12.007
वैशम्पायन उवाच॥
युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः। शुशोच दुःखसन्तप्तः स्मृत्वा कर्णं महारथम् ॥१२-७-१॥
आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः। दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः ॥१२-७-२॥
यद्भैक्षमाचरिष्याम वृष्ण्यन्धकपुरे वयम्। ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् ॥१२-७-३॥
अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल। आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः ॥१२-७-४॥
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम्। धिगस्त्वमर्षं येनेमामापदं गमिता वयम् ॥१२-७-५॥
साधु क्षमा दमः शौचमवैरोध्यममत्सरः। अहिंसा सत्यवचनं नित्यानि वनचारिणाम् ॥१२-७-६॥
वयं तु लोभान्मोहाच्च स्तम्भं मानं च संश्रिताः। इमामवस्थामापन्ना राज्यलेशबुभुक्षया ॥१२-७-७॥
त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत्। बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः ॥१२-७-८॥
ते वयं पृथिवीहेतोरवध्यान्पृथिवीसमान्। सम्परित्यज्य जीवामो हीनार्था हतबान्धवाः ॥१२-७-९॥
आमिषे गृध्यमानानामशुनां नः शुनामिव। आमिषं चैव नो नष्टमामिषस्य च भोजिनः ॥१२-७-१०॥
न पृथिव्या सकलया न सुवर्णस्य राशिभिः। न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः ॥१२-७-११॥
संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः। मृत्युयानं समारुह्य गता वैवस्वतक्षयम् ॥१२-७-१२॥
बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान्। तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया ॥१२-७-१३॥
उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः। लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति ॥१२-७-१४॥
यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि। सम्भाविता जातबलास्ते दद्युर्यदि नः सुखम् ॥ इह चामुत्र चैवेति कृपणाः फलहेतुकाः ॥१२-७-१५॥
तासामयं समारम्भो निवृत्तः केवलोऽफलः। यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः ॥१२-७-१६॥
अभुक्त्वा पार्थिवान्भोगानृणान्यनवदाय च। पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम् ॥१२-७-१७॥
यदैषामङ्ग पितरौ जातौ काममयाविव। सञ्जातबलरूपेषु तदैव निहता नृपाः ॥१२-७-१८॥
संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः। न ते जन्मफलं किञ्चिद्भोक्तारो जातु कर्हिचित् ॥१२-७-१९॥
पाञ्चालानां कुरूणां च हता एव हि येऽहताः। ते वयं त्वधमाँल्लोकान्प्रपद्येम स्वकर्मभिः ॥१२-७-२०॥
वयमेवास्य लोकस्य विनाशे कारणं स्मृताः। धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि ॥१२-७-२१॥
सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः। मिथ्यावृत्तः स सततमस्मास्वनपकारिषु ॥१२-७-२२॥
अंशकामा वयं ते च न चास्माभिर्न तैर्जितम्। न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम् ॥१२-७-२३॥
नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम्। न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः ॥१२-७-२४॥
ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः। धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः ॥१२-७-२५॥
तं पिता पुत्रगृद्धित्वादनुमेनेऽनये स्थितम्। अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा ॥ असंशयं धृतराष्ट्रो यथैवाहं तथा गतः ॥१२-७-२६॥
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम्। पतितो यशसो दीप्ताद्घातयित्वा सहोदरान् ॥१२-७-२७॥
इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः। अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि ॥१२-७-२८॥
को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने। यथासावुक्तवान्क्षुद्रो युयुत्सुर्वृष्णिसंनिधौ ॥१२-७-२९॥
आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः। प्रदहन्तो दिशः सर्वास्तेजसा भास्करा इव ॥१२-७-३०॥
सोऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः। दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् ॥ अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम् ॥१२-७-३१॥
कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम्। राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति ॥१२-७-३२॥
हताः शूराः कृतं पापं विषयः स्वो विनाशितः। हत्वा नो विगतो मन्युः शोको मां रुन्धयत्ययम् ॥१२-७-३३॥
धनञ्जय कृतं पापं कल्याणेनोपहन्यते। त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः ॥१२-७-३४॥
त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा। प्राप्तवर्त्मा कृतमतिर्ब्रह्म सम्पद्यते तदा ॥१२-७-३५॥
स धनञ्जय निर्द्वंद्वो मुनिर्ज्ञानसमन्वितः। वनमामन्त्र्य वः सर्वान्गमिष्यामि परन्तप ॥१२-७-३६॥
न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः। परिग्रहवता तन्मे प्रत्यक्षमरिसूदन ॥१२-७-३७॥
मया निसृष्टं पापं हि परिग्रहमभीप्सता। जन्मक्षयनिमित्तं च शक्यं प्राप्तुमिति श्रुतिः ॥१२-७-३८॥
स परिग्रहमुत्सृज्य कृत्स्नं राज्यं तथैव च। गमिष्यामि विनिर्मुक्तो विशोको विज्वरस्तथा ॥१२-७-३९॥
प्रशाधि त्वमिमामुर्वीं क्षेमां निहतकण्टकाम्। न ममार्थोऽस्ति राज्येन न भोगैर्वा कुरूत्तम ॥१२-७-४०॥
एतावदुक्त्वा वचनं धर्मराजो युधिष्ठिरः। व्युपारमत्ततः पार्थः कनीयान्प्रत्यभाषत ॥१२-७-४१॥