविग्नाः सान्त्वयां चक्रिरे तदा ॥१०-११-३॥
ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा। नकुलः कृष्णया सार्धमुपायात्परमार्तया ॥१०-११-४॥
उपप्लव्यगता सा तु श्रुत्वा सुमहदप्रियम्। तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत् ॥१०-११-५॥
कम्पमानेव कदली वातेनाभिसमीरिता। कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि ॥१०-११-६॥
बभूव वदनं तस्याः सहसा शोककर्शितम्। फुल्लपद्मपलाशाक्ष्यास्तमोध्वस्त इवांशुमान् ॥१०-११-७॥
ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः। बाहुभ्यां परिजग्राह समुपेत्य वृकोदरः ॥१०-११-८॥
सा समाश्वासिता तेन भीमसेनेन भामिनी। रुदती पाण्डवं कृष्णा सहभ्रातरमब्रवीत् ॥१०-११-९॥
दिष्ट्या राजंस्त्वमद्येमामखिलां भोक्ष्यसे महीम्। आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै ॥१०-११-१०॥
दिष्ट्या त्वं पार्थ कुशली मत्तमातङ्गगामिनम्। अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि ॥१०-११-११॥
आत्मजांस्तेन धर्मेण श्रुत्वा शूरान्निपातितान्। उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि ॥१०-११-१२॥
प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा। शोकस्तपति मां पार्थ हुताशन इवाशयम् ॥१०-११-१३॥
तस्य पापकृतो द्रौणेर्न चेदद्य त्वया मृधे। ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम् ॥१०-११-१४॥
इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः। न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः ॥१०-११-१५॥
एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत्। युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी ॥१०-११-१६॥
दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम्। प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम् ॥१०-११-१७॥
धर्म्यं धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे। पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि ॥१०-११-१८॥
द्रोणपुत्रः स कल्याणि वनं दूरमितो गतः। तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने ॥१०-११-१९॥
द्रौपद्युवाच॥
द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः। निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम् ॥ राजञ्शिरसि तं कृत्वा जीवेयमिति मे मतिः ॥१०-११-२०॥
वैशम्पायन उवाच॥
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना। भीमसेनमथाभ्येत्य कुपिता वाक्यमब्रवीत् ॥१०-११-२१॥
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्। जहि तं पापकर्माणं शम्बरं मघवानिव ॥ न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन ॥१०-११-२२॥
श्रुतं तत्सर्वलोकेषु परमव्यसने यथा। द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते ॥ हिडिम्बदर्शने चैव तथा त्वमभवो गतिः ॥१०-११-२३॥
तथा विराटनगरे कीचकेन भृशार्दिताम्। मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव ॥१०-११-२४॥
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा। तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव ॥१०-११-२५॥
तस्या बहुविधं दुःखान्निशम्य परिदेवितम्। नामर्षयत कौन्तेयो भीमसेनो महाबलः ॥१०-११-२६॥
स काञ्चनविचित्राङ्गमारुरोह महारथम्। आदाय रुचिरं चित्रं समार्गणगुणं धनुः ॥१०-११-२७॥
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः। विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् ॥१०-११-२८॥
ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः। वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः ॥१०-११-२९॥
शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः। द्रोणपुत्ररथस्याशु ययौ मार्गेण वीर्यवान् ॥१०-११-३०॥