Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.029
Library: Krishna narrates the conversation between sage Narada and Sṛñjaya, where various great kings like Bharata, Bhagirata, Rama, Dilipa, Mandhata, Yayati, Nahusha, Shashibindu, Chaitraratha, Rantideva, Sagara, and Prithu are narrated, and all are dead, and hence one should not be miserable because of death.
वैशम्पायन उवाच॥
अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे। गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः ॥१२-२९-१॥
ज्ञातिशोकाभिसन्तप्तो धर्मराजः परन्तपः। एष शोकार्णवे मग्नस्तमाश्वासय माधव ॥१२-२९-२॥
सर्वे स्म ते संशयिताः पुनरेव जनार्दन। अस्य शोकं महाबाहो प्रणाशयितुमर्हसि ॥१२-२९-३॥
एवमुक्तस्तु गोविन्दो विजयेन महात्मना। पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः ॥१२-२९-४॥
अनतिक्रमणीयो हि धर्मराजस्य केशवः। बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात् ॥१२-२९-५॥
सम्प्रगृह्य महाबाहुर्भुजं चन्दनभूषितम्। शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् ॥१२-२९-६॥
शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम्। व्याकोशमिव विस्पष्टं पद्मं सूर्यविबोधितम् ॥१२-२९-७॥
मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम्। न हि ते सुलभा भूयो ये हतास्मिन्रणाजिरे ॥१२-२९-८॥
स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने। एवं ते क्षत्रिया राजन्ये व्यतीता महारणे ॥१२-२९-९॥
सर्वे ह्यभिमुखाः शूरा विगता रणशोभिनः। नैषां कश्चित्पृष्ठतो वा पलायन्वापि पातितः ॥१२-२९-१०॥
सर्वे त्यक्त्वात्मनः प्राणान्युद्ध्वा वीरा महाहवे। शस्त्रपूता दिवं प्राप्ता न ताञ्शोचितुमर्हसि ॥१२-२९-११॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः ॥१२-२९-१२॥
सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय। अविमुक्तं चरिष्यामस्तत्र का परिदेवना ॥१२-२९-१३॥
महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु। गच्छावधानं नृपते ततो दुःखं प्रहास्यसि ॥१२-२९-१४॥
मृतान्महानुभावांस्त्वं श्रुत्वैव तु महीपतीन्। श्रुत्वापनय सन्तापं शृणु विस्तरशश्च मे ॥१२-२९-१५॥
आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि। यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः ॥ देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ॥१२-२९-१६॥
यः स्पर्धामनयच्छक्रं देवराजं शतक्रतुम्। शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः ॥ संवर्तो याजयामास यं पीडार्थं बृहस्पतेः ॥१२-२९-१७॥
यस्मिन्प्रशासति सतां नृपतौ नृपसत्तम। अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी ॥१२-२९-१८॥
आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः। मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ॥१२-२९-१९॥
मरुद्गणा मरुत्तस्य यत्सोममपिबन्त ते। देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥१२-२९-२०॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-२१॥
सुहोत्रं चेद्वैतिथिनं मृतं सृञ्जय शुश्रुम। यस्मै हिरण्यं ववृषे मगह्वान्परिवत्सरम् ॥१२-२९-२२॥
सत्यनामा वसुमती यं प्राप्यासीज्जनाधिप। हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे ॥१२-२९-२३॥
कूर्मान्कर्कटकान्नक्रान्मकराञ्शिंशुकानपि। नदीष्वपातयद्राजन्मघवा लोकपूजितः ॥१२-२९-२४॥
हैरण्यान्पतितान्दृष्ट्वा मत्स्यान्मकरकच्छपान्। सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः ॥१२-२९-२५॥
तद्धिरण्यमपर्यन्तमावृत्तं कुरुजाङ्गले। ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ॥१२-२९-२६॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ अदक्षिणमयज्वानं श्वैत्य संशाम्य मा शुचः ॥१२-२९-२७॥
अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय। यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत् ॥१२-२९-२८॥
सहस्रं च सहस्राणां कन्या हेमविभूषिताः। ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥१२-२९-२९॥
शतं शतसहस्राणां वृषाणां हेममालिनाम्। गवां सहस्रानुचरं दक्षिणामत्यकालयत् ॥१२-२९-३०॥
अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ। अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥१२-२९-३१॥
यस्य यज्ञेषु राजेन्द्र शतसङ्ख्येषु वै पुनः। देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥१२-२९-३२॥
न जातो जनिता चान्यः पुमान्यस्तत्प्रदास्यति। यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु ॥१२-२९-३३॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-३४॥
शिबिमौशीनरं चैव मृतं शुश्रुम सृञ्जय। य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ॥१२-२९-३५॥
महताऽ रथघोषेण पृथिवीमनुनादयन्। एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः ॥१२-२९-३६॥
यावदद्य गवाश्वं स्यादारण्यैः पशुभिः सह। तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे ॥१२-२९-३७॥
नोद्यम्तारं धुरं तस्य कञ्चिन्मेने प्रजापतिः। न भूतं न भविष्यन्तं सर्वराजसु भारत ॥ अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् ॥१२-२९-३८॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ अदक्षिणमयज्वानं तं वै संशाम्य मा शुचः ॥१२-२९-३९॥
भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम। शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम् ॥१२-२९-४०॥
यो बद्ध्वा त्रिंशतो ह्यश्वान्देवेभ्यो यमुनामनु। सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश ॥१२-२९-४१॥
अश्वमेधसहस्रेण राजसूयशतेन च। इष्टवान्स महातेजा दौःषन्तिर्भरतः पुरा ॥१२-२९-४२॥
भरतस्य महत्कर्म सर्वराजसु पार्थिवाः। खं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् ॥१२-२९-४३॥
परं सहस्राद्यो बद्ध्वा हयान्वेदीं विचित्य च। सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ ॥१२-२९-४४॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-४५॥
रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय। योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् ॥१२-२९-४६॥
विधवा यस्य विषये नानाथाः काश्चनाभवन्। सर्वस्यासीत्पितृसमो रामो राज्यं यदान्वशात् ॥१२-२९-४७॥
कालवर्षाश्च पर्जन्याः सस्यानि रसवन्ति च। नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति ॥१२-२९-४८॥
प्राणिनो नाप्सु मज्जन्ति नानर्थे पावकोऽदहत्। न व्यालजं भयं चासीद्रामे राज्यं प्रशासति ॥१२-२९-४९॥
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिकाः। अरोगाः सर्वसिद्धार्थाः प्रजा रामे प्रशासति ॥१२-२९-५०॥
नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम्। धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति ॥१२-२९-५१॥
नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः। सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति ॥१२-२९-५२॥
स चतुर्दश वर्षाणि वने प्रोष्य महातपाः। दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥१२-२९-५३॥
श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः। दश वर्षसहस्राणि रामो राज्यमकारयत् ॥१२-२९-५४॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-५५॥
भगीरथं च राजानं मृतं शुश्रुम सृञ्जय। यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः ॥१२-२९-५६॥
असुराणां सहस्राणि बहूनि सुरसत्तमः। अजयद्बाहुवीर्येण भगवान्पाकशासनः ॥१२-२९-५७॥
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः। ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥१२-२९-५८॥
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः। रथे रथे शतं नागाः पद्मिनो हेममालिनः ॥१२-२९-५९॥
सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः। गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् ॥१२-२९-६०॥
उपह्वरे निवसतो यस्याङ्के निषसाद ह। गङ्गा भागीरथी तस्मादुर्वशी ह्यभवत्पुरा ॥१२-२९-६१॥
भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम्। त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी ॥१२-२९-६२॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-६३॥
दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय। यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः ॥१२-२९-६४॥
इमां वै वसुसम्पन्नां वसुधां वसुधाधिपः। ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः ॥१२-२९-६५॥
तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः। सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् ॥१२-२९-६६॥
यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः। तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन् ॥१२-२९-६७॥
चषालो यस्य सौवर्णस्तस्मिन्यूपे हिरण्मये। ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा ॥१२-२९-६८॥
अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम्। सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् ॥१२-२९-६९॥
एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे। यत्स्त्रियो हेमसम्पन्नाः पथि मत्ताः स्म शेरते ॥१२-२९-७०॥
राजानमुग्रधन्वानं दिलीपं सत्यवादिनम्। येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः ॥१२-२९-७१॥
त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने। स्वाध्यायघोषो ज्याघोषो दीयतामिति चैव हि ॥१२-२९-७२॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-७३॥
मान्धातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय। यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् ॥१२-२९-७४॥
संवृद्धो युवनाश्वस्य जठरे यो महात्मनः। पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः ॥१२-२९-७५॥
यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम्। अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥१२-२९-७६॥
मामेव धास्यतीत्येवमिन्द्रो अभ्यवपद्यत। मान्धातेति ततस्तस्य नाम चक्रे शतक्रतुः ॥१२-२९-७७॥
ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः। तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥१२-२९-७८॥
तं पिबन्पाणिमिन्द्रस्य समामह्ना व्यवर्धत। स आसीद्द्वादशसमो द्वादशाहेन पार्थिव ॥१२-२९-७९॥
तमियं पृथिवी सर्वा एकाह्ना समपद्यत। धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि ॥१२-२९-८०॥
य आङ्गारं हि नृपतिं मरुत्तमसितं गयम्। अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् ॥१२-२९-८१॥
यौवनाश्वो यदाङ्गारं समरे समयोधयत्। विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे ॥१२-२९-८२॥
यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति। सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥१२-२९-८३॥
अश्वमेधशतेनेष्ट्वा राजसूयशतेन च। अददाद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो महीपतिः ॥१२-२९-८४॥
हैरण्यान्योजनोत्सेधानायतान्दशयोजनम्। अतिरिक्तान्द्विजातिभ्यो व्यभजन्नितरे जनाः ॥१२-२९-८५॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-८६॥
ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय। य इमां पृथिवीं सर्वां विजित्य सहसागराम् ॥१२-२९-८७॥
शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्नृप। ईजानः क्रतुभिः पुण्यैः पर्यगच्छद्वसुन्धराम् ॥१२-२९-८८॥
इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च। तर्पयामास देवेन्द्रं त्रिभिः काञ्चनपर्वतैः ॥१२-२९-८९॥
व्यूढे देवासुरे युद्धे हत्वा दैतेयदानवान्। व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः ॥१२-२९-९०॥
अन्तेषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान्। पूरुं राज्येऽभिषिच्य स्वे सदारः प्रस्थितो वनम् ॥१२-२९-९१॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-९२॥
अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय। यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तम ॥१२-२९-९३॥
यः सहस्रं सहस्राणां राज्ञामयुत याजिनाम्। ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ॥१२-२९-९४॥
नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे। इत्यम्बरीषं नाभागमन्वमोदन्त दक्षिणाः ॥१२-२९-९५॥
शतं राजसहस्राणि शतं राजशतानि च। सर्वेऽश्वमेधैरीजानास्तेऽभ्ययुर्दक्षिणायनम् ॥१२-२९-९६॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-९७॥
शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय। यस्य भार्यासहस्राणां शतमासीन्महात्मनः ॥१२-२९-९८॥
सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवः। हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ॥१२-२९-९९॥
शतं कन्या राजपुत्रमेकैकं पृष्ठतोऽन्वयुः। कन्यां कन्यां शतं नागा नागं नागं शतं रथाः ॥१२-२९-१००॥
रथं रथं शतं चाश्वा देशजा हेममालिनः। अश्वमश्वं शतं गावो गां गां तद्वदजाविकम् ॥१२-२९-१०१॥
एतद्धनमपर्यन्तमश्वमेधे महामखे। शशबिन्दुर्महाराज ब्राह्मणेभ्यः समादिशत् ॥१२-२९-१०२॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-१०३॥
गयमामूर्तरयसं मृतं शुश्रुम सृञ्जय। यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ॥१२-२९-१०४॥
यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः। ददतो मेऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम् ॥१२-२९-१०५॥
मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन। लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ॥१२-२९-१०६॥
दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः। अयजत्स महातेजाः सहस्रं परिवत्सरान् ॥१२-२९-१०७॥
शतं गवां सहस्राणि शतमश्वशतानि च। उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् ॥१२-२९-१०८॥
तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि। पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ ॥१२-२९-१०९॥
सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम्। दक्षिणामददद्राजा वाजिमेधमहामखे ॥१२-२९-११०॥
यावत्यः सिकता राजन्गङ्गायाः पुरुषर्षभ। तावतीरेव गाः प्रादादामूर्तरयसो गयः ॥१२-२९-१११॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-११२॥
रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय। सम्यगाराध्य यः शक्रं वरं लेभे महायशाः ॥१२-२९-११३॥
अन्नं च नो बहु भवेदतिथींश्च लभेमहि। श्रद्धा च नो मा व्यगमन्मा च याचिष्म कञ्चन ॥१२-२९-११४॥
उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम्। ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ॥१२-२९-११५॥
महानदी चर्मराशेरुत्क्लेदात्सुस्रुवे यतः। ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ॥१२-२९-११६॥
ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः। तुभ्यं तुभ्यं निष्कमिति यत्राक्रोशन्ति वै द्विजाः ॥ सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्स्म प्रपद्यते ॥१२-२९-११७॥
अन्वाहार्योपकरणं द्रव्योपकरणं च यत्। घटाः स्थाल्यः कटाहाश्च पात्र्यश्च पिठरा अपि ॥ न तत्किञ्चिदसौवर्णं रन्तिदेवस्य धीमतः ॥१२-२९-११८॥
साङ्कृते रन्तिदेवस्य यां रात्रिमवसद्गृहे। आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ॥१२-२९-११९॥
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः। सूपभूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ॥१२-२९-१२०॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-१२१॥
सगरं च महात्मानं मृतं शुश्रुम सृञ्जय। ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ॥१२-२९-१२२॥
षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतोऽन्वयुः। नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव ॥१२-२९-१२३॥
एकच्छत्रा मही यस्य प्रणता ह्यभवत्पुरा। योऽश्वमेधसहस्रेण तर्पयामास देवताः ॥१२-२९-१२४॥
यः प्रादात्काञ्चनस्तम्भं प्रासादं सर्वकाञ्चनम्। पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम् ॥१२-२९-१२५॥
द्विजातिभ्योऽनुरूपेभ्यः कामानुच्चावचांस्तथा। यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः ॥१२-२९-१२६॥
खानयामास यः कोपात्पृथिवीं सागराङ्किताम्। यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ॥१२-२९-१२७॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-१२८॥
राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय। यमभ्यषिञ्चन्सम्भूय महारण्ये महर्षयः ॥१२-२९-१२९॥
प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः। क्षताच्च नस्त्रायतीति स तस्मात्क्षत्रियः स्मृतः ॥१२-२९-१३०॥
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन्। ततो राजेति नामास्य अनुरागादजायत ॥१२-२९-१३१॥
अकृष्टपच्या पृथिवी पुटके पुटके मधु। सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः ॥१२-२९-१३२॥
अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः। यथाभिकाममवसन्क्षेत्रेषु च गृहेषु च ॥१२-२९-१३३॥
आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः। सरितश्चानुदीर्यन्त ध्वजसङ्गश्च नाभवत् ॥१२-२९-१३४॥
हैरण्यांस्त्रिनलोत्सेधान्पर्वतानेकविंशतिम्। ब्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे ॥१२-२९-१३५॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२-२९-१३६॥
किं वै तूष्णीं ध्यायसि सृञ्जय त्वं; न मे राजन्वाचमिमां शृणोषि। न चेन्मोघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षोरिव सम्यगुक्तम् ॥१२-२९-१३७॥
सृञ्जय उवाच॥
शृणोमि ते नारद वाचमेतां; विचित्रार्थां स्रजमिव पुण्यगन्धाम्। राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शोकनिर्णाशनार्थम् ॥१२-२९-१३८॥
न ते मोघं विप्रलप्तं महर्षे; दृष्ट्वैव त्वां नारदाहं विशोकः। शुश्रूषे ते वचनं ब्रह्मवादि; न्न ते तृप्याम्यमृतस्येव पानात् ॥१२-२९-१३९॥
अमोघदर्शिन्मम चेत्प्रसादं; सुताघदग्धस्य विभो प्रकुर्याः। मृतस्य सञ्जीवनमद्य मे स्या; त्तव प्रसादात्सुतसङ्गमश्च ॥१२-२९-१४०॥
नारद उवाच॥
यस्ते पुत्रो दयितोऽयं वियातः; स्वर्णष्ठीवी यमदात्पर्वतस्ते। पुनस्ते तं पुत्रमहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च ॥१२-२९-१४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.