12.041
Core and Pancharatra-Ext: Yudhishthira declares Dhritarashtra to be respected at all times and then allocates portfolios to govern the kingdom.
वैशम्पायन उवाच॥
प्रकृतीनां तु तद्वाक्यं देशकालोपसंहितम्। श्रुत्वा युधिष्ठिरो राजाथोत्तरं प्रत्यभाषत ॥१२-४१-१॥
धन्याः पाण्डुसुता लोके येषां ब्राह्मणपुङ्गवाः। तथ्यान्वाप्यथ वातथ्यान्गुणानाहुः समागताः ॥१२-४१-२॥
अनुग्राह्या वयं नूनं भवतामिति मे मतिः। यत्रैवं गुणसम्पन्नानस्मान्ब्रूथ विमत्सराः ॥१२-४१-३॥
धृतराष्ट्रो महाराजः पिता नो दैवतं परम्। साशनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः ॥१२-४१-४॥
एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत्। अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा ॥१२-४१-५॥
यदि चाहमनुग्राह्यो भवतां सुहृदां ततः। धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ ॥१२-४१-६॥
एष नाथो हि जगतो भवतां च मया सह। अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च ॥ एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम ॥१२-४१-७॥
अनुगम्य च राजानं यथेष्टं गम्यतामिति। पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः ॥ यौवराज्येन कौरव्यो भीमसेनमयोजयत् ॥१२-४१-८॥
मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने। विदुरं बुद्धिसम्पन्नं प्रीतिमान्वै समादिशत् ॥१२-४१-९॥
कृताकृतपरिज्ञाने तथायव्ययचिन्तने। सञ्जयं योजयामास ऋद्धमृद्धैर्गुणैर्युतम् ॥१२-४१-१०॥
बलस्य परिमाणे च भक्तवेतनयोस्तथा। नकुलं व्यादिशद्राजा कर्मिणामन्ववेक्षणे ॥१२-४१-११॥
परचक्रोपरोधे च दृप्तानां चावमर्दने। युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह ॥१२-४१-१२॥
द्विजानां वेदकार्येषु कार्येष्वन्येषु चैव हि। धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परन्तपः ॥१२-४१-१३॥
सहदेवं समीपस्थं नित्यमेव समादिशत्। तेन गोप्यो हि नृपतिः सर्वावस्थो विशां पते ॥१२-४१-१४॥
यान्यानमन्ययोग्यांश्च येषु येष्विह कर्मसु। तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः ॥१२-४१-१५॥
विदुरं सञ्जयं चैव युयुत्सुं च महामतिम्। अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः ॥१२-४१-१६॥
उत्थायोत्थाय यत्कार्यमस्य राज्ञः पितुर्मम। सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथातथम् ॥१२-४१-१७॥
पौरजानपदानां च यानि कार्याणि नित्यशः। राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः ॥१२-४१-१८॥