12.036
Library: Various kinds of sin and the atonement for the same.
व्यास उवाच॥
तपसा कर्मभिश्चैव प्रदानेन च भारत। पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते ॥१२-३६-१॥
एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत्। कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः ॥१२-३६-२॥
अनसूयुरधःशायी कर्म लोके प्रकाशयन्। पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते ॥१२-३६-३॥
षड्भिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः। मासे मासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते ॥१२-३६-४॥
संवत्सरेण मासाशी पूयते नात्र संशयः। तथैवोपरमन्राजन्स्वल्पेनापि प्रमुच्यते ॥१२-३६-५॥
क्रतुना चाश्वमेधेन पूयते नात्र संशयः। य चास्यावभृथे स्नान्ति केचिदेवंविधा नराः ॥१२-३६-६॥
ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः। ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया ॥१२-३६-७॥
गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयन्। ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ॥१२-३६-८॥
कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम्। दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते ॥१२-३६-९॥
गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये। साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात् ॥१२-३६-१०॥
शतं तै यस्तु काम्बोजान्ब्राह्मणेभ्यः प्रयच्छति। नियतेभ्यो महीपाल स च पापात्प्रमुच्यते ॥१२-३६-११॥
मनोरथं तु यो दद्यादेकस्मा अपि भारत। न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते ॥१२-३६-१२॥
सुरापानं सकृत्पीत्वा योऽग्निवर्णां पिबेद्द्विजः। स पावयत्यथात्मानमिह लोके परत्र च ॥१२-३६-१३॥
मेरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन्। महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः ॥१२-३६-१४॥
बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः। समितिं ब्राह्मणैर्गच्छेदिति वै ब्राह्मणी श्रुतिः ॥१२-३६-१५॥
भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः। पुनर्न च पिबेद्राजन्संस्कृतः शुध्यते नरः ॥१२-३६-१६॥
गुरुतल्पी शिलां तप्तामायसीमधिसंविशेत्। पाणावाधाय वा शेफं प्रव्रजेदूर्ध्वदर्शनः ॥१२-३६-१७॥
शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात्। कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः ॥१२-३६-१८॥
महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु। गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् ॥१२-३६-१९॥
अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा। उपहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते ॥१२-३६-२०॥
अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत्। खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात् ॥१२-३६-२१॥
परदारापहारी च परस्यापहरन्वसु। संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् ॥१२-३६-२२॥
स्तेयं तु यस्यापहरेत्तस्मै दद्यात्समं वसु। विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात् ॥१२-३६-२३॥
कृच्छ्राद्द्वादशरात्रेण स्वभ्यस्तेन दशावरम्। परिवेत्ता भवेत्पूतः परिवित्तिश्च भारत ॥१२-३६-२४॥
निवेश्यं तु भवेत्तेन सदा तारयिता पितॄन्। न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते ॥१२-३६-२५॥
भजने ह्यृतुना शुद्धं चातुर्मास्यं विधीयते। स्त्रियस्तेन विशुध्यन्ति इति धर्मविदो विदुः ॥१२-३६-२६॥
स्त्रियस्त्वाशङ्किताः पापैर्नोपगम्या हि जानता। रजसा ता विशुध्यन्ते भस्मना भाजनं यथा ॥१२-३६-२७॥
चतुष्पात्सकलो धर्मो ब्राह्मणानां विधीयते। पादावकृष्टो राजन्ये तथा धर्मो विधीयते ॥१२-३६-२८॥
तथा वैश्ये च शूद्रे च पादः पादो विधीयते। विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम् ॥१२-३६-२९॥
तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्त्वेतरान्बहून्। त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयेन्नरः ॥१२-३६-३०॥
अगम्यागमने राजन्प्रायश्चित्तं विधीयते। आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशायिना ॥१२-३६-३१॥
एष एव तु सर्वेषामकार्याणां विधिर्भवेत्। ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः ॥१२-३६-३२॥
सावित्रीमप्यधीयानः शुचौ देशे मिताशनः। अहिंस्रोऽमन्दकोऽजल्पन्मुच्यते सर्वकिल्बिषैः ॥१२-३६-३३॥
अहःसु सततं तिष्ठेदभ्याकाशं निशि स्वपेत्। त्रिरह्नस्त्रिर्निशायाश्च सवासा जलमाविशेत् ॥१२-३६-३४॥
स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्व्रतान्वितः। पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः ॥१२-३६-३५॥
शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः। अतिरिच्येत्तयोर्यत्तु तत्कर्ता लभते फलम् ॥१२-३६-३६॥
तस्माद्दानेन तपसा कर्मणा च शुभं फलम्। वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान् ॥१२-३६-३७॥
कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम्। दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात् ॥१२-३६-३८॥
अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम्। महापातकवर्जं तु प्रायश्चित्तं विधीयते ॥१२-३६-३९॥
भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च। अज्ञानज्ञानयो राजन्विहितान्यनुजानते ॥१२-३६-४०॥
जानता तु कृतं पापं गुरु सर्वं भवत्युत। अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते ॥१२-३६-४१॥
शक्यते विधिना पापं यथोक्तेन व्यपोहितुम्। आस्तिके श्रद्दधाने तु विधिरेष विधीयते ॥१२-३६-४२॥
नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन। दम्भदोषप्रधानेषु विधिरेष न दृश्यते ॥१२-३६-४३॥
शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर। सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना ॥१२-३६-४४॥
स राजन्मोक्ष्यसे पापात्तेन पूर्वेण हेतुना। त्राणार्थं वा वधेनैषामथ वा नृपकर्मणा ॥१२-३६-४५॥
अथ वा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि। मा त्वेवानार्यजुष्टेन कर्मणा निधनं गमः ॥१२-३६-४६॥