Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.038
Core and Pancharatra: When further enquired, Vyasa advised Yudhishthira to ask Bhishma, who is most knowledgeable on the subject. The son of Pāṇḍu, surrounded by friends and praised with auspicious words, entered the city.
युधिष्ठिर उवाच॥
श्रोतुमिच्छामि भगवन्विस्तरेण महामुने। राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ॥१२-३८-१॥
आपत्सु च यथा नीतिर्विधातव्या महीक्षिता। धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम् ॥१२-३८-२॥
प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्धिता। कौतूहलानुप्रवणा हर्षं जनयतीव मे ॥१२-३८-३॥
धर्मचर्या च राज्यं च नित्यमेव विरुध्यते। येन मुह्यति मे चेतश्चिन्तयानस्य नित्यशः ॥१२-३८-४॥
वैशम्पायन उवाच॥
तमुवाच महातेजा व्यासो वेदविदां वरः। नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् ॥१२-३८-५॥
श्रोतुमिच्छसि चेद्धर्मानखिलेन युधिष्ठिर। प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् ॥१२-३८-६॥
स ते सर्वरहस्येषु संशयान्मनसि स्थितान्। छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् ॥१२-३८-७॥
जनयामास यं देवी दिव्या त्रिपथगा नदी। साक्षाद्ददर्श यो देवान्सर्वाञ्शक्रपुरोगमान् ॥१२-३८-८॥
बृहस्पतिपुरोगांश्च देवर्षीनसकृत्प्रभुः। तोषयित्वोपचारेण राजनीतिमधीतवान् ॥१२-३८-९॥
उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः। तच्च सर्वं सवैयाख्यं प्राप्तवान्कुरुसत्तमः ॥१२-३८-१०॥
भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान्। प्रतिपेदे महाबुद्धिर्वसिष्ठाच्च यतव्रतात् ॥१२-३८-११॥
पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम्। अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा ॥१२-३८-१२॥
मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान्। रामादस्त्राणि शक्राच्च प्राप्तवान्भरतर्षभ ॥१२-३८-१३॥
मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि। तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः ॥१२-३८-१४॥
यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः। यस्य नाविदितं किञ्चिज्ज्ञानज्ञेयेषु विद्यते ॥१२-३८-१५॥
स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित्। तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् ॥१२-३८-१६॥
एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः। उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् ॥१२-३८-१७॥
वैशसं सुमहत्कृत्वा ज्ञातीनां लोमहर्षणम्। आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः ॥१२-३८-१८॥
घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम्। उपसम्प्रष्टुमर्हामि तमहं केन हेतुना ॥१२-३८-१९॥
ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया। पुनराह महाबाहुर्यदुश्रेष्ठो महाद्युतिः ॥१२-३८-२०॥
नेदानीमतिनिर्बन्धं शोके कर्तुमिहार्हसि। यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम ॥१२-३८-२१॥
ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः। पर्जन्यमिव घर्मार्ता आशंसाना उपासते ॥१२-३८-२२॥
हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम्। चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् ॥१२-३८-२३॥
प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम्। नियोगादस्य च गुरोर्व्यासस्यामिततेजसः ॥१२-३८-२४॥
सुहृदां चास्मदादीनां द्रौपद्याश्च परन्तप। कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु ॥१२-३८-२५॥
एवमुक्तस्तु कृष्णेन राजा राजीवलोचनः। हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः ॥१२-३८-२६॥
सोऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वयम्। द्वैपायनेन च तथा देवस्थानेन जिष्णुना ॥१२-३८-२७॥
एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः। व्यजहान्मानसं दुःखं सन्तापं च महामनाः ॥१२-३८-२८॥
श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः। व्यवस्य मनसः शान्तिमगच्छत्पाण्डुनन्दनः ॥१२-३८-२९॥
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः। धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह ॥१२-३८-३०॥
प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः। अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः ॥१२-३८-३१॥
ततो रथं नवं शुभ्रं कम्बलाजिनसंवृतम्। युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः ॥१२-३८-३२॥
मन्त्रैरभ्यर्चितः पुण्यैः स्तूयमानो महर्षिभिः। आरुरोह यथा देवः सोमोऽमृतमयं रथम् ॥१२-३८-३३॥
जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः। अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् ॥१२-३८-३४॥
ध्रियमाणं तु तच्छत्रं पाण्डुरं तस्य मूर्धनि। शुशुभे तारकाराजसितमभ्रमिवाम्बरे ॥१२-३८-३५॥
चामरव्यजने चास्य वीरौ जगृहतुस्तदा। चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलङ्कृते ॥१२-३८-३६॥
ते पञ्च रथमास्थाय भ्रातरः समलङ्कृताः। भूतानीव समस्तानि राजन्ददृशिरे तदा ॥१२-३८-३७॥
आस्थाय तु रथं शुभ्रं युक्तमश्वैर्महाजवैः। अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् ॥१२-३८-३८॥
रथं हेममयं शुभ्रं सैन्यसुग्रीवयोजितम्। सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् ॥१२-३८-३९॥
नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत। अग्रतो धर्मराजस्य गान्धारीसहितो ययौ ॥१२-३८-४०॥
कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी। यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः ॥१२-३८-४१॥
ततो रथाश्च बहुला नागाश्च समलङ्कृताः। पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् ॥१२-३८-४२॥
ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः। स्तूयमानो ययौ राजा नगरं नागसाह्वयम् ॥१२-३८-४३॥
तत्प्रयाणं महाबाहोर्बभूवाप्रतिमं भुवि। आकुलाकुलमुत्सृष्टं हृष्टपुष्टजनान्वितम् ॥१२-३८-४४॥
अभियाने तु पार्थस्य नरैर्नगरवासिभिः। नगरं राजमार्गश्च यथावत्समलङ्कृतम् ॥१२-३८-४५॥
पाण्डुरेण च माल्येन पताकाभिश्च वेदिभिः। संवृतो राजमार्गश्च धूपनैश्च सुधूपितः ॥१२-३८-४६॥
अथ चूर्णैश्च गन्धानां नानापुष्पैः प्रियङ्गुभिः। माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् ॥१२-३८-४७॥
कुम्भाश्च नगरद्वारि वारिपूर्णा दृढा नवाः। कन्याः सुमनसश्छागाः स्थापितास्तत्र तत्र ह ॥१२-३८-४८॥
तथा स्वलङ्कृतद्वारं नगरं पाण्डुनन्दनः। स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः ॥१२-३८-४९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.