12.032
Core and Pancharatra: Sage Kṛṣṇa Dvaipāyana advises Yudhishthira on the eternal duty of a king to protect dharma. Also how he was only instrumental in the destruction caused by the war.
वैशम्पायन उवाच॥
तूष्णीम्भूतं तु राजानं शोचमानं युधिष्ठिरम्। तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥१२-३२-१॥
प्रजानां पालनं धर्मो राज्ञां राजीवलोचन। धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम् ॥१२-३२-२॥
अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम्। ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः ॥१२-३२-३॥
तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ। तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता ॥१२-३२-४॥
तथा यः प्रतिहन्त्यस्य शासनं विषये नरः। स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः ॥१२-३२-५॥
प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः। भृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चन ॥ पापान्सर्वैरुपायैस्तान्नियच्छेद्घातयेत वा ॥१२-३२-६॥
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम्। धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा ॥१२-३२-७॥
ते त्वया धर्महन्तारो निहताः सपदानुगाः। स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव ॥ राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः ॥१२-३२-८॥
युधिष्ठिर उवाच॥
न तेऽभिशङ्के वचनं यद्ब्रवीषि तपोधन। अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर ॥१२-३२-९॥
मया ह्यवध्या बहवो घातिता राज्यकारणात्। तान्यकार्याणि मे ब्रह्मन्दहन्ति च तपन्ति च ॥१२-३२-१०॥
व्यास उवाच॥
ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारत। हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ॥१२-३२-११॥
ईश्वरेण नियुक्ता हि साध्वसाधु च पार्थिव। कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत् ॥१२-३२-१२॥
यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने। छेत्तुरेव भवेत्पापं परशोर्न कथञ्चन ॥१२-३२-१३॥
अथ वा तदुपादानात्प्राप्नुयुः कर्मणः फलम्। दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥१२-३२-१४॥
न चैतदिष्टं कौन्तेय यदन्येन फलं कृतम्। प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय ॥१२-३२-१५॥
अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः। न परं विद्यते तस्मादेवमन्यच्छुभं कुरु ॥१२-३२-१६॥
न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते। दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥१२-३२-१७॥
यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम्। एवमप्यशुभं कर्म न भूतं न भविष्यति ॥१२-३२-१८॥
अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापयोः। अभिपन्नतमं लोके राज्ञामुद्यतदण्डनम् ॥१२-३२-१९॥
अथापि लोके कर्माणि समावर्तन्त भारत। शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः ॥१२-३२-२०॥
एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम्। त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः ॥१२-३२-२१॥
स्वधर्मे वर्तमानस्य सापवादेऽपि भारत। एवमात्मपरित्यागस्तव राजन्न शोभनः ॥१२-३२-२२॥
विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम्। शरीरवांस्तानि कुर्यादशरीरः पराभवेत् ॥१२-३२-२३॥
तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं चरिष्यसि। प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत ॥१२-३२-२४॥