12.031
Library: Sage Narada narrates the story of King Sṛñjaya and his son, providing the context for the teachings given by Krishna.
वैशम्पायन उवाच॥
ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत। भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसम्भवम् ॥१२-३१-१॥
एवमुक्तः स च मुनिर्धर्मराजेन नारदः। आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति ॥१२-३१-२॥
एवमेतन्महाराज यथायं केशवोऽब्रवीत्। कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः ॥१२-३१-३॥
अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः। वस्तुकामावभिगतौ सृञ्जयं जयतां वरम् ॥१२-३१-४॥
तत्र सम्पूजितौ तेन विधिदृष्टेन कर्मणा। सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि ॥१२-३१-५॥
व्यतिक्रान्तासु वर्षासु समये गमनस्य च। पर्वतो मामुवाचेदं काले वचनमर्थवत् ॥१२-३१-६॥
आवामस्य नरेन्द्रस्य गृहे परमपूजितौ। उषितौ समये ब्रह्मंश्चिन्त्यतामत्र साम्प्रतम् ॥१२-३१-७॥
ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम्। सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते ॥१२-३१-८॥
वरेण छन्द्यतां राजा लभतां यद्यदिच्छति। आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे ॥१२-३१-९॥
तत आहूय राजानं सृञ्जयं शुभदर्शनम्। पर्वतोऽनुमतं वाक्यमुवाच मुनिपुङ्गवः ॥१२-३१-१०॥
प्रीतौ स्वो नृप सत्कारैस्तव ह्यार्जवसम्भृतैः। आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय ॥१२-३१-११॥
देवानामविहिंसायां यद्भवेन्मानुषक्षमम्। तद्गृहाण महाराज पूजार्हो नौ मतो भवान् ॥१२-३१-१२॥
सृञ्जय उवाच॥
प्रीतौ भवन्तौ यदि मे कृतमेतावता मम। एष एव परो लाभो निर्वृत्तो मे महाफलः ॥१२-३१-१३॥
नारद उवाच॥
तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत। वृणीष्व राजन्सङ्कल्पो यस्ते हृदि चिरं स्थितः ॥१२-३१-१४॥
सृञ्जय उवाच॥
अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम्। आयुष्मन्तं महाभागं देवराजसमद्युतिम् ॥१२-३१-१५॥
पर्वत उवाच॥
भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति। देवराजाभिभूत्यर्थं सङ्कल्पो ह्येष ते हृदि ॥१२-३१-१६॥
सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति। रक्ष्यश्च देवराजात्स देवराजसमद्युतिः ॥१२-३१-१७॥
नारद उवाच॥
तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः। प्रसादयामास तदा नैतदेवं भवेदिति ॥१२-३१-१८॥
आयुष्मान्मे भवेत्पुत्रो भवतस्तपसा मुने। न च तं पर्वतः किञ्चिदुवाचेन्द्रव्यपेक्षया ॥१२-३१-१९॥
तमहं नृपतिं दीनमब्रुवं पुनरेव तु। स्मर्तव्योऽहं महाराज दर्शयिष्यामि ते स्मृतः ॥१२-३१-२०॥
अहं ते दयितं पुत्रं प्रेतराजवशं गतम्। पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते ॥१२-३१-२१॥
एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम्। सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम् ॥१२-३१-२२॥
सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये। जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव ॥१२-३१-२३॥
ववृधे स यथाकालं सरसीव महोत्पलम्। बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् ॥१२-३१-२४॥
तदद्भुततमं लोके पप्रथे कुरुसत्तम। बुबुधे तच्च देवेन्द्रो वरदानं महात्मनोः ॥१२-३१-२५॥
ततस्त्वभिभवाद्भीतो बृहस्पतिमते स्थितः। कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा ॥१२-३१-२६॥
चोदयामास वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम्। व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो ॥१२-३१-२७॥
विवृद्धः किल वीर्येण मामेषोऽभिभविष्यति। सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ ॥१२-३१-२८॥
एवमुक्तस्तु शक्रेण वज्रः परपुरञ्जयः। कुमारस्यान्तरप्रेक्षी नित्यमेवान्वपद्यत ॥१२-३१-२९॥
सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम्। हृष्टः सान्तःपुरो राजा वननित्योऽभवत्तदा ॥१२-३१-३०॥
ततो भागीरथीतीरे कदाचिद्वननिर्झरे। धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत ॥१२-३१-३१॥
पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः। सहसोत्पतितं व्याघ्रमाससाद महाबलः ॥१२-३१-३२॥
तेन चैव विनिष्पिष्टो वेपमानो नृपात्मजः। व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे ॥१२-३१-३३॥
हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत। शार्दूलो देवराजस्य माययान्तर्हितस्तदा ॥१२-३१-३४॥
धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत्। अभ्यधावत तं देशं स्वयमेव महीपतिः ॥१२-३१-३५॥
स ददर्श गतासुं तं शयानं पीतशोणितम्। कुमारं विगतानन्दं निशाकरमिव च्युतम् ॥१२-३१-३६॥
स तमुत्सङ्गमारोप्य परिपीडितवक्षसम्। पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः ॥१२-३१-३७॥
ततस्ता मातरस्तस्य रुदन्त्यः शोककर्शिताः। अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः ॥१२-३१-३८॥
ततः स राजा सस्मार मामन्तर्गतमानसः। तच्चाहं चिन्तितं ज्ञात्वा गतवांस्तस्य दर्शनम् ॥१२-३१-३९॥
स मयैतानि वाक्यानि श्रावितः शोकलालसः। यानि ते यदुवीरेण कथितानि महीपते ॥१२-३१-४०॥
सञ्जीवितश्चापि मया वासवानुमते तदा। भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा ॥१२-३१-४१॥
अत ऊर्ध्वं कुमारः स स्वर्णष्ठीवी महायशाः। चित्तं प्रसादयामास पितुर्मातुश्च वीर्यवान् ॥१२-३१-४२॥
कारयामास राज्यं स पितरि स्वर्गते विभुः। वर्षाणामेकशतवत्सहस्रं भीमविक्रमः ॥१२-३१-४३॥
तत इष्ट्वा महायज्ञैर्बहुभिर्भूरिदक्षिणैः। तर्पयामास देवांश्च पितॄंश्चैव महाद्युतिः ॥१२-३१-४४॥
उत्पाद्य च बहून्पुत्रान्कुलसन्तानकारिणः। कालेन महता राजन्कालधर्ममुपेयिवान् ॥१२-३१-४५॥
स त्वं राजेन्द्र सञ्जातं शोकमेतन्निवर्तय। यथा त्वां केशवः प्राह व्यासश्च सुमहातपाः ॥१२-३१-४६॥
पितृपैतामहं राज्यमास्थाय दुरमुद्वह। इष्ट्वा पुण्यैर्महायज्ञैरिष्टाँल्लोकानवाप्स्यसि ॥१२-३१-४७॥