Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.042
Core and Pancharatra-Ext: Funeral rites; taking care of veterans and their families; Yudhisthira, the supremely compassionate, bestowed his favor upon the poor, the blind, and the miserable by providing them with shelter, clothing, and food; without any rivals, lived happily.
वैशम्पायन उवाच॥
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे। श्राद्धानि कारयामास तेषां पृथगुदारधीः ॥१२-४२-१॥
धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम्। सर्वकामगुणोपेतमन्नं गाश्च धनानि च ॥ रत्नानि च विचित्राणि महार्हाणि महायशाः ॥१२-४२-२॥
युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः। धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः ॥१२-४२-३॥
विराटप्रभृतीनां च सुहृदामुपकारिणाम्। द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ ॥१२-४२-४॥
ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन्। धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पयत् ॥१२-४२-५॥
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः। उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम् ॥१२-४२-६॥
सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः। सुहृदां कारयामास सर्वेषामौर्ध्वदैहिकम् ॥१२-४२-७॥
स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम्। कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन् ॥१२-४२-८॥
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा। सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजयत् ॥१२-४२-९॥
याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः। सर्वास्ताः कौरवो राजा सम्पूज्यापालयद्घृणी ॥१२-४२-१०॥
दीनान्धकृपणानां च गृहाच्छादनभोजनैः। आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः ॥१२-४२-११॥
स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु। निःसपत्नः सुखी राजा विजहार युधिष्ठिरः ॥१२-४२-१२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.