12.009
युधिष्ठिर उवाच॥
मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि। धारयित्वापि ते श्रुत्वा रोचतां वचनं मम ॥१२-९-१॥
सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः। गच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत ॥१२-९-२॥
क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम्। अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु ॥१२-९-३॥
हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः। अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ॥१२-९-४॥
जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन्। कृशः परिमिताहारश्चर्मचीरजटाधरः ॥१२-९-५॥
शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः। तपसा विधिदृष्टेन शरीरमुपशोषयन् ॥१२-९-६॥
मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः। मुदितानामरण्येषु वसतां मृगपक्षिणाम् ॥१२-९-७॥
आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम्। नानारूपान्वने पश्यन्रमणीयान्वनौकसः ॥१२-९-८॥
वानप्रस्थजनस्यापि दर्शनं कुलवासिनः। नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् ॥१२-९-९॥
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्। पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥१२-९-१०॥
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्। सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् ॥१२-९-११॥
अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ। चरन्भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ॥१२-९-१२॥
पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः। वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥१२-९-१३॥
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः। निराशीर्निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः ॥१२-९-१४॥
आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः। अकुर्वाणः परैः काञ्चित्संविदं जातु केनचित् ॥१२-९-१५॥
जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान्। प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ॥१२-९-१६॥
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित्। प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः ॥१२-९-१७॥
अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित्। न देशं न दिशं काञ्चिद्गन्तुमिच्छन्विशेषतः ॥१२-९-१८॥
गमने निरपेक्षश्च पश्चादनवलोकयन्। ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः ॥१२-९-१९॥
स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि। द्वंद्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् ॥१२-९-२०॥
अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित्। अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन् ॥१२-९-२१॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने। अतीतपात्रसञ्चारे काले विगतभिक्षुके ॥१२-९-२२॥
एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च च। स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम् ॥१२-९-२३॥
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन्। जीवितं मरणं चैव नाभिनन्दन्न च द्विषन् ॥१२-९-२४॥
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः। नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥१२-९-२५॥
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः। सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ॥१२-९-२६॥
तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः। सुपरित्यक्तसङ्कल्पः सुनिर्णिक्तात्मकल्मषः ॥१२-९-२७॥
विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः। न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥१२-९-२८॥
वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम्। तृष्णया हि महत्पापमज्ञानादस्मि कारितः ॥१२-९-२९॥
कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः। कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति ॥१२-९-३०॥
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्। प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ॥१२-९-३१॥
एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत्। समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् ॥१२-९-३२॥
जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम्। असारमिममस्वन्तं संसारं त्यजतः सुखम् ॥१२-९-३३॥
दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु। को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ॥१२-९-३४॥
कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम्। पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते ॥१२-९-३५॥
तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम्। तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् ॥१२-९-३६॥
एतया सततं वृत्त्या चरन्नेवम्प्रकारया। देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥१२-९-३७॥