12.068
युधिष्ठिर उवाच॥
किमाहुर्दैवतं विप्रा राजानं भरतर्षभ। मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह ॥१२-६८-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। बृहस्पतिं वसुमना यथा पप्रच्छ भारत ॥१२-६८-२॥
राजा वसुमना नाम कौसल्यो धीमतां वरः। महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम् ॥१२-६८-३॥
सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः। दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् ॥१२-६८-४॥
विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः। प्रजानां हितमन्विच्छन्धर्ममूलं विशां पते ॥१२-६८-५॥
केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च। कमर्चन्तो महाप्राज्ञ सुखमत्यन्तमाप्नुयुः ॥१२-६८-६॥
इति पृष्टो महाराज्ञा कौसल्येनामितौजसा। राजसत्कारमव्यग्रः शशंसास्मै बृहस्पतिः ॥१२-६८-७॥
राजमूलो महाराज धर्मो लोकस्य लक्ष्यते। प्रजा राजभयादेव न खादन्ति परस्परम् ॥१२-६८-८॥
राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम्। प्रसादयति धर्मेण प्रसाद्य च विराजते ॥१२-६८-९॥
यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः। अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ॥१२-६८-१०॥
यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः। विहरेयुर्यथाकाममभिसृत्य पुनः पुनः ॥१२-६८-११॥
विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम्। अभावमचिरेणैव गच्छेयुर्नात्र संशयः ॥१२-६८-१२॥
एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः। अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ॥१२-६८-१३॥
हरेयुर्बलवन्तो हि दुर्बलानां परिग्रहान्। हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ॥१२-६८-१४॥
यानं वस्त्रमलङ्कारान्रत्नानि विविधानि च। हरेयुः सहसा पापा यदि राजा न पालयेत् ॥१२-६८-१५॥
ममेदमिति लोकेऽस्मिन्न भवेत्सम्परिग्रहः। विश्वलोपः प्रवर्तेत यदि राजा न पालयेत् ॥१२-६८-१६॥
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्। क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत् ॥१२-६८-१७॥
पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु। अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ॥१२-६८-१८॥
वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत्। ममत्वं च न विन्देयुर्यदि राजा न पालयेत् ॥१२-६८-१९॥
अन्तश्चाकाशमेव स्याल्लोकोऽयं दस्युसाद्भवेत्। पतेच्च नरकं घोरं यदि राजा न पालयेत् ॥१२-६८-२०॥
न योनिपोषो वर्तेत न कृषिर्न वणिक्पथः। मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् ॥१२-६८-२१॥
न यज्ञाः सम्प्रवर्तेरन्विधिवत्स्वाप्तदक्षिणाः। न विवाहाः समाजा वा यदि राजा न पालयेत् ॥१२-६८-२२॥
न वृषाः सम्प्रवर्तेरन्न मथ्येरंश्च गर्गराः। घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् ॥१२-६८-२३॥
त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम्। क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् ॥१२-६८-२४॥
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः। विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् ॥१२-६८-२५॥
ब्राह्मणाश्चतुरो वेदान्नाधीयेरंस्तपस्विनः। विद्यास्नातास्तपःस्नाता यदि राजा न पालयेत् ॥१२-६८-२६॥
हस्तो हस्तं स मुष्णीयाद्भिद्येरन्सर्वसेतवः। भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत् ॥१२-६८-२७॥
न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः। कर्ता स्वेच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत् ॥१२-६८-२८॥
अनयाः सम्प्रवर्तेरन्भवेद्वै वर्णसङ्करः। दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् ॥१२-६८-२९॥
विवृत्य हि यथाकामं गृहद्वाराणि शेरते। मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः ॥१२-६८-३०॥
नाक्रुष्टं सहते कश्चित्कुतो हस्तस्य लङ्घनम्। यदि राजा मनुष्येषु त्राता भवति धार्मिकः ॥१२-६८-३१॥
स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः। निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः ॥१२-६८-३२॥
धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्। अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः ॥१२-६८-३३॥
यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः। युक्ताश्चाधीयते शास्त्रं यदा रक्षति भूमिपः ॥१२-६८-३४॥
वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा। तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः ॥१२-६८-३५॥
यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः। महता बलयोगेन तदा लोकः प्रसीदति ॥१२-६८-३६॥
यस्याभावे च भूतानामभावः स्यात्समन्ततः। भावे च भावो नित्यः स्यात्कस्तं न प्रतिपूजयेत् ॥१२-६८-३७॥
तस्य यो वहते भारं सर्वलोकसुखावहम्। तिष्ठेत्प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत् ॥१२-६८-३८॥
यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत्। असंशयमिह क्लिष्टः प्रेत्यापि नरकं पतेत् ॥१२-६८-३९॥
न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः। महती देवता ह्येषा नररूपेण तिष्ठति ॥१२-६८-४०॥
कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा। भवत्यग्निस्तथादित्यो मृत्युर्वैश्रवणो यमः ॥१२-६८-४१॥
यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा। मिथ्योपचरितो राजा तदा भवति पावकः ॥१२-६८-४२॥
यदा पश्यति चारेण सर्वभूतानि भूमिपः। क्षेमं च कृत्वा व्रजति तदा भवति भास्करः ॥१२-६८-४३॥
अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान्। सपुत्रपौत्रान्सामात्यांस्तदा भवति सोऽन्तकः ॥१२-६८-४४॥
यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति। धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा ॥१२-६८-४५॥
यदा तु धनधाराभिस्तर्पयत्युपकारिणः। आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम् ॥१२-६८-४६॥
श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति। तदा वैश्रवणो राजँल्लोके भवति भूमिपः ॥१२-६८-४७॥
नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा। धर्म्यमाकाङ्क्षता लाभमीश्वरस्यानसूयता ॥१२-६८-४८॥
न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात्। पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत् ॥१२-६८-४९॥
कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः। न तु राज्ञाभिपन्नस्य शेषं क्वचन विद्यते ॥१२-६८-५०॥
तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत्। मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः ॥१२-६८-५१॥
नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन्। आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान् ॥१२-६८-५२॥
महान्तं नरकं घोरमप्रतिष्ठमचेतसः। पतन्ति चिररात्राय राजवित्तापहारिणः ॥१२-६८-५३॥
राजा भोजो विराट्सम्राट्क्षत्रियो भूपतिर्नृपः। य एवं स्तूयते शब्दैः कस्तं नार्चितुमिच्छति ॥१२-६८-५४॥
तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः। मेधावी स्मृतिमान्दक्षः संश्रयेत महीपतिम् ॥१२-६८-५५॥
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम्। धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन्नृपः ॥१२-६८-५६॥
दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम्। शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत् ॥१२-६८-५७॥
राजा प्रगल्भं पुरुषं करोति; राजा कृशं बृंहयते मनुष्यम्। राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करोति ॥१२-६८-५८॥
राजा प्रजानां हृदयं गरीयो; गतिः प्रतिष्ठा सुखमुत्तमं च। यमाश्रिता लोकमिमं परं च; जयन्ति सम्यक्पुरुषा नरेन्द्रम् ॥१२-६८-५९॥
नराधिपश्चाप्यनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन। महद्भिरिष्ट्वा क्रतुभिर्महायशा; स्त्रिविष्टपे स्थानमुपैति सत्कृतम् ॥१२-६८-६०॥
स एवमुक्तो गुरुणा कौसल्यो राजसत्तमः। प्रयत्नात्कृतवान्वीरः प्रजानां परिपालनम् ॥१२-६८-६१॥