12.008
वैशम्पायन उवाच॥
अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी। अभिनीततरं वाक्यं दृढवादपराक्रमः ॥१२-८-१॥
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः। स्मयमानो महातेजाः सृक्किणी संलिहन्मुहुः ॥१२-८-२॥
अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम्। यत्कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम् ॥१२-८-३॥
शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम्। हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात् ॥१२-८-४॥
क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः। किमर्थं च महीपालानवधीः क्रोधमूर्छितः ॥१२-८-५॥
यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव केनचित्। समारम्भान्बुभूषेत हतस्वस्तिरकिञ्चनः ॥ सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः ॥१२-८-६॥
कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतः। सन्त्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति ॥१२-८-७॥
सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिञ्चनः। कस्मादाशंससे भैक्ष्यं चर्तुं प्राकृतवत्प्रभो ॥१२-८-८॥
अस्मिन्राजकुले जातो जित्वा कृत्स्नां वसुन्धराम्। धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे ॥१२-८-९॥
यदीमानि हवींषीह विमथिष्यन्त्यसाधवः। भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम् ॥१२-८-१०॥
आकिञ्चन्यमनाशास्यमिति वै नहुषोऽब्रवीत्। कृत्या नृशंसा ह्यधने धिगस्त्वधनतामिह ॥१२-८-११॥
अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान्। यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते ॥१२-८-१२॥
धर्मं संहरते तस्य धनं हरति यस्य यः। ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि ॥१२-८-१३॥
अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम्। दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ॥१२-८-१४॥
पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते। विशेषं नाधिगच्छामि पतितस्याधनस्य च ॥१२-८-१५॥
अर्थेभ्यो हि विवृद्धेभ्यः सम्भृतेभ्यस्ततस्ततः। क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥१२-८-१६॥
अर्धाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप। प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति ॥१२-८-१७॥
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः। व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥१२-८-१८॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः। यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥१२-८-१९॥
अधनेनार्थकामेन नार्थः शक्यो विवित्सता। अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ॥१२-८-२०॥
धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः। अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥१२-८-२१॥
धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्तते। नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ॥१२-८-२२॥
नाधनो धर्मकृत्यानि यथावदनुतिष्ठति। धनाद्धि धर्मः स्रवति शैलाद्गिरिनदी यथा ॥१२-८-२३॥
यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः। स वै राजन्कृशो नाम न शरीरकृशः कृशः ॥१२-८-२४॥
अवेक्षस्व यथान्यायं पश्य देवासुरं यथा। राजन्किमन्यज्ज्ञातीनां वधादृध्यन्ति देवताः ॥१२-८-२५॥
न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत्। एतावानेव वेदेषु निश्चयः कविभिः कृतः ॥१२-८-२६॥
अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता। सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः ॥१२-८-२७॥
द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः। इति देवा व्यवसिता वेदवादाश्च शाश्वताः ॥१२-८-२८॥
अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च। कृत्स्नं तदेव च श्रेयो यदप्याददतेऽन्यतः ॥१२-८-२९॥
न पश्यामोऽनपहृतं धनं किञ्चित्क्वचिद्वयम्। एवमेव हि राजानो जयन्ति पृथिवीमिमाम् ॥१२-८-३०॥
जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर्धने। राजर्षयो जितस्वर्गा धर्मो ह्येषां निगद्यते ॥१२-८-३१॥
यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश। एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति ॥१२-८-३२॥
आसीदियं दिलीपस्य नृगस्य नहुषस्य च। अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता ॥१२-८-३३॥
स त्वां द्रव्यमयो यज्ञः सम्प्राप्तः सर्वदक्षिणः। तं चेन्न यजसे राजन्प्राप्तस्त्वं देवकिल्बिषम् ॥१२-८-३४॥
येषां राजाश्वमेधेन यजते दक्षिणावता। उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते ॥१२-८-३५॥
विश्वरूपो महादेवः सर्वमेधे महामखे। जुहाव सर्वभूतानि तथैवात्मानमात्मना ॥१२-८-३६॥
शाश्वतोऽयं भूतिपथो नास्यान्तमनुशुश्रुम। महान्दाशरथः पन्था मा राजन्कापथं गमः ॥१२-८-३७॥