Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.030
Library: Yudhisthira asks about Kāñcanaṣṭhīvī, the son of Sṛñjaya. Krishna narrates the story of Narada receiving a curse to appear as a monkey, and then directs the question to Narada.
युधिष्ठिर उवाच॥
स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत्। पर्वतेन किमर्थं च दत्तः केन ममार च ॥१२-३०-१॥
यदा वर्षसहस्रायुस्तदा भवति मानवः। कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः ॥१२-३०-२॥
उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत्। तथ्यं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् ॥१२-३०-३॥
वासुदेव उवाच॥
अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर। नारदः पर्वतश्चैव प्रागृषी लोकपूजितौ ॥१२-३०-४॥
मातुलो भागिनेयश्च देवलोकादिहागतौ। विहर्तुकामौ सम्प्रीत्या मानुष्येषु पुरा प्रभू ॥१२-३०-५॥
हविःपवित्रभोज्येन देव भोज्येन चैव ह। नारदो मातुलश्चैव भागिनेयश्च पर्वतः ॥१२-३०-६॥
तावुभौ तपसोपेताववनीतलचारिणौ। भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम् ॥१२-३०-७॥
प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः। यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाशुभः ॥ अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत् ॥१२-३०-८॥
तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ। सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः ॥१२-३०-९॥
आवां भवति वत्स्यावः कञ्चित्कालं हिताय ते। यथावत्पृथिवीपाल आवयोः प्रगुणीभव ॥ तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह ॥१२-३०-१०॥
ततः कदाचित्तौ राजा महात्मानौ तथागतौ। अब्रवीत्परमप्रीतः सुतेयं वरवर्णिनी ॥१२-३०-११॥
एकैव मम कन्यैषा युवां परिचरिष्यति। दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता ॥ सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा ॥१२-३०-१२॥
परमं सौम्य इत्युक्तस्ताभ्यां राजा शशास ताम्। कन्ये विप्रावुपचर देववत्पितृवच्च ह ॥१२-३०-१३॥
सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी। यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह ॥१२-३०-१४॥
तस्यास्तथोपचारेण रूपेणाप्रतिमेन च। नारदं हृच्छयस्तूर्णं सहसैवान्वपद्यत ॥१२-३०-१५॥
ववृधे च ततस्तस्य हृदि कामो महात्मनः। यथा शुक्लस्य पक्षस्य प्रवृत्तावुडुराट्छनैः ॥१२-३०-१६॥
न च तं भागिनेयाय पर्वताय महात्मने। शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् ॥१२-३०-१७॥
तपसा चेङ्गितेनाथ पर्वतोऽथ बुबोध तत्। कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् ॥१२-३०-१८॥
कृत्वा समयमव्यग्रो भवान्वै सहितो मया। यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाशुभः ॥१२-३०-१९॥
अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम्। भवता वचनं ब्रह्मंस्तस्मादेतद्वदाम्यहम् ॥१२-३०-२०॥
न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा। सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम् ॥१२-३०-२१॥
ब्रह्मवादी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन्। अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः ॥१२-३०-२२॥
शप्स्ये तस्मात्सुसङ्क्रुद्धो भवन्तं तं निबोध मे। सुकुमारी च ते भार्या भविष्यति न संशयः ॥१२-३०-२३॥
वानरं चैव कन्या त्वां विवाहात्प्रभृति प्रभो। संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् ॥१२-३०-२४॥
स तद्वाक्यं तु विज्ञाय नारदः पर्वतात्तदा। अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः ॥१२-३०-२५॥
तपसा ब्रह्मचर्येण सत्येन च दमेन च। युक्तोऽपि धर्मनित्यश्च न स्वर्गवासमाप्स्यसि ॥१२-३०-२६॥
तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ। प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ ॥१२-३०-२७॥
पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः। पूज्यमानो यथान्यायं तेजसा स्वेन भारत ॥१२-३०-२८॥
अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम्। धर्मेण धर्मप्रवरः सुकुमारीमनिन्दिताम् ॥१२-३०-२९॥
सा तु कन्या यथाशापं नारदं तं ददर्श ह। पाणिग्रहणमन्त्राणां प्रयोगादेव वानरम् ॥१२-३०-३०॥
सुकुमारी च देवर्षिं वानरप्रतिमाननम्। नैवावमन्यत तदा प्रीतिमत्येव चाभवत् ॥१२-३०-३१॥
उपतस्थे च भर्तारं न चान्यं मनसाप्यगात्। देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला ॥१२-३०-३२॥
ततः कदाचिद्भगवान्पर्वतोऽनुससार ह। वनं विरहितं किञ्चित्तत्रापश्यत्स नारदम् ॥१२-३०-३३॥
ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा। भवान्प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो ॥१२-३०-३४॥
तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तदा। कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् ॥१२-३०-३५॥
त्वयाहं प्रथमं शप्तो वानरस्त्वं भविष्यसि। इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात् ॥ अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह ॥१२-३०-३६॥
तव नैतद्धि सदृशं पुत्रस्थाने हि मे भवान्। निवर्तयेतां तौ शापमन्योऽन्येन तदा मुनी ॥१२-३०-३७॥
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम्। सुकुमारी प्रदुद्राव परपत्यभिशङ्कया ॥१२-३०-३८॥
तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम्। अब्रवीत्तव भर्तैष नात्र कार्या विचारणा ॥१२-३०-३९॥
ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः। तवैवाभेद्यहृदयो मा ते भूदत्र संशयः ॥१२-३०-४०॥
सानुनीता बहुविधं पर्वतेन महात्मना। शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता ॥ पर्वतोऽथ ययौ स्वर्गं नारदोऽथ ययौ गृहान् ॥१२-३०-४१॥
प्रत्यक्षकर्मा सर्वस्य नारदोऽयं महानृषिः। एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम ॥१२-३०-४२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.