Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.037
Library: What should be eaten, what is praised as worthy to be given, and who is a worthy recipient?
वैशम्पायन उवाच॥
एवमुक्तो भगवता धर्मराजो युधिष्ठिरः। चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम् ॥१२-३७-१॥
किं भक्ष्यं किमभक्ष्यं च किं च देयं प्रशस्यते। किं च पात्रमपात्रं वा तन्मे ब्रूहि पितामह ॥१२-३७-२॥
व्यास उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः ॥१२-३७-३॥
सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम्। धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् ॥१२-३७-४॥
कथमन्नं कथं दानं कथमध्ययनं तपः। कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते ॥१२-३७-५॥
तैरेवमुक्तो भगवान्मनुः स्वायम्भुवोऽब्रवीत्। शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः ॥१२-३७-६॥
अदत्तस्यानुपादानं दानमध्ययनं तपः। अहिंसा सत्यमक्रोधः क्षमेज्या धर्मलक्षणम् ॥१२-३७-७॥
य एव धर्मः सोऽधर्मोऽदेशेऽकाले प्रतिष्ठितः। आदानमनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः ॥१२-३७-८॥
द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम्। अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः ॥१२-३७-९॥
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम्। अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च ॥१२-३७-१०॥
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा। दैवं च दैवयुक्तं च प्राणश्च प्रलयश्च ह ॥१२-३७-११॥
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम्। ऊर्ध्वं भवति संदेहादिह दृष्टार्थमेव वा ॥ अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते ॥१२-३७-१२॥
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः। शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये ॥ तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति ॥१२-३७-१३॥
जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः। वर्जयेन्न हि तं धर्मं येषां धर्मो न विद्यते ॥१२-३७-१४॥
दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः। यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये ॥१२-३७-१५॥
अरुणा मृत्तिका चैव तथा चैव पिपीलकाः। श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च ॥१२-३७-१६॥
अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः। चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये ॥१२-३७-१७॥
भासा हंसाः सुपर्णाश्च चक्रवाका बकाः प्लवाः। कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव च ॥१२-३७-१८॥
क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः। येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः ॥१२-३७-१९॥
एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि। मानुषीणां मृगीणां च न पिबेद्ब्राह्मणः पयः ॥१२-३७-२०॥
प्रेतान्नं सूतिकान्नं च यच्च किञ्चिदनिर्दशम्। अभोज्यं चाप्यपेयं च धेन्वा दुग्धमनिर्दशम् ॥१२-३७-२१॥
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च। चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा ॥१२-३७-२२॥
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये। परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा ॥१२-३७-२३॥
वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत्। सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् ॥१२-३७-२४॥
पिष्टमांसेक्षुशाकानां विकाराः पयसस्तथा। सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः ॥१२-३७-२५॥
पायसं कृसरं मांसमपूपाश्च वृथा कृताः। अभोज्याश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः ॥१२-३७-२६॥
देवान्पितॄन्मनुष्यांश्च मुनीन्गृह्याश्च देवताः। पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ॥१२-३७-२७॥
यथा प्रव्रजितो भिक्षुर्गृहस्थः स्वगृहे वसेत्। एवंवृत्तः प्रियैर्दारैः संवसन्धर्ममाप्नुयात् ॥१२-३७-२८॥
न दद्याद्यशसे दानं न भयान्नोपकारिणे। न नृत्तगीतशीलेषु हासकेषु च धार्मिकः ॥१२-३७-२९॥
न मत्ते नैव चोन्मत्ते न स्तेने न चिकित्सके। न वाग्घीने विवर्णे वा नाङ्गहीने न वामने ॥१२-३७-३०॥
न दुर्जने दौष्कुले वा व्रतैर्वा यो न संस्कृतः। अश्रोत्रिये मृतं दानं ब्राह्मणेऽब्रह्मवादिनि ॥१२-३७-३१॥
असम्यक्चैव यद्दत्तमसम्यक्च प्रतिग्रहः। उभयोः स्यादनर्थाय दातुरादातुरेव च ॥१२-३७-३२॥
यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन्। मज्जते मज्जते तद्वद्दाता यश्च प्रतीच्छकः ॥१२-३७-३३॥
काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते। तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही ॥१२-३७-३४॥
कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः। आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ॥१२-३७-३५॥
निर्मन्त्रो निर्व्रतो यः स्यादशास्त्रज्ञोऽनसूयकः। अनुक्रोशात्प्रदातव्यं दीनेष्वेवं नरेष्वपि ॥१२-३७-३६॥
न वै देयमनुक्रोशाद्दीनायाप्यपकारिणे। आप्ताचरितमित्येव धर्म इत्येव वा पुनः ॥१२-३७-३७॥
निष्कारणं स्म तद्दत्तं ब्राह्मणे धर्मवर्जिते। भवेदपात्रदोषेण न मेऽत्रास्ति विचारणा ॥१२-३७-३८॥
यथा दारुमयो हस्ती यथा चर्ममयो मृगः। ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥१२-३७-३९॥
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला। शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा ॥१२-३७-४०॥
ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः। यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ ॥१२-३७-४१॥
देवतानां पितॄणां च हव्यकव्यविनाशनः। शत्रुरर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति ॥१२-३७-४२॥
एतत्ते कथितं सर्वं यथा वृत्तं युधिष्ठिर। समासेन महद्ध्येतच्छ्रोतव्यं भरतर्षभ ॥१२-३७-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.