12.033
Core and Pancharatra: Yudhishthira, not satisfied, asks about the special Aashramas.
युधिष्ठिर उवाच॥
हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा। श्वशुरा गुरवश्चैव मातुलाः सपितामहाः ॥१२-३३-१॥
क्षत्रियाश्च महात्मानः सम्बन्धिसुहृदस्तथा। वयस्या ज्ञातयश्चैव भ्रातरश्च पितामह ॥१२-३३-२॥
बहवश्च मनुष्येन्द्रा नानादेशसमागताः। घातिता राज्यलुब्धेन मयैकेन पितामह ॥१२-३३-३॥
तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः। असकृत्सोमपान्वीरान्किं प्राप्स्यामि तपोधन ॥१२-३३-४॥
दह्याम्यनिशमद्याहं चिन्तयानः पुनः पुनः। हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ॥१२-३३-५॥
दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान्। कोटिशश्च नरानन्यान्परितप्ये पितामह ॥१२-३३-६॥
का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति। विहीनानां स्वतनयैः पतिभिर्भ्रातृभिस्तथा ॥१२-३३-७॥
अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहितान्। आक्रोशन्त्यः कृशा दीना निपतन्त्यश्च भूतले ॥१२-३३-८॥
अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः। त्यक्त्वा प्राणान्प्रियान्सर्वा गमिष्यन्ति यमक्षयम् ॥१२-३३-९॥
वत्सलत्वाद्द्विजश्रेष्ठ तत्र मे नास्ति संशयः। व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम् ॥१२-३३-१०॥
ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम्। नरके निपतिष्यामो ह्यधःशिरस एव च ॥१२-३३-११॥
शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम। आश्रमांश्च विशेषांस्त्वं ममाचक्ष्व पितामह ॥१२-३३-१२॥