Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.082
युधिष्ठिर उवाच॥
एवमग्राह्यके तस्मिञ्ज्ञातिसम्बन्धिमण्डले। मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते ॥१२-८२-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। वासुदेवस्य संवादं सुरर्षेर्नारदस्य च ॥१२-८२-२॥
वासुदेव उवाच॥
नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम्। अपण्डितो वापि सुहृत्पण्डितो वापि नात्मवान् ॥१२-८२-३॥
स ते सौहृदमास्थाय किञ्चिद्वक्ष्यामि नारद। कृत्स्नां च बुद्धिं सम्प्रेक्ष्य सम्पृच्छे त्रिदिवङ्गम ॥१२-८२-४॥
दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम्। अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे ॥१२-८२-५॥
अरणीमग्निकामो वा मथ्नाति हृदयं मम। वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा ॥१२-८२-६॥
बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे। रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद ॥१२-८२-७॥
अन्ये हि सुमहाभागा बलवन्तो दुरासदाः। नित्योत्थानेन सम्पन्ना नारदान्धकवृष्णयः ॥१२-८२-८॥
यस्य न स्युर्न वै स स्याद्यस्य स्युः कृच्छ्रमेव तत्। द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च ॥१२-८२-९॥
स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः। यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः ॥१२-८२-१०॥
सोऽहं कितवमातेव द्वयोरपि महामुने। एकस्य जयमाशंसे द्वितीयस्यापराजयम् ॥१२-८२-११॥
ममैवं क्लिश्यमानस्य नारदोभयतः सदा। वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा ॥१२-८२-१२॥
नारद उवाच॥
आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह। प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः ॥१२-८२-१३॥
सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा। अक्रूरभोजप्रभवाः सर्वे ह्येते तदन्वयाः ॥१२-८२-१४॥
अर्थहेतोर्हि कामाद्वाद्वारा बीभत्सयापि वा। आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् ॥१२-८२-१५॥
कृतमूलमिदानीं तज्जातशब्दं सहायवत्। न शक्यं पुनरादातुं वान्तमन्नमिव त्वया ॥१२-८२-१६॥
बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथञ्चन। ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः ॥१२-८२-१७॥
तच्चेत्सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम्। महाक्षयव्ययं वा स्याद्विनाशो वा पुनर्भवेत् ॥१२-८२-१८॥
अनायसेन शस्त्रेण मृदुना हृदयच्छिदा। जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च ॥१२-८२-१९॥
वासुदेव उवाच॥
अनायसं मुने शस्त्रं मृदु विद्यामहं कथम्। येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च ॥१२-८२-२०॥
नारद उवाच॥
शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम्। यथार्हप्रतिपूजा च शस्त्रमेतदनायसम् ॥१२-८२-२१॥
ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च। गिरा त्वं हृदयं वाचं शमयस्व मनांसि च ॥१२-८२-२२॥
नामहापुरुषः कश्चिन्नानात्मा नासहायवान्। महतीं धुरमादत्ते तामुद्यम्योरसा वह ॥१२-८२-२३॥
सर्व एव गुरुं भारमनड्वान्वहते समे। दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम् ॥१२-८२-२४॥
भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव। यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु ॥१२-८२-२५॥
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात्। नान्यत्र धनसन्त्यागाद्गणः प्राज्ञेऽवतिष्ठते ॥१२-८२-२६॥
धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं शुभम्। ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु ॥१२-८२-२७॥
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो। षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा ॥१२-८२-२८॥
माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः। त्वय्यासक्ता महाबाहो लोका लोकेश्वराश्च ये ॥१२-८२-२९॥
उपासते हि त्वद्बुद्धिमृषयश्चापि माधव। त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम् ॥ त्वामासाद्य यदुश्रेष्ठमेधन्ते ज्ञातिनः सुखम् ॥१२-८२-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.