12.035
Library and Core: Yudhishthira asks about the actions that require atonement, and Vyasa advises.
युधिष्ठिर उवाच॥
कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः। किं कृत्वा चैव मुच्येत तन्मे ब्रूहि पितामह ॥१२-३५-१॥
व्यास उवाच॥
अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन्। प्रायश्चित्तीयते ह्येवं नरो मिथ्या च वर्तयन् ॥१२-३५-२॥
सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत। तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि ॥१२-३५-३॥
परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश्च कुत्सकः। दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च ॥१२-३५-४॥
अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा। अतीर्थे ब्रह्मणस्त्यागी तीर्थे चाप्रतिपादकः ॥१२-३५-५॥
ग्रामयाजी च कौन्तेय राज्ञश्च परिविक्रयी। शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः ॥१२-३५-६॥
वृथापशुसमालम्भी वनदाहस्य कारकः। अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा ॥१२-३५-७॥
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी। एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः ॥१२-३५-८॥
अकार्याण्यपि वक्ष्यामि यानि तानि निबोध मे। लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु ॥१२-३५-९॥
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया। अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम् ॥१२-३५-१०॥
शरणागतसन्त्यागो भृत्यस्याभरणं तथा। रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा ॥१२-३५-११॥
आधानादीनि कर्माणि शक्तिमान्न करोति यः। अप्रयच्छंश्च सर्वाणि नित्यं देयानि भारत ॥१२-३५-१२॥
दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम्। सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः ॥१२-३५-१३॥
पित्रा विभजते पुत्रो यश्च स्याद्गुरुतल्पगः। अप्रजायन्नधर्मेण भवत्याधर्मिको जनः ॥१२-३५-१४॥
उक्तान्येतानि कर्माणि विस्तरेणेतरेण च। यानि कुर्वन्नकुर्वंश्च प्रायश्चित्तीयते जनः ॥१२-३५-१५॥
एतान्येव तु कर्माणि क्रियमाणानि मानवान्। येषु येषु निमित्तेषु न लिम्पन्त्यथ तच्छृणु ॥१२-३५-१६॥
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे। जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत् ॥१२-३५-१७॥
अपि चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते। वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते ॥१२-३५-१८॥
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम्। न तेन ब्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति ॥१२-३५-१९॥
प्राणात्यये तथाज्ञानादाचरन्मदिरामपि। अचोदितो धर्मपरः पुनः संस्कारमर्हति ॥१२-३५-२०॥
एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम्। प्रायश्चित्तविधानेन सर्वमेतेन शुध्यति ॥१२-३५-२१॥
गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम्। उद्दालकः श्वेतकेतुं जनयामास शिष्यतः ॥१२-३५-२२॥
स्तेयं कुर्वंस्तु गुर्वर्थमापत्सु न निबध्यते। बहुशः कामकारेण न चेद्यः सम्प्रवर्तते ॥१२-३५-२३॥
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति। स्वयमप्राशिता यश्च न स पापेन लिप्यते ॥१२-३५-२४॥
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वा। गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च ॥१२-३५-२५॥
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथञ्चन। आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते ॥१२-३५-२६॥
पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा। भिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम् ॥१२-३५-२७॥
वृथापशुसमालम्भं नैव कुर्यान्न कारयेत्। अनुग्रहः पशूणां हि संस्कारो विधिचोदितः ॥१२-३५-२८॥
अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम्। सकारणं तथा तीर्थेऽतीर्थे वा प्रतिपादनम् ॥१२-३५-२९॥
स्त्रियस्तथापचारिण्यो निष्कृतिः स्याददूषिका। अपि सा पूयते तेन न तु भर्ता प्रदुष्यते ॥१२-३५-३०॥
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददूषकः। असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् ॥ वनदाहो गवामर्थे क्रियमाणो न दूषकः ॥१२-३५-३१॥
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति। प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत ॥१२-३५-३२॥