Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.060
Library: Common and specific duties of each class of people.
वैशम्पायन उवाच॥
ततः पुनः स गाङ्गेयमभिवाद्य पितामहम्। प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः ॥१२-६०-१॥
के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक्। चतुर्णामाश्रमाणां च राजधर्माश्च के मताः ॥१२-६०-२॥
केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते। केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ ॥१२-६०-३॥
कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा। ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः ॥१२-६०-४॥
केषु विश्वसितव्यं स्याद्राज्ञां कस्याञ्चिदापदि। कुतो वात्मा दृढो रक्ष्यस्तन्मे ब्रूहि पितामह ॥१२-६०-५॥
भीष्म उवाच॥
नमो धर्माय महते नमः कृष्णाय वेधसे। ब्राह्मणेभ्यो नमस्कृत्वा धर्मान्वक्ष्यामि शाश्वतान् ॥१२-६०-६॥
अक्रोधः सत्यवचनं संविभागः क्षमा तथा। प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ॥१२-६०-७॥
आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः। ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् ॥१२-६०-८॥
दममेव महाराज धर्ममाहुः पुरातनम्। स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते ॥१२-६०-९॥
तं चेद्वित्तमुपागच्छेद्वर्तमानं स्वकर्मणि। अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् ॥१२-६०-१०॥
कुर्वीतापत्यसन्तानमथो दद्याद्यजेत च। संविभज्य हि भोक्तव्यं धनं सद्भिरितीष्यते ॥१२-६०-११॥
परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः। कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥१२-६०-१२॥
क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत। दद्याद्राजा न याचेत यजेत न तु याजयेत् ॥१२-६०-१३॥
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत्। नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम् ॥१२-६०-१४॥
ये च क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः। य एवाहवजेतारस्त एषां लोकजित्तमाः ॥१२-६०-१५॥
अविक्षतेन देहेन समराद्यो निवर्तते। क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥१२-६०-१६॥
वधं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः। नास्य कृत्यतमं किञ्चिदन्यद्दस्युनिबर्हणात् ॥१२-६०-१७॥
दानमध्ययनं यज्ञो योगः क्षेमो विधीयते। तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता ॥१२-६०-१८॥
स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः। धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत् ॥१२-६०-१९॥
परिनिष्ठितकार्यः स्यान्नृपतिः परिपालनात्। कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते ॥१२-६०-२०॥
वैश्यस्यापीह यो धर्मस्तं ते वक्ष्यामि भारत। दानमध्ययनं यज्ञः शौचेन धनसञ्चयः ॥१२-६०-२१॥
पितृवत्पालयेद्वैश्यो युक्तः सर्वपशूनिह। विकर्म तद्भवेदन्यत्कर्म यद्यत्समाचरेत् ॥ रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् ॥१२-६०-२२॥
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून्। ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥१२-६०-२३॥
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्। षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् ॥१२-६०-२४॥
लये च सप्तमो भागस्तथा शृङ्गे कला खुरे। सस्यस्य सर्वबीजानामेषा सांवत्सरी भृतिः ॥१२-६०-२५॥
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति। वैश्ये चेच्छति नान्येन रक्षितव्याः कथञ्चन ॥१२-६०-२६॥
शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत। प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् ॥१२-६०-२७॥
तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते। तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात् ॥१२-६०-२८॥
शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूयकः। सञ्चयांश्च न कुर्वीत जातु शूद्रः कथञ्चन ॥१२-६०-२९॥
पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः। राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः ॥१२-६०-३०॥
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्। अवश्यभरणीयो हि वर्णानां शूद्र उच्यते ॥१२-६०-३१॥
छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च। यातयामानि देयानि शूद्राय परिचारिणे ॥१२-६०-३२॥
अधार्याणि विशीर्णानि वसनानि द्विजातिभिः। शूद्रायैव विधेयानि तस्य धर्मधनं हि तत् ॥१२-६०-३३॥
यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत्। कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः ॥ देयः पिण्डोऽनपेताय भर्तव्यौ वृद्धदुर्बलौ ॥१२-६०-३४॥
शूद्रेण च न हातव्यो भर्ता कस्याञ्चिदापदि। अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये ॥ न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो ह्यसौ ॥१२-६०-३५॥
उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्यैव भारत। स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीयते ॥१२-६०-३६॥
ताभ्यां शूद्रः पाकयज्ञैर्यजेत व्रतवान्स्वयम्। पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ॥१२-६०-३७॥
शूद्रः पैजवनो नाम सहस्राणां शतं ददौ। ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम् ॥१२-६०-३८॥
अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते। दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत् ॥१२-६०-३९॥
दैवतं परमं विप्राः स्वेन स्वेन परस्परम्। अयजन्निह सत्रैस्ते तैस्तैः कामैः सनातनैः ॥१२-६०-४०॥
संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः। देवानामपि ये देवा यद्ब्रूयुस्ते परं हि तत् ॥ तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया ॥१२-६०-४१॥
ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्द्विजः। अनृग्यजुरसामा तु प्राजापत्य उपद्रवः ॥१२-६०-४२॥
यज्ञो मनीषया तात सर्ववर्णेषु भारत। नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः ॥ तस्मात्सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते ॥१२-६०-४३॥
स्वं दैवतं ब्राह्मणाः स्वेन नित्यं; परान्वर्णानयजन्नेवमासीत्। आरोचिता नः सुमहान्स धर्मः; सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः ॥१२-६०-४४॥
तस्माद्वर्णा ऋजवो जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः। एकं साम यजुरेकमृगेका; विप्रश्चैकोऽनिश्चयस्तेषु दृष्टः ॥१२-६०-४५॥
अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः। वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् ॥१२-६०-४६॥
उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रियः। वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् ॥१२-६०-४७॥
यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम्। बहूनि यज्ञरूपाणि नानाकर्मफलानि च ॥१२-६०-४८॥
तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः। द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति ॥१२-६०-४९॥
स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः। यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम् ॥१२-६०-५०॥
ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम्। सर्वथा सर्ववर्णैर्हि यष्टव्यमिति निश्चयः ॥ न हि यज्ञसमं किञ्चित्त्रिषु लोकेषु विद्यते ॥१२-६०-५१॥
तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता। श्रद्धापवित्रमाश्रित्य यथाशक्ति प्रयच्छता ॥१२-६०-५२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.