12.065
Library: Continued conversation between King Madhata and Indra, elaborating on the governance of thieves and others who deviate from the path.
इन्द्र उवाच॥
एवंवीर्यः सर्वधर्मोपपन्नः; क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः। पाल्यो युष्माभिर्लोकसिंहैरुदारै; र्विपर्यये स्यादभावः प्रजानाम् ॥१२-६५-१॥
भुवः संस्कारं राजसंस्कारयोग; मभैक्षचर्यां पालनं च प्रजानाम्। विद्याद्राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्ममग्र्यम् ॥१२-६५-२॥
त्यागं श्रेष्ठं मुनयो वै वदन्ति; सर्वश्रेष्ठो यः शरीरं त्यजेत। नित्यं त्यक्तं राजधर्मेषु सर्वं; प्रत्यक्षं ते भूमिपालाः सदैते ॥१२-६५-३॥
बहुश्रुत्या गुरुशुश्रूषया वा; परस्य वा संहननाद्वदन्ति। नित्यं धर्मं क्षत्रियो ब्रह्मचारी; चरेदेको ह्याश्रमं धर्मकामः ॥१२-६५-४॥
सामान्यार्थे व्यवहारे प्रवृत्ते; प्रियाप्रिये वर्जयन्नेव यत्नात्। चातुर्वर्ण्यस्थापनात्पालनाच्च; तैस्तैर्योगैर्नियमैरौरसैश्च ॥१२-६५-५॥
सर्वोद्योगैराश्रमं धर्ममाहुः; क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम्। स्वं स्वं धर्मं ये न चरन्ति वर्णा; स्तांस्तान्धर्मानयथावद्वदन्ति ॥१२-६५-६॥
निर्मर्यादे नित्यमर्थे विनष्टा; नाहुस्तान्वै पशुभूतान्मनुष्यान्। यथा नीतिं गमयत्यर्थलोभा; च्छ्रेयांस्तस्मादाश्रमः क्षत्रधर्मः ॥१२-६५-७॥
त्रैविद्यानां या गतिर्ब्राह्मणानां; यश्चैवोक्तोऽथाश्रमो ब्राह्मणानाम्। एतत्कर्म ब्राह्मणस्याहुरग्र्य; मन्यत्कुर्वञ्शूद्रवच्छस्त्रवध्यः ॥१२-६५-८॥
चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिव। ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कथञ्चन ॥१२-६५-९॥
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते। कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः ॥१२-६५-१०॥
यो विकर्मस्थितो विप्रो न स सन्मानमर्हति। कर्मस्वनुपयुञ्जानमविश्वास्यं हि तं विदुः ॥१२-६५-११॥
एते धर्माः सर्ववर्णाश्च वीरै; रुत्क्रष्टव्याः क्षत्रियैरेष धर्मः। तस्माज्ज्येष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता मे ॥१२-६५-१२॥
मान्धातोवाच॥
यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः। शकास्तुषाराः कह्वाश्च पह्लवाश्चान्ध्रमद्रकाः ॥१२-६५-१३॥
ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश्च सर्वशः। ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः ॥१२-६५-१४॥
कथं धर्मं चरेयुस्ते सर्वे विषयवासिनः। मद्विधैश्च कथं स्थाप्याः सर्वे ते दस्युजीविनः ॥१२-६५-१५॥
एतदिच्छाम्यहं श्रोतुं भगवंस्तद्ब्रवीहि मे। त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर ॥१२-६५-१६॥
इन्द्र उवाच॥
मातापित्रोर्हि कर्तव्या शुश्रूषा सर्वदस्युभिः। आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ॥१२-६५-१७॥
भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः। वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते ॥१२-६५-१८॥
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च। दानानि च यथाकालं द्विजेषु दद्युरेव ते ॥१२-६५-१९॥
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम्। भरणं पुत्रदाराणां शौचमद्रोह एव च ॥१२-६५-२०॥
दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता। पाकयज्ञा महार्हाश्च कर्तव्याः सर्वदस्युभिः ॥१२-६५-२१॥
एतान्येवम्प्रकाराणि विहितानि पुरानघ। सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव ॥१२-६५-२२॥
मान्धातोवाच॥
दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः। लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्वपि ॥१२-६५-२३॥
इन्द्र उवाच॥
विनष्टायां दण्डनीतौ राजधर्मे निराकृते। सम्प्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप ॥१२-६५-२४॥
असङ्ख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा। आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन्कृते युगे ॥१२-६५-२५॥
अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः। उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ॥१२-६५-२६॥
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः। तदा धर्मो न चलते सद्भूतः शाश्वतः परः ॥१२-६५-२७॥
परलोकगुरुं चैव राजानं योऽवमन्यते। न तस्य दत्तं न हुतं न श्राद्धं फलति क्वचित् ॥१२-६५-२८॥
मानुषाणामधिपतिं देवभूतं सनातनम्। देवाश्च बहु मन्यन्ते धर्मकामं नरेश्वरम् ॥१२-६५-२९॥
प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत्। स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति ॥१२-६५-३०॥
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम्। स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम् ॥१२-६५-३१॥
भीष्म उवाच॥
एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः। जगाम भवनं विष्णुरक्षरं परमं पदम् ॥१२-६५-३२॥
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ। कः क्षत्रमवमन्येत चेतनावान्बहुश्रुतः ॥१२-६५-३३॥
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च। अन्तरा विलयं यान्ति यथा पथि विचक्षुषः ॥१२-६५-३४॥
आदौ प्रवर्तिते चक्रे तथैवादिपरायणे। वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ ॥१२-६५-३५॥