Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.021
Pancharatra and Core: Gandhari laments on Karna's death.
गान्धार्युवाच॥
एष वैकर्तनः शेते महेष्वासो महारथः। ज्वलितानलवत्सङ्ख्ये संशान्तः पार्थतेजसा ॥११-२१-१॥
पश्य वैकर्तनं कर्णं निहत्यातिरथान्बहून्। शोणितौघपरीताङ्गं शयानं पतितं भुवि ॥११-२१-२॥
अमर्षी दीर्घरोषश्च महेष्वासो महारथः। रणे विनिहतः शेते शूरो गाण्डीवधन्वना ॥११-२१-३॥
यं स्म पाण्डवसन्त्रासान्मम पुत्रा महारथाः। प्रायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम् ॥११-२१-४॥
शार्दूलमिव सिंहेन समरे सव्यसाचिना। मातङ्गमिव मत्तेन मातङ्गेन निपातितम् ॥११-२१-५॥
समेताः पुरुषव्याघ्र निहतं शूरमाहवे। प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते ॥११-२१-६॥
उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः। त्रयोदश समा निद्रां चिन्तयन्न्नाध्यगच्छत ॥११-२१-७॥
अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव। युगान्ताग्निरिवार्चिष्मान्हिमवानिव च स्थिरः ॥११-२१-८॥
स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव। भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः ॥११-२१-९॥
पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम्। लालप्यमानाः करुणं रुदतीं पतितां भुवि ॥११-२१-१०॥
आचार्यशापोऽनुगतो ध्रुवं त्वां; यदग्रसच्चक्रमियं धरा ते। ततः शरेणापहृतं शिरस्ते; धनञ्जयेनाहवे शत्रुमध्ये ॥११-२१-११॥
अहो धिगेषा पतिता विसञ्ज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम्। कर्णं महाबाहुमदीनसत्त्वं; सुषेणमाता रुदती भृशार्ता ॥११-२१-१२॥
अल्पावशेषो हि कृतो महात्मा; शरीरभक्षैः परिभक्षयद्भिः। द्रष्टुं न सम्प्रीतिकरः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे ॥११-२१-१३॥
सावर्तमाना पतिता पृथिव्या; मुत्थाय दीना पुनरेव चैषा। कर्णस्य वक्त्रं परिजिघ्रमाणा; रोरूयते पुत्रवधाभितप्ता ॥११-२१-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.