Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.058
Pancharatra: Bhishma concludes the day's teaching by saying: break the enemy's side by both crooked and straight means; delighting the armies, constantly supervising the people, being tireless in duties, and likewise increasing the treasury - are essential; a kingdom is a vast and complex system, hard to sustain for those lacking self-mastery.
भीष्म उवाच॥
एतत्ते राजधर्माणां नवनीतं युधिष्ठिर। बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति ॥१२-५८-१॥
विशालाक्षश्च भगवान्काव्यश्चैव महातपाः। सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः ॥१२-५८-२॥
भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः। राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः ॥१२-५८-३॥
रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर। राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु ॥१२-५८-४॥
चारश्च प्रणिधिश्चैव काले दानममत्सरः। युक्त्यादानं न चादानमयोगेन युधिष्ठिर ॥१२-५८-५॥
सतां सङ्ग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम्। अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम् ॥१२-५८-६॥
साधूनामपरित्यागः कुलीनानां च धारणम्। निचयश्च निचेयानां सेवा बुद्धिमतामपि ॥१२-५८-७॥
बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम्। कार्येष्वखेदः कोशस्य तथैव च विवर्धनम् ॥१२-५८-८॥
पुरगुप्तिरविश्वासः पौरसङ्घातभेदनम्। केतनानां च जीर्णानामवेक्षा चैव सीदताम् ॥१२-५८-९॥
द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः। अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम् ॥१२-५८-१०॥
उपजापश्च भृत्यानामात्मनः परदर्शनात्। अविश्वासः स्वयं चैव परस्याश्वासनं तथा ॥१२-५८-११॥
नीतिधर्मानुसरणं नित्यमुत्थानमेव च। रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम् ॥१२-५८-१२॥
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत। राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे ॥१२-५८-१३॥
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः। उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ॥१२-५८-१४॥
उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति। उत्थानधीरं वाग्धीरा रमयन्त उपासते ॥१२-५८-१५॥
उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः। धर्षणीयो रिपूणां स्याद्भुजङ्ग इव निर्विषः ॥१२-५८-१६॥
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा। अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥१२-५८-१७॥
एकाश्वेनापि सम्भूतः शत्रुर्दुर्गसमाश्रितः। तं तं तापयते देशमपि राज्ञः समृद्धिनः ॥१२-५८-१८॥
राज्ञो रहस्यं यद्वाक्यं जयार्थं लोकसङ्ग्रहः। हृदि यच्चास्य जिह्मं स्यात्कारणार्थं च यद्भवेत् ॥१२-५८-१९॥
यच्चास्य कार्यं वृजिनमार्जवेनैव धार्यते। दम्भनार्थाय लोकस्य धर्मिष्ठामाचरेत्क्रियाम् ॥१२-५८-२०॥
राज्यं हि सुमहत्तन्त्रं दुर्धार्यमकृतात्मभिः। न शक्यं मृदुना वोढुमाघातस्थानमुत्तमम् ॥१२-५८-२१॥
राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते। तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर ॥१२-५८-२२॥
यद्यप्यस्य विपत्तिः स्याद्रक्षमाणस्य वै प्रजाः। सोऽप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः ॥१२-५८-२३॥
एष ते राजधर्माणां लेशः समनुवर्णितः। भूयस्ते यत्र संदेहस्तद्ब्रूहि वदतां वर ॥१२-५८-२४॥
वैशम्पायन उवाच॥
ततो व्यासश्च भगवान्देवस्थानोऽश्मना सह। वासुदेवः कृपश्चैव सात्यकिः सञ्जयस्तथा ॥१२-५८-२५॥
साधु साध्विति संहृष्टाः पुष्यमाणैरिवाननैः। अस्तुवंस्ते नरव्याघ्रं भीष्मं धर्मभृतां वरम् ॥१२-५८-२६॥
ततो दीनमना भीष्ममुवाच कुरुसत्तमः। नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् ॥१२-५८-२७॥
श्व इदानीं स्वसंदेहं प्रक्ष्यामि त्वं पितामह। उपैति सविताप्यस्तं रसमापीय पार्थिवम् ॥१२-५८-२८॥
ततो द्विजातीनभिवाद्य केशवः; कृपश्च ते चैव युधिष्ठिरादयः। प्रदक्षिणीकृत्य महानदीसुतं; ततो रथानारुरुहुर्मुदा युताः ॥१२-५८-२९॥
दृषद्वतीं चाप्यवगाह्य सुव्रताः; कृतोदकार्याः कृतजप्यमङ्गलाः। उपास्य सन्ध्यां विधिवत्परन्तपा; स्ततः पुरं ते विविशुर्गजाह्वयम् ॥१२-५८-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.