Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.067
युधिष्ठिर उवाच॥
चातुराश्रम्य उक्तोऽत्र चातुर्वर्ण्यस्तथैव च। राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह ॥१२-६७-१॥
भीष्म उवाच॥
राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम्। अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्ति च ॥१२-६७-२॥
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते। परस्परं च खादन्ति सर्वथा धिगराजकम् ॥१२-६७-३॥
इन्द्रमेनं प्रवृणुते यद्राजानमिति श्रुतिः। यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता ॥१२-६७-४॥
नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम्। नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्यपि ॥१२-६७-५॥
अथ चेदभिवर्तेत राज्यार्थी बलवत्तरः। अराजकानि राष्ट्राणि हतराजानि वा पुनः ॥१२-६७-६॥
प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम्। न हि पापात्पापतरमस्ति किञ्चिदराजकात् ॥१२-६७-७॥
स चेत्समनुपश्येत समग्रं कुशलं भवेत्। बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि ॥१२-६७-८॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा। सुदुहा या तु भवति नैव तां क्लेशयन्त्युत ॥१२-६७-९॥
यदतप्तं प्रणमति न तत्सन्तापयन्त्युत। यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि ॥१२-६७-१०॥
एतयोपमया धीरः संनमेत बलीयसे। इन्द्राय स प्रणमते नमते यो बलीयसे ॥१२-६७-११॥
तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता। न धनार्थो न दारार्थस्तेषां येषामराजकम् ॥१२-६७-१२॥
प्रीयते हि हरन्पापः परवित्तमराजके। यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति ॥१२-६७-१३॥
पापा अपि तदा क्षेमं न लभन्ते कदाचन। एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे ॥१२-६७-१४॥
अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः। एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे ॥१२-६७-१५॥
राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः। शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥१२-६७-१६॥
अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम्। परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ॥१२-६७-१७॥
ताः समेत्य ततश्चक्रुः समयानिति नः श्रुतम्। वाक्क्रूरो दण्डपुरुषो यश्च स्यात्पारदारिकः ॥ यश्च न स्वमथादद्यात्त्याज्या नस्तादृशा इति ॥१२-६७-१८॥
विश्वासनार्थं वर्णानां सर्वेषामविशेषतः। तास्तथा समयं कृत्वा समये नावतस्थिरे ॥१२-६७-१९॥
सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम्। अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश ॥१२-६७-२०॥
यं पूजयेम सम्भूय यश्च नः परिपालयेत्। ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः ॥१२-६७-२१॥
मनुरुवाच॥
बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम्। विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा ॥१२-६७-२२॥
भीष्म उवाच॥
तमब्रुवन्प्रजा मा भैः कर्मणैनो गमिष्यति। पशूनामधिपञ्चाशद्धिरण्यस्य तथैव च ॥ धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् ॥१२-६७-२३॥
मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः। भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः ॥१२-६७-२४॥
स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान्। सुखे धास्यसि नः सर्वान्कुबेर इव नैरृतान् ॥१२-६७-२५॥
यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः। चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति ॥१२-६७-२६॥
तेन धर्मेण महता सुखलब्धेन भावितः। पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः ॥१२-६७-२७॥
विजयायाशु निर्याहि प्रतपन्रश्मिमानिव। मानं विधम शत्रूणां धर्मो जयतु नः सदा ॥१२-६७-२८॥
स निर्ययौ महातेजा बलेन महता वृतः। महाभिजनसम्पन्नस्तेजसा प्रज्वलन्निव ॥१२-६७-२९॥
तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः। अपतत्रसिरे सर्वे स्वधर्मे च दधुर्मनः ॥१२-६७-३०॥
ततो महीं परिययौ पर्जन्य इव वृष्टिमान्। शमयन्सर्वतः पापान्स्वकर्मसु च योजयन् ॥१२-६७-३१॥
एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित्। कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् ॥१२-६७-३२॥
नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा। देवा इव सहस्राक्षं प्रजा राजानमन्तिके ॥१२-६७-३३॥
सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते। स्वजनेन त्ववज्ञातं परे परिभवन्त्युत ॥१२-६७-३४॥
राज्ञः परैः परिभवः सर्वेषामसुखावहः। तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च ॥१२-६७-३५॥
भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च। आसनानि च शय्याश्च सर्वोपकरणानि च ॥१२-६७-३६॥
गुप्तात्मा स्याद्दुराधर्षः स्मितपूर्वाभिभाषिता। आभाषितश्च मधुरं प्रतिभाषेत मानवान् ॥१२-६७-३७॥
कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः। ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च ॥१२-६७-३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.