Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.028
Library: Vyasa narrates the song of stone, told to King Janaka, on the importance of time and timely actions.
वैशम्पायन उवाच॥
ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः। ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् ॥१२-२८-१॥
व्यास उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर ॥१२-२८-२॥
अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः। संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः ॥१२-२८-३॥
जनक उवाच॥
आगमे यदि वापाये ज्ञातीनां द्रविणस्य च। नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता ॥१२-२८-४॥
अश्मोवाच॥
उत्पन्नमिममात्मानं नरस्यानन्तरं ततः। तानि तान्यभिवर्तन्ते दुःखानि च सुखानि च ॥१२-२८-५॥
तेषामन्यतरापत्तौ यद्यदेवोपसेवते। तत्तद्धि चेतनामस्य हरत्यभ्रमिवानिलः ॥१२-२८-६॥
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः। इत्येवं हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यति ॥१२-२८-७॥
स प्रसिक्तमना भोगान्विसृज्य पितृसञ्चितान्। परिक्षीणः परस्वानामादानं साधु मन्यते ॥१२-२८-८॥
तमतिक्रान्तमर्यादमाददानमसाम्प्रतम्। प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥१२-२८-९॥
ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः। परेण ते वर्षशतान्न भविष्यन्ति पार्थिव ॥१२-२८-१०॥
तेषां परमदुःखानां बुद्ध्या भेषजमादिशेत्। सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः ॥१२-२८-११॥
मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः। अनिष्टोपनिपातो वा तृतीयं नोपपद्यते ॥१२-२८-१२॥
एवमेतानि दुःखानि तानि तानीह मानवम्। विविधान्युपवर्तन्ते तथा सांस्पर्शकानि च ॥१२-२८-१३॥
जरामृत्यू ह भूतानि खादितारौ वृकाविव। बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥१२-२८-१४॥
न कश्चिज्जात्वतिक्रामेज्जरामृत्यू ह मानवः। अपि सागरपर्यन्तां विजित्येमां वसुन्धराम् ॥१२-२८-१५॥
सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्। प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते ॥१२-२८-१६॥
पूर्वे वयसि मध्ये वाप्युत्तमे वा नराधिप। अवर्जनीयास्तेऽर्था वै काङ्क्षिताश्च ततोऽन्यथा ॥१२-२८-१७॥
सुप्रियैर्विप्रयोगश्च सम्प्रयोगस्तथाप्रियैः। अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते ॥१२-२८-१८॥
प्रादुर्भावश्च भूतानां देहन्यासस्तथैव च। प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम् ॥१२-२८-१९॥
गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः। तथैव सुखदुःखानि विधानमनुवर्तते ॥१२-२८-२०॥
आसनं शयनं यानमुत्थानं पानभोजनम्। नियतं सर्वभूतानां कालेनैव भवन्त्युत ॥१२-२८-२१॥
वैद्याश्चाप्यातुराः सन्ति बलवन्तः सुदुर्बलाः। स्त्रीमन्तश्च तथा षण्ढा विचित्रः कालपर्ययः ॥१२-२८-२२॥
कुले जन्म तथा वीर्यमारोग्यं धैर्यमेव च। सौभाग्यमुपभोगश्च भवितव्येन लभ्यते ॥१२-२८-२३॥
सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम्। बहूनामिच्छतां नास्ति समृद्धानां विचेष्टताम् ॥१२-२८-२४॥
व्याधिरग्निर्जलं शस्त्रं बुभुक्षा श्वापदं विषम्। रज्ज्वा च मरणं जन्तोरुच्चाच्च पतनं तथा ॥१२-२८-२५॥
निर्याणं यस्य यद्दिष्टं तेन गच्छति हेतुना। दृश्यते नाभ्यतिक्रामन्नतिक्रान्तो न वा पुनः ॥१२-२८-२६॥
दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः। दरिद्रश्च परिक्लिष्टः शतवर्षो जनाधिप ॥१२-२८-२७॥
अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः। समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ॥१२-२८-२८॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते। काष्ठान्यपि हि जीर्यन्ते दरिद्राणां नराधिप ॥१२-२८-२९॥
अहमेतत्करोमीति मन्यते कालचोदितः। यद्यदिष्टमसन्तोषाद्दुरात्मा पापमाचरन् ॥१२-२८-३०॥
स्त्रियोऽक्षा मृगया पानं प्रसङ्गान्निन्दिता बुधैः। दृश्यन्ते चापि बहवः सम्प्रसक्ता बहुश्रुताः ॥१२-२८-३१॥
इति कालेन सर्वार्थानीप्सितानीप्सितानि च। स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते ॥१२-२८-३२॥
वायुमाकाशमग्निं च चन्द्रादित्यावहःक्षपे। ज्योतींषि सरितः शैलान्कः करोति बिभर्ति वा ॥१२-२८-३३॥
शीतमुष्णं तथा वर्षं कालेन परिवर्तते। एवमेव मनुष्याणां सुखदुःखे नरर्षभ ॥१२-२८-३४॥
नौषधानि न शास्त्राणि न होमा न पुनर्जपाः। त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ॥१२-२८-३५॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ। समेत्य च व्यतीयातां तद्वद्भूतसमागमः ॥१२-२८-३६॥
ये चापि पुरुषैः स्त्रीभिर्गीतवाद्यैरुपस्थिताः। ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥१२-२८-३७॥
मातृपितृसहस्राणि पुत्रदारशतानि च। संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥१२-२८-३८॥
नैवास्य कश्चिद्भविता नायं भवति कस्यचित्। पथि सङ्गतमेवेदं दारबन्धुसुहृद्गणैः ॥१२-२८-३९॥
क्वासं क्वास्मि गमिष्यामि को न्वहं किमिहास्थितः। कस्मात्कमनुशोचेयमित्येवं स्थापयेन्मनः ॥ अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ॥१२-२८-४०॥
न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः। आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ॥१२-२८-४१॥
कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत्। यजेच्च विद्वान्विधिवत्त्रिवर्गं चाप्यनुव्रजेत् ॥१२-२८-४२॥
संनिमज्जज्जगदिदं गम्भीरे कालसागरे। जरामृत्युमहाग्राहे न कश्चिदवबुध्यते ॥१२-२८-४३॥
आयुर्वेदमधीयानाः केवलं सपरिग्रहम्। दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ॥१२-२८-४४॥
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च। न मृत्युमतिवर्तन्ते वेलामिव महोदधिः ॥१२-२८-४५॥
रसायनविदश्चैव सुप्रयुक्तरसायनाः। दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥१२-२८-४६॥
तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः। दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ ॥१२-२८-४७॥
न ह्यहानि निवर्तन्ते न मासा न पुनः समाः। जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः ॥१२-२८-४८॥
सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः। नरोऽवशः समभ्येति सर्वभूतनिषेवितम् ॥१२-२८-४९॥
देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः। पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः ॥१२-२८-५०॥
नायमत्यन्तसंवासो लभ्यते जातु केनचित्। अपि स्वेन शरीरेण किमुतान्येन केनचित् ॥१२-२८-५१॥
क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः। न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च ॥१२-२८-५२॥
न ह्येव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा। आगमस्तु सतां चक्षुर्नृपते तमिहाचर ॥१२-२८-५३॥
चरितब्रह्मचर्यो हि प्रजायेत यजेत च। पितृदेवमहर्षीणामानृण्यायानसूयकः ॥१२-२८-५४॥
स यज्ञशीलः प्रजने निविष्टः; प्राग्ब्रह्मचारी प्रविभक्तपक्षः। आराधयन्स्वर्गमिमं च लोकं; परं च मुक्त्वा हृदयव्यलीकम् ॥१२-२८-५५॥
सम्यग्घि धर्मं चरतो नृपस्य; द्रव्याणि चाप्याहरतो यथावत्। प्रवृत्तचक्रस्य यशोऽभिवर्धते; सर्वेषु लोकेषु चराचरेषु ॥१२-२८-५६॥
व्यास उवाच॥
इत्येवमाज्ञाय विदेहराजो; वाक्यं समग्रं परिपूर्णहेतुः। अश्मानमामन्त्र्य विशुद्धबुद्धि; र्ययौ गृहं स्वं प्रति शान्तशोकः ॥१२-२८-५७॥
तथा त्वमप्यच्युत मुञ्च शोक; मुत्तिष्ठ शक्रोपम हर्षमेहि। क्षात्रेण धर्मेण मही जिता ते; तां भुङ्क्ष्व कुन्तीसुत मा विषादीः ॥१२-२८-५८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.