12.059
Pancharatra: Second day teachings begin: Story of how teaching concerning 'trivarga' (dharma, artha, kāma) is declared by the self-born (Brahmā); How Lord Vishnu enters the good king and rules.
वैशम्पायन उवाच॥
ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः। ययुस्ते नगराकारै रथैः पाण्डवयादवाः ॥१२-५९-१॥
प्रपद्य च कुरुक्षेत्रं भीष्ममासाद्य चानघम्। सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम् ॥१२-५९-२॥
व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः। निषेदुरभितो भीष्मं परिवार्य समन्ततः ॥१२-५९-३॥
ततो राजा महातेजा धर्मराजो युधिष्ठिरः। अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्याभिवाद्य च ॥१२-५९-४॥
य एष राजा-राजेति शब्दश्चरति भारत। कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह ॥१२-५९-५॥
तुल्यपाणिशिरोग्रीवस्तुल्यबुद्धीन्द्रियात्मकः। तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः ॥१२-५९-६॥
तुल्यशुक्रास्थिमज्जश्च तुल्यमांसासृगेव च। निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान् ॥१२-५९-७॥
समानजन्ममरणः समः सर्वगुणैर्नृणाम्। विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति ॥१२-५९-८॥
कथमेको महीं कृत्स्नां वीरशूरार्यसङ्कुलाम्। रक्षत्यपि च लोकोऽस्य प्रसादमभिवाञ्छति ॥१२-५९-९॥
एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति। व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः ॥१२-५९-१०॥
एतदिच्छाम्यहं सर्वं तत्त्वेन भरतर्षभ। श्रोतुं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर ॥१२-५९-११॥
नैतत्कारणमल्पं हि भविष्यति विशां पते। यदेकस्मिञ्जगत्सर्वं देववद्याति संनतिम् ॥१२-५९-१२॥
भीष्म उवाच॥
नियतस्त्वं नरश्रेष्ठ शृणु सर्वमशेषतः। यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत् ॥१२-५९-१३॥
नैव राज्यं न राजासीन्न दण्डो न च दाण्डिकः। धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम् ॥१२-५९-१४॥
पालयानास्तथान्योन्यं नरा धर्मेण भारत। खेदं परममाजग्मुस्ततस्तान्मोह आविशत् ॥१२-५९-१५॥
ते मोहवशमापन्ना मानवा मनुजर्षभ। प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत् ॥१२-५९-१६॥
नष्टायां प्रतिपत्तौ तु मोहवश्या नरास्तदा। लोभस्य वशमापन्नाः सर्वे भारतसत्तम ॥१२-५९-१७॥
अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः। कामो नामापरस्तत्र समपद्यत वै प्रभो ॥१२-५९-१८॥
तांस्तु कामवशं प्राप्तान्रागो नाम समस्पृशत्। रक्ताश्च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर ॥१२-५९-१९॥
अगम्यागमनं चैव वाच्यावाच्यं तथैव च। भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन् ॥१२-५९-२०॥
विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह। नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत् ॥१२-५९-२१॥
नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन्। ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः ॥१२-५९-२२॥
प्रपद्य भगवन्तं ते देवा लोकपितामहम्। ऊचुः प्राञ्जलयः सर्वे दुःखशोकभयार्दिताः ॥१२-५९-२३॥
भगवन्नरलोकस्थं नष्टं ब्रह्म सनातनम्। लोभमोहादिभिर्भावैस्ततो नो भयमाविशत् ॥१२-५९-२४॥
ब्रह्मणश्च प्रणाशेन धर्मोऽप्यनशदीश्वर। ततः स्म समतां याता मर्त्यैस्त्रिभुवनेश्वर ॥१२-५९-२५॥
अधो हि वर्षमस्माकं मर्त्यास्तूर्ध्वप्रवर्षिणः। क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम् ॥१२-५९-२६॥
अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह। त्वत्प्रभावसमुत्थोऽसौ प्रभावो नो विनश्यति ॥१२-५९-२७॥
तानुवाच सुरान्सर्वान्स्वयम्भूर्भगवांस्ततः। श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः ॥१२-५९-२८॥
ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम्। यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः ॥१२-५९-२९॥
त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा। चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गणः ॥१२-५९-३०॥
मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः। स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ॥१२-५९-३१॥
आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च। सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः ॥१२-५९-३२॥
त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ। दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥१२-५९-३३॥
अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम्। चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः ॥१२-५९-३४॥
साम चोपप्रदानं च भेदो दण्डश्च पाण्डव। उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ॥१२-५९-३५॥
मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च। विभ्रंशश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम् ॥१२-५९-३६॥
सन्धिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः। भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः ॥१२-५९-३७॥
यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः। विजयो धर्मयुक्तश्च तथार्थविजयश्च ह ॥१२-५९-३८॥
आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः। लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् ॥१२-५९-३९॥
प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः। प्रकाशोऽष्टविधस्तत्र गुह्यस्तु बहुविस्तरः ॥१२-५९-४०॥
रथा नागा हयाश्चैव पादाताश्चैव पाण्डव। विष्टिर्नावश्चराश्चैव देशिकाः पथि चाष्टकम् ॥१२-५९-४१॥
अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु। जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ॥१२-५९-४२॥
स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः। अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः ॥१२-५९-४३॥
कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह। आत्मरक्षणमाश्वासः स्पशानां चान्ववेक्षणम् ॥१२-५९-४४॥
कल्पना विविधाश्चापि नृनागरथवाजिनाम्। व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम् ॥१२-५९-४५॥
उत्पाताश्च निपाताश्च सुयुद्धं सुपलायनम्। शस्त्राणां पायनज्ञानं तथैव भरतर्षभ ॥१२-५९-४६॥
बलव्यसनमुक्तं च तथैव बलहर्षणम्। पीडनास्कन्दकालश्च भयकालश्च पाण्डव ॥१२-५९-४७॥
तथा खातविधानं च योगसञ्चार एव च। चौराटव्यबलैश्चोग्रैः परराष्ट्रस्य पीडनम् ॥१२-५९-४८॥
अग्निदैर्गरदैश्चैव प्रतिरूपकचारकैः। श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ॥१२-५९-४९॥
दूषणेन च नागानामाशङ्काजननेन च। आरोधनेन भक्तस्य पथश्चोपार्जनेन च ॥१२-५९-५०॥
सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम्। दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम् ॥१२-५९-५१॥
अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम्। अवमर्दः प्रतीघातस्तथैव च बलीयसाम् ॥१२-५९-५२॥
व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम्। शमो व्यायामयोगश्च योगो द्रव्यस्य सञ्चयः ॥१२-५९-५३॥
अभृतानां च भरणं भृतानां चान्ववेक्षणम्। अर्थकाले प्रदानं च व्यसनेष्वप्रसङ्गिता ॥१२-५९-५४॥
तथा राजगुणाश्चैव सेनापतिगुणाश्च ये। कारणस्य च कर्तुश्च गुणदोषास्तथैव च ॥१२-५९-५५॥
दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुजीविनाम्। शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् ॥१२-५९-५६॥
अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम्। प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा ॥१२-५९-५७॥
विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुना। चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः ॥१२-५९-५८॥
क्रोधजानि तथोग्राणि कामजानि तथैव च। दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह ॥१२-५९-५९॥
मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ। कामजान्याहुराचार्याः प्रोक्तानीह स्वयम्भुवा ॥१२-५९-६०॥
वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च। आत्मनो निग्रहस्त्यागोऽथार्थदूषणमेव च ॥१२-५९-६१॥
यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः। अवमर्दः प्रतीघातः केतनानां च भञ्जनम् ॥१२-५९-६२॥
चैत्यद्रुमाणामामर्दो रोधःकर्मान्तनाशनम्। अपस्करोऽथ गमनं तथोपास्या च वर्णिता ॥१२-५९-६३॥
पणवानकशङ्खानां भेरीणां च युधां वर। उपार्जनं च द्रव्याणां परमर्म च तानि षट् ॥१२-५९-६४॥
लब्धस्य च प्रशमनं सतां चैव हि पूजनम्। विद्वद्भिरेकीभावश्च प्रातर्होमविधिज्ञता ॥१२-५९-६५॥
मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया। आहारयोजनं चैव नित्यमास्तिक्यमेव च ॥१२-५९-६६॥
एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः। उत्सवानां समाजानां क्रियाः केतनजास्तथा ॥१२-५९-६७॥
प्रत्यक्षा च परोक्षा च सर्वाधिकरणेषु च। वृत्तिर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ॥१२-५९-६८॥
अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम्। अनुजीविस्वजातिभ्यो गुणेषु परिरक्षणम् ॥१२-५९-६९॥
रक्षणं चैव पौराणां स्वराष्ट्रस्य विवर्धनम्। मण्डलस्था च या चिन्ता राजन्द्वादशराजिका ॥१२-५९-७०॥
द्वासप्ततिमतिश्चैव प्रोक्ता या च स्वयम्भुवा। देशजातिकुलानां च धर्माः समनुवर्णिताः ॥१२-५९-७१॥
धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः। उपायश्चार्थलिप्सा च विविधा भूरिदक्षिणाः ॥१२-५९-७२॥
मूलकर्मक्रिया चात्र माया योगश्च वर्णितः। दूषणं स्रोतसामत्र वर्णितं च स्थिराम्भसाम् ॥१२-५९-७३॥
यैर्यैरुपायैर्लोकश्च न चलेदार्यवर्त्मनः। तत्सर्वं राजशार्दूल नीतिशास्त्रेऽनुवर्णितम् ॥१२-५९-७४॥
एतत्कृत्वा शुभं शास्त्रं ततः स भगवान्प्रभुः। देवानुवाच संहृष्टः सर्वाञ्शक्रपुरोगमान् ॥१२-५९-७५॥
उपकाराय लोकस्य त्रिवर्गस्थापनाय च। नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता ॥१२-५९-७६॥
दण्डेन सहिता ह्येषा लोकरक्षणकारिका। निग्रहानुग्रहरता लोकाननु चरिष्यति ॥१२-५९-७७॥
दण्डेन नीयते चेयं दण्डं नयति चाप्युत। दण्डनीतिरिति प्रोक्ता त्रीँल्लोकाननुवर्तते ॥१२-५९-७८॥
षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु। महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा ॥१२-५९-७९॥
नयचारश्च विपुलो येन सर्वमिदं ततम्। आगमश्च पुराणानां महर्षीणां च सम्भवः ॥१२-५९-८०॥
तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर। सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च ॥१२-५९-८१॥
चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम्। इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः ॥१२-५९-८२॥
तपो ज्ञानमहिंसा च सत्यासत्ये नयः परः। वृद्धोपसेवा दानं च शौचमुत्थानमेव च ॥१२-५९-८३॥
सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम्। भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम् ॥१२-५९-८४॥
तस्मिन्पैतामहे शास्त्रे पाण्डवैतदसंशयम्। धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः ॥१२-५९-८५॥
ततस्तां भगवान्नीतिं पूर्वं जग्राह शङ्करः। बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः ॥१२-५९-८६॥
युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः। सञ्चिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम् ॥१२-५९-८७॥
वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत। दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः ॥१२-५९-८८॥
भगवानपि तच्छास्त्रं सञ्चिक्षेप पुरंदरः। सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् ॥१२-५९-८९॥
अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः। सञ्चिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते ॥१२-५९-९०॥
अध्यायानां सहस्रेण काव्यः सङ्क्षेपमब्रवीत्। तच्छास्त्रममितप्रज्ञो योगाचार्यो महातपाः ॥१२-५९-९१॥
एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः। सङ्क्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासि पाण्डव ॥१२-५९-९२॥
अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम्। एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्यं तं वै समादिश ॥१२-५९-९३॥
ततः सञ्चिन्त्य भगवान्देवो नारायणः प्रभुः। तैजसं वै विरजसं सोऽसृजन्मानसं सुतम् ॥१२-५९-९४॥
विरजास्तु महाभाग विभुत्वं भुवि नैच्छत। न्यासायैवाभवद्बुद्धिः प्रणीता तस्य पाण्डव ॥१२-५९-९५॥
कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि पञ्चातिगोऽभवत्। कर्दमस्तस्य च सुतः सोऽप्यतप्यन्महत्तपः ॥१२-५९-९६॥
प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः। प्रजानां रक्षिता साधुर्दण्डनीतिविशारदः ॥१२-५९-९७॥
अनङ्गपुत्रोऽतिबलो नीतिमानधिगम्य वै। अभिपेदे महीराज्यमथेन्द्रियवशोऽभवत् ॥१२-५९-९८॥
मृत्योस्तु दुहिता राजन्सुनीथा नाम मानसी। प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत् ॥१२-५९-९९॥
तं प्रजासु विधर्माणं रागद्वेषवशानुगम्। मन्त्रपूतैः कुशैर्जघ्नुरृषयो ब्रह्मवादिनः ॥१२-५९-१००॥
ममन्थुर्दक्षिणं चोरुमृषयस्तस्य मन्त्रतः। ततोऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि ॥१२-५९-१०१॥
दग्धस्थाणुप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः। निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः ॥१२-५९-१०२॥
तस्मान्निषादाः सम्भूताः क्रूराः शैलवनाश्रयाः। ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः ॥१२-५९-१०३॥
भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः। ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः ॥१२-५९-१०४॥
कवची बद्धनिस्त्रिंशः सशरः सशरासनः। वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः ॥१२-५९-१०५॥
तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम्। ततः स प्राञ्जलिर्वैन्यो महर्षींस्तानुवाच ह ॥१२-५९-१०६॥
सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी। अनया किं मया कार्यं तन्मे तत्त्वेन शंसत ॥१२-५९-१०७॥
यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम्। तदहं वै करिष्यामि नात्र कार्या विचारणा ॥१२-५९-१०८॥
तमूचुरथ देवास्ते ते चैव परमर्षयः। नियतो यत्र धर्मो वै तमशङ्कः समाचर ॥१२-५९-१०९॥
प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु। कामक्रोधौ च लोभं च मानं चोत्सृज्य दूरतः ॥१२-५९-११०॥
यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः। निग्राह्यस्ते स बाहुभ्यां शश्वद्धर्ममवेक्षतः ॥१२-५९-१११॥
प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा। पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् ॥१२-५९-११२॥
यश्चात्र धर्मनीत्युक्तो दण्डनीतिव्यपाश्रयः। तमशङ्कः करिष्यामि स्ववशो न कदाचन ॥१२-५९-११३॥
अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो। लोकं च सङ्करात्कृत्स्नात्त्रातास्मीति परन्तप ॥१२-५९-११४॥
वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान्। ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः ॥१२-५९-११५॥
एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः। पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः ॥१२-५९-११६॥
मन्त्रिणो वालखिल्यास्तु सारस्वत्यो गणो ह्यभूत्। महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत् ॥१२-५९-११७॥
आत्मनाष्टम इत्येव श्रुतिरेषा परा नृषु। उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ ॥१२-५९-११८॥
समतां वसुधायाश्च स सम्यगुपपादयत्। वैषम्यं हि परं भूमेरासीदिति ह नः श्रुतम् ॥१२-५९-११९॥
स विष्णुना च देवेन शक्रेण विबुधैः सह। ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः ॥१२-५९-१२०॥
तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण्डव। सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः ॥१२-५९-१२१॥
शक्रश्च धनमक्षय्यं प्रादात्तस्य युधिष्ठिर। रुक्मं चापि महामेरुः स्वयं कनकपर्वतः ॥१२-५९-१२२॥
यक्षराक्षसभर्ता च भगवान्नरवाहनः। धर्मे चार्थे च कामे च समर्थं प्रददौ धनम् ॥१२-५९-१२३॥
हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा। प्रादुर्बभूवुर्वैन्यस्य चिन्तनादेव पाण्डव ॥ न जरा न च दुर्भिक्षं नाधयो व्याधयस्तथा ॥१२-५९-१२४॥
सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात्कदाचन। भयमुत्पद्यते तत्र तस्य राज्ञोऽभिरक्षणात् ॥१२-५९-१२५॥
तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च। यक्षराक्षसनागैश्चापीप्सितं यस्य यस्य यत् ॥१२-५९-१२६॥
तेन धर्मोत्तरश्चायं कृतो लोको महात्मना। रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते ॥१२-५९-१२७॥
ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते। प्रथिता धनतश्चेयं पृथिवी साधुभिः स्मृता ॥१२-५९-१२८॥
स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः। नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति पार्थिव ॥१२-५९-१२९॥
तपसा भगवान्विष्णुराविवेश च भूमिपम्। देववन्नरदेवानां नमते यज्जगन्नृप ॥१२-५९-१३०॥
दण्डनीत्या च सततं रक्षितं तं नरेश्वर। नाधर्षयत्ततः कश्चिच्चारनित्याच्च दर्शनात् ॥१२-५९-१३१॥
आत्मना करणैश्चैव समस्येह महीक्षितः। को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात् ॥१२-५९-१३२॥
विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा। श्रीः सम्भूता यतो देवी पत्नी धर्मस्य धीमतः ॥१२-५९-१३३॥
श्रियः सकाशादर्थश्च जातो धर्मेण पाण्डव। अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता ॥१२-५९-१३४॥
सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम्। पार्थिवो जायते तात दण्डनीतिवशानुगः ॥१२-५९-१३५॥
महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि। बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति ॥१२-५९-१३६॥
स्थापनामथ देवानां न कश्चिदतिवर्तते। तिष्ठत्येकस्य च वशे तं चेदनुविधीयते ॥१२-५९-१३७॥
शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते। तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठति ॥१२-५९-१३८॥
यो ह्यस्य मुखमद्राक्षीत्सोम्य सोऽस्य वशानुगः। सुभगं चार्थवन्तं च रूपवन्तं च पश्यति ॥१२-५९-१३९॥
ततो जगति राजेन्द्र सततं शब्दितं बुधैः। देवाश्च नरदेवाश्च तुल्या इति विशां पते ॥१२-५९-१४०॥
एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु। कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तताम् ॥१२-५९-१४१॥