Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.003
Pancharatra-Ext: Karna, though bitten by a worm, a daemon Gṛtsa by name, endured, suspecting that the teacher might awaken. As Karna cheated on his teacher out of greed for weapons, he was cursed.
नारद उवाच॥
कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च। तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा ॥१२-३-१॥
तस्मै स विधिवत्कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम्। प्रोवाचाखिलमव्यग्रं तपस्वी सुतपस्विने ॥१२-३-२॥
विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः। चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः ॥१२-३-३॥
ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात्। कर्णेन सहितो धीमानुपवासेन कर्शितः ॥१२-३-४॥
सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः। कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः ॥१२-३-५॥
अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः। दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागमत् ॥१२-३-६॥
स तस्योरुमथासाद्य बिभेद रुधिराशनः। न चैनमशकत्क्षेप्तुं हन्तुं वापि गुरोर्भयात् ॥१२-३-७॥
संदश्यमानोऽपि तथा कृमिणा तेन भारत। गुरुप्रबोधशङ्की च तमुपैक्षत सूतजः ॥१२-३-८॥
कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम्। अकम्पन्नव्यथंश्चैव धारयामास भार्गवम् ॥१२-३-९॥
यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः। तदाबुध्यत तेजस्वी सन्तप्तश्चेदमब्रवीत् ॥१२-३-१०॥
अहोऽस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया। कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम ॥१२-३-११॥
तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम्। ददर्श रामस्तं चापि कृमिं सूकरसंनिभम् ॥१२-३-१२॥
अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम्। रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः ॥१२-३-१३॥
स दृष्टमात्रो रामेण कृमिः प्राणानवासृजत्। तस्मिन्नेवासृक्सङ्क्लिन्ने तदद्भुतमिवाभवत् ॥१२-३-१४॥
ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान्। राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः ॥१२-३-१५॥
स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः। स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम् ॥१२-३-१६॥
मोक्षितो नरकादस्मि भवता मुनिसत्तम। भद्रं च तेऽस्तु नन्दिश्च प्रियं मे भवता कृतम् ॥१२-३-१७॥
तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान्। कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् ॥१२-३-१८॥
सोऽब्रवीदहमासं प्राग्गृत्सो नाम महासुरः। पुरा देवयुगे तात भृगोस्तुल्यवया इव ॥१२-३-१९॥
सोऽहं भृगोः सुदयितां भार्यामपहरं बलात्। महर्षेरभिशापेन कृमिभूतोऽपतं भुवि ॥१२-३-२०॥
अब्रवीत्तु स मां क्रोधात्तव पूर्वपितामहः। मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे ॥१२-३-२१॥
शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रुवम्। भविता भार्गवे राम इति मामब्रवीद्भृगुः ॥१२-३-२२॥
सोऽहमेतां गतिं प्राप्तो यथा नकुशलं तथा। त्वया साधो समागम्य विमुक्तः पापयोनितः ॥१२-३-२३॥
एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः। रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत् ॥१२-३-२४॥
अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत्। क्षत्रियस्यैव ते धैर्यं कामया सत्यमुच्यताम् ॥१२-३-२५॥
तमुवाच ततः कर्णः शापभीतः प्रसादयन्। ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव ॥१२-३-२६॥
राधेयः कर्ण इति मां प्रवदन्ति जना भुवि। प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव ॥१२-३-२७॥
पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः। अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके ॥१२-३-२८॥
तमुवाच भृगुश्रेष्ठः सरोषः प्रहसन्निव। भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् ॥१२-३-२९॥
यस्मान्मिथ्योपचरितो अस्त्रलोभादिह त्वया। तस्मादेतद्धि ते मूढ ब्रह्मास्त्रं प्रतिभास्यति ॥१२-३-३०॥
अन्यत्र वधकालात्ते सदृशेन समेयुषः। अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत्कदाचन ॥१२-३-३१॥
गच्छेदानीं न ते स्थानमनृतस्येह विद्यते। न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि ॥१२-३-३२॥
एवमुक्तस्तु रामेण न्यायेनोपजगाम सः। दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत् ॥१२-३-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.