Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.013
सहदेव उवाच॥
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत। शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥१२-१३-१॥
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः। यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथास्तु नः ॥१२-१३-२॥
शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः। यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथास्तु नः ॥१२-१३-३॥
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्। ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ॥१२-१३-४॥
ब्रह्ममृत्यू च तौ राजन्नात्मन्येव समाश्रितौ। अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥१२-१३-५॥
अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत। भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते ॥१२-१३-६॥
अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस्तथा। नष्टे शरीरे नष्टं स्याद्वृथा च स्यात्क्रियापथः ॥१२-१३-७॥
तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः। पन्था निषेवितः सद्भिः स निषेव्यो विजानता ॥१२-१३-८॥
लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम्। न भुङ्क्ते यो नृपः सम्यङ्निष्फलं तस्य जीवितम् ॥१२-१३-९॥
अथ वा वसतो राजन्वने वन्येन जीवतः। द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते ॥१२-१३-१०॥
बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत। ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात् ॥१२-१३-११॥
भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः। दुःखप्रलापानार्तस्य तस्मान्मे क्षन्तुमर्हसि ॥१२-१३-१२॥
तथ्यं वा यदि वातथ्यं यन्मयैतत्प्रभाषितम्। तद्विद्धि पृथिवीपाल भक्त्या भरतसत्तम ॥१२-१३-१३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.