Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.020
Pancharatra and Core: Continued lamentation of Gandhari in front of Krishna.
गान्धार्युवाच॥
अध्यर्धगुणमाहुर्यं बले शौर्ये च माधव। पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् ॥११-२०-१॥
यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम्। स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः ॥११-२०-२॥
तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः। अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति ॥११-२०-३॥
एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः। आर्ता बाला पतिं वीरं शोच्या शोचत्यनिन्दिता ॥११-२०-४॥
तमेषा हि समासाद्य भार्या भर्तारमन्तिके। विराटदुहिता कृष्ण पाणिना परिमार्जति ॥११-२०-५॥
तस्य वक्त्रमुपाघ्राय सौभद्रस्य यशस्विनी। विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् ॥११-२०-६॥
काम्यरूपवती चैषा परिष्वजति भामिनी। लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता ॥११-२०-७॥
तस्य क्षतजसंदिग्धं जातरूपपरिष्कृतम्। विमुच्य कवचं कृष्ण शरीरमभिवीक्षते ॥११-२०-८॥
अवेक्षमाणा तं बाला कृष्ण त्वामभिभाषते। अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः ॥११-२०-९॥
बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ। रूपेण च तवात्यर्थं शेते भुवि निपातितः ॥११-२०-१०॥
अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः। कच्चिदद्य शरीरं ते भूमौ न परितप्यते ॥११-२०-११॥
मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ। काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ ॥११-२०-१२॥
व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव। एवं विलपतीमार्तां न हि मामभिभाषसे ॥११-२०-१३॥
आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान्। पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि ॥११-२०-१४॥
तस्य शोणितसंदिग्धान्केशानुन्नाम्य पाणिना। उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति ॥ स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ॥११-२०-१५॥
कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः। धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् ॥११-२०-१६॥
द्रोणद्रौणायनी चोभौ यैरसि व्यसनीकृतः। रथर्षभाणां सर्वेषां कथमासीत्तदा मनः ॥११-२०-१७॥
बालं त्वां परिवार्यैकं मम दुःखाय जघ्नुषाम्। कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम् ॥ त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् ॥११-२०-१८॥
दृष्ट्वा बहुभिराक्रन्दे निहतं त्वामनाथवत्। वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ॥११-२०-१९॥
न राज्यलाभो विपुलः शत्रूणां वा पराभवः। प्रीतिं दास्यति पार्थानां त्वामृते पुष्करेक्षण ॥११-२०-२०॥
तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च। क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय ॥११-२०-२१॥
दुर्मरं पुनरप्राप्ते काले भवति केनचित्। यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा ॥११-२०-२२॥
कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा। पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि ॥११-२०-२३॥
नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि। परमेण च रूपेण गिरा च स्मितपूर्वया ॥११-२०-२४॥
प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान्। सौभद्र विहरन्काले स्मरेथाः सुकृतानि मे ॥११-२०-२५॥
एतावानिह संवासो विहितस्ते मया सह। षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः ॥११-२०-२६॥
इत्युक्तवचनामेतामपकर्षन्ति दुःखिताम्। उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः ॥११-२०-२७॥
उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम्। विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च ॥११-२०-२८॥
द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम्। विराटं वितुदन्त्येते गृध्रगोमायुवायसाः ॥११-२०-२९॥
वितुद्यमानं विहगैर्विराटमसितेक्षणाः। न शक्नुवन्ति विवशा निवर्तयितुमातुराः ॥११-२०-३०॥
आसामातपतप्तानामायासेन च योषिताम्। श्रमेण च विवर्णानां रूपाणां विगतं वपुः ॥११-२०-३१॥
उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम्। शिशूनेतान्हतान्पश्य लक्ष्मणं च सुदर्शनम् ॥ आयोधनशिरोमध्ये शयानं पश्य माधव ॥११-२०-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.