Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.083
भीष्म उवाच॥
एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत। यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः स मानवः ॥१२-८३-१॥
ह्रियमाणममात्येन भृतो वा यदि वाभृतः। यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर ॥१२-८३-२॥
श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत्। अमात्या ह्युपहन्तारं भूयिष्ठं घ्नन्ति भारत ॥१२-८३-३॥
राजकोशस्य गोप्तारं राजकोशविलोपकाः। समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः ॥१२-८३-४॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह ॥१२-८३-५॥
कोसलानामाधिपत्यं सम्प्राप्ते क्षेमदर्शिनि। मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ॥१२-८३-६॥
स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः। पूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ॥१२-८३-७॥
अधीये वायसीं विद्यां शंसन्ति मम वायसाः। अनागतमतीतं च यच्च सम्प्रति वर्तते ॥१२-८३-८॥
इति राष्ट्रे परिपतन्बहुशः पुरुषैः सह। सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान् ॥१२-८३-९॥
स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः। राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः ॥१२-८३-१०॥
तमेव काकमादाय राजानं द्रष्टुमागमत्। सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः ॥१२-८३-११॥
स स्म कौसल्यमागम्य राजामात्यमलङ्कृतम्। प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् ॥१२-८३-१२॥
असौ चासौ च जानीते राजकोशस्त्वया हृतः। एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् ॥१२-८३-१३॥
तथान्यानपि स प्राह राजकोशहरान्सदा। न चास्य वचनं किञ्चिदकृतं श्रूयते क्वचित् ॥१२-८३-१४॥
तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह। तमतिक्रम्य सुप्तस्य निशि काकमपोथयन् ॥१२-८३-१५॥
वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे। पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् ॥१२-८३-१६॥
राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम्। अनुज्ञातस्त्वया ब्रूयां वचनं त्वत्पुरो हितम् ॥१२-८३-१७॥
मित्रार्थमभिसन्तप्तो भक्त्या सर्वात्मना गतः। अयं तवार्थं हरते यो ब्रूयादक्षमान्वितः ॥१२-८३-१८॥
सम्बुबोधयिषुर्मित्रं सदश्वमिव सारथिः। अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम् ॥१२-८३-१९॥
तथाविधस्य सुहृदः क्षन्तव्यं संविजानता। ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता ॥१२-८३-२०॥
तं राजा प्रत्युवाचेदं यन्मा किञ्चिद्भवान्वदेत्। कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् ॥१२-८३-२१॥
ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि। करिष्यामि हि ते वाक्यं यद्यन्मां विप्र वक्ष्यसि ॥१२-८३-२२॥
मुनिरुवाच॥
ज्ञात्वा नयानपायांश्च भृत्यतस्ते भयानि च। भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम् ॥१२-८३-२३॥
प्रागेवोक्तश्च दोषोऽयमाचार्यैर्नृपसेविनाम्। अगतीकगतिर्ह्येषा या राज्ञा सह जीविका ॥१२-८३-२४॥
आशीविषैश्च तस्याहुः सङ्गतं यस्य राजभिः। बहुमित्राश्च राजानो बह्वमित्रास्तथैव च ॥१२-८३-२५॥
तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपसेविनाम्। अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत् ॥१२-८३-२६॥
नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ। न तु प्रमादः कर्तव्यः कथञ्चिद्भूतिमिच्छता ॥१२-८३-२७॥
प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम्। अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः ॥१२-८३-२८॥
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम्। यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ॥१२-८३-२९॥
दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात्। दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेष्टितात् ॥१२-८३-३०॥
देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः। वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् ॥ इति राजन्मयः प्राह वर्तते च तथैव तत् ॥१२-८३-३१॥
अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः। ददात्यस्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि ॥१२-८३-३२॥
वायसश्चैव मे राजन्नन्तकायाभिसंहितः। न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः ॥ हिताहितांस्तु बुध्येथा मा परोक्षमतिर्भव ॥१२-८३-३३॥
ये त्वादानपरा एव वसन्ति भवतो गृहे। अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् ॥१२-८३-३४॥
ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तरम्। अन्तरैरभिसन्धाय राजन्सिध्यन्ति नान्यथा ॥१२-८३-३५॥
तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम्। तैर्हि मे सन्धितो बाणः काके निपतितः प्रभो ॥१२-८३-३६॥
छद्मना मम काकश्च गमितो यमसादनम्। दृष्टं ह्येतन्मया राजंस्तपोदीर्घेण चक्षुषा ॥१२-८३-३७॥
बहुनक्रझषग्राहां तिमिङ्गिलगणायुताम्। काकेन बडिशेनेमामतार्षं त्वामहं नदीम् ॥१२-८३-३८॥
स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम्। दुरासदां दुष्प्रवेशां गुहां हैमवतीमिव ॥१२-८३-३९॥
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते। राजदुर्गावतरणे नोपायं पण्डिता विदुः ॥१२-८३-४०॥
गहनं भवतो राज्यमन्धकारतमोवृतम्। नेह विश्वसितुं शक्यं भवतापि कुतो मया ॥१२-८३-४१॥
अतो नायं शुभो वासस्तुल्ये सदसती इह। वधो ह्येवात्र सुकृते दुष्कृते न च संशयः ॥१२-८३-४२॥
न्यायतो दुष्कृते घातः सुकृते स्यात्कथं वधः। नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद्बुधः ॥१२-८३-४३॥
सीता नाम नदी राजन्प्लवो यस्यां निमज्जति। तथोपमामिमां मन्ये वागुरां सर्वघातिनीम् ॥१२-८३-४४॥
मधुप्रपातो हि भवान्भोजनं विषसंयुतम्। असतामिव ते भावो वर्तते न सतामिव ॥ आशीविषैः परिवृतः कूपस्त्वमिव पार्थिव ॥१२-८३-४५॥
दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता। नदी मधुरपानीया यथा राजंस्तथा भवान् ॥ श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि ॥१२-८३-४६॥
यथाश्रित्य महावृक्षं कक्षः संवर्धते महान्। ततस्तं संवृणोत्येव तमतीत्य च वर्धते ॥१२-८३-४७॥
तेनैवोपेन्धनो नूनं दावो दहति दारुणः। तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय ॥१२-८३-४८॥
भवतैव कृता राजन्भवता परिपालिताः। भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् ॥१२-८३-४९॥
उषितं शङ्कमानेन प्रमादं परिरक्षता। अन्तःसर्प इवागारे वीरपत्न्या इवालये ॥ शीलं जिज्ञासमानेन राज्ञश्च सहजीविना ॥१२-८३-५०॥
कच्चिज्जितेन्द्रियो राजा कच्चिदभ्यन्तरा जिताः। कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः ॥१२-८३-५१॥
जिज्ञासुरिह सम्प्राप्तस्तवाहं राजसत्तम। तस्य मे रोचसे राजन्क्षुधितस्येव भोजनम् ॥१२-८३-५२॥
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम्। भवतोऽर्थकृदित्येव मयि दोषो हि तैः कृतः ॥१२-८३-५३॥
विद्यते कारणं नान्यदिति मे नात्र संशयः ॥१२-८३-५३॥
न हि तेषामहं द्रुग्धस्तत्तेषां दोषवद्गतम्। अरेर्हि दुर्हताद्भेयं भग्नपृष्ठादिवोरगात् ॥१२-८३-५४॥
राजोवाच॥
भूयसा परिबर्हेण सत्कारेण च भूयसा। पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम ॥१२-८३-५५॥
ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे। भवतैव हि तज्ज्ञेयं यदिदानीमनन्तरम् ॥१२-८३-५६॥
यथा स्याद्दुष्कृतो दण्डो यथा च सुकृतं कृतम्। तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् ॥१२-८३-५७॥
मुनिरुवाच॥
अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु। ततः कारणमाज्ञाय पुरुषं पुरुषं जहि ॥१२-८३-५८॥
एकदोषा हि बहवो मृद्नीयुरपि कण्टकान्। मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते ॥१२-८३-५९॥
वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः। स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः ॥१२-८३-६०॥
राजन्नात्मानमाचक्षे सम्बन्धी भवतो ह्यहम्। मुनिः कालकवृक्षीय इत्येवमभिसञ्ज्ञितः ॥१२-८३-६१॥
पितुः सखा च भवतः संमतः सत्यसङ्गरः। व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते ॥१२-८३-६२॥
सर्वकामान्परित्यज्य तपस्तप्तं तदा मया। स्नेहात्त्वां प्रब्रवीम्येतन्मा भूयो विभ्रमेदिति ॥१२-८३-६३॥
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया। राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि ॥१२-८३-६४॥
भीष्म उवाच॥
ततो राजकुले नान्दी सञ्जज्ञे भूयसी पुनः। पुरोहितकुले चैव सम्प्राप्ते ब्राह्मणर्षभे ॥१२-८३-६५॥
एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने। मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः ॥१२-८३-६६॥
हितं तद्वचनं श्रुत्वा कौसल्योऽन्वशिषन्महीम्। तथा च कृतवान्राजा यथोक्तं तेन भारत ॥१२-८३-६७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.