Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.066
युधिष्ठिर उवाच॥
श्रुता मे कथिताः पूर्वैश्चत्वारो मानवाश्रमाः। व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह ॥१२-६६-१॥
भीष्म उवाच॥
विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर। यथा मम महाबाहो विदिताः साधुसंमताः ॥१२-६६-२॥
यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर। धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप ॥१२-६६-३॥
सर्वाण्येतानि कौन्तेय विद्यन्ते मनुजर्षभ। साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् ॥१२-६६-४॥
अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर। समेक्षिणश्च भूतेषु भैक्षाश्रमपदं भवेत् ॥१२-६६-५॥
वेत्त्यादानविसर्गं यो निग्रहानुग्रहौ तथा। यथोक्तवृत्तेर्वीरस्य क्षेमाश्रमपदं भवेत् ॥१२-६६-६॥
ज्ञातिसम्बन्धिमित्राणि व्यापन्नानि युधिष्ठिर। समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत् ॥१२-६६-७॥
आह्निकं भूतयज्ञांश्च पितृयज्ञांश्च मानुषान्। कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत् ॥१२-६६-८॥
पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात्। दीक्षा बहुविधा राज्ञो वन्याश्रमपदं भवेत् ॥१२-६६-९॥
वेदाध्ययननित्यत्वं क्षमाथाचार्यपूजनम्। तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् ॥१२-६६-१०॥
अजिह्ममशठं मार्गं सेवमानस्य भारत। सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् ॥१२-६६-११॥
वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत। प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत् ॥१२-६६-१२॥
सर्वभूतेष्वनुक्रोशं कुर्वतस्तस्य भारत। आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत् ॥१२-६६-१३॥
बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर। अनुक्रोशं विदधतः सर्वावस्थं पदं भवेत् ॥१२-६६-१४॥
बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह। शरणागतेषु कौरव्य कुर्वन्गार्हस्थ्यमावसेत् ॥१२-६६-१५॥
चराचराणां भूतानां रक्षामपि च सर्वशः। यथार्हपूजां च सदा कुर्वन्गार्हस्थ्यमावसेत् ॥१२-६६-१६॥
ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम्। निग्रहानुग्रहौ पार्थ गार्हस्थ्यमिति तत्तपः ॥१२-६६-१७॥
साधूनामर्चनीयानां प्रजासु विदितात्मनाम्। पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् ॥१२-६६-१८॥
आश्रमस्थानि सर्वाणि यस्तु वेश्मनि भारत। आददीतेह भोज्येन तद्गार्हस्थ्यं युधिष्ठिर ॥१२-६६-१९॥
यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत्। आश्रमाणां स सर्वेषां फलं प्राप्नोत्यनुत्तमम् ॥१२-६६-२०॥
यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा। आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर ॥१२-६६-२१॥
स्थानमानं वयोमानं कुलमानं तथैव च। कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर ॥१२-६६-२२॥
देशधर्मांश्च कौन्तेय कुलधर्मांस्तथैव च। पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् ॥१२-६६-२३॥
काले विभूतिं भूतानामुपहारांस्तथैव च। अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत् ॥१२-६६-२४॥
दशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते। सर्वलोकस्य कौन्तेय राजा भवति सोऽऽश्रमी ॥१२-६६-२५॥
ये धर्मकुशला लोके धर्मं कुर्वन्ति साधवः। पालिता यस्य विषये पादोंऽशस्तस्य भूपतेः ॥१२-६६-२६॥
धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान्। पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते ॥१२-६६-२७॥
ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर। ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ ॥१२-६६-२८॥
सर्वाश्रमपदे ह्याहुर्गार्हस्थ्यं दीप्तनिर्णयम्। पावनं पुरुषव्याघ्र यं वयं पर्युपास्महे ॥१२-६६-२९॥
आत्मोपमस्तु भूतेषु यो वै भवति मानवः। न्यस्तदण्डो जितक्रोधः स प्रेत्य लभते सुखम् ॥१२-६६-३०॥
धर्मोत्थिता सत्त्ववीर्या धर्मसेतुवटाकरा। त्यागवाताध्वगा शीघ्रा नौस्त्वा सन्तारयिष्यति ॥१२-६६-३१॥
यदा निवृत्तः सर्वस्मात्कामो योऽस्य हृदि स्थितः। तदा भवति सत्त्वस्थस्ततो ब्रह्म समश्नुते ॥१२-६६-३२॥
सुप्रसन्नस्तु भावेन योगेन च नराधिप। धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ॥१२-६६-३३॥
वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम्। पालने यत्नमातिष्ठ सर्वलोकस्य चानघ ॥१२-६६-३४॥
वने चरति यो धर्ममाश्रमेषु च भारत। रक्षया तच्छतगुणं धर्मं प्राप्नोति पार्थिवः ॥१२-६६-३५॥
एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः। अनुतिष्ठ त्वमेनं वै पूर्वैर्दृष्टं सनातनम् ॥१२-६६-३६॥
चातुराश्रम्यमेकाग्रः चातुर्वर्ण्यं च पाण्डव। धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ॥१२-६६-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.