12.088
युधिष्ठिर उवाच॥
राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव च सङ्ग्रहम्। सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥१२-८८-१॥
भीष्म उवाच॥
राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव च सङ्ग्रहम्। हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु ॥१२-८८-२॥
ग्रामस्याधिपतिः कार्यो दशग्राम्यस्तथापरः। द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत् ॥१२-८८-३॥
ग्रामे यान्ग्रामदोषांश्च ग्रामिकः परिपालयेत्। तान्ब्रूयाद्दशपायासौ स तु विंशतिपाय वै ॥१२-८८-४॥
सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने। ग्रामाणां शतपालाय सर्वमेव निवेदयेत् ॥१२-८८-५॥
यानि ग्रामीणभोज्यानि ग्रामिकस्तान्युपाश्नुयात्। दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः ॥१२-८८-६॥
ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः। महान्तं भरतश्रेष्ठ सुस्फीतजनसङ्कुलम् ॥ तत्र ह्यनेकमायत्तं राज्ञो भवति भारत ॥१२-८८-७॥
शाखानगरमर्हस्तु सहस्रपतिरुत्तमम्। धान्यहैरण्यभोगेन भोक्तुं राष्ट्रिय उद्यतः ॥१२-८८-८॥
तथा यद्ग्रामकृत्यं स्याद्ग्रामिकृत्यं च ते स्वयम्। धर्मज्ञः सचिवः कश्चित्तत्प्रपश्येदतन्द्रितः ॥१२-८८-९॥
नगरे नगरे च स्यादेकः सर्वार्थचिन्तकः। उच्चैःस्थाने घोररूपो नक्षत्राणामिव ग्रहः ॥ भवेत्स तान्परिक्रामेत्सर्वानेव सदा स्वयम् ॥१२-८८-१०॥
विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम्। योगक्षेमं च सम्प्रेक्ष्य वणिजः कारयेत्करान् ॥१२-८८-११॥
उत्पत्तिं दानवृत्तिं च शिल्पं सम्प्रेक्ष्य चासकृत्। शिल्पप्रतिकरानेव शिल्पिनः प्रति कारयेत् ॥१२-८८-१२॥
उच्चावचकरा न्याय्याः पूर्वराज्ञां युधिष्ठिर। यथा यथा न हीयेरंस्तथा कुर्यान्महीपतिः ॥१२-८८-१३॥
फलं कर्म च सम्प्रेक्ष्य ततः सर्वं प्रकल्पयेत्। फलं कर्म च निर्हेतु न कश्चित्सम्प्रवर्तयेत् ॥१२-८८-१४॥
यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ। समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः ॥१२-८८-१५॥
नोच्छिन्द्यादात्मनो मूलं परेषां वापि तृष्णया। ईहाद्वाराणि संरुध्य राजा सम्प्रीतिदर्शनः ॥१२-८८-१६॥
प्रद्विषन्ति परिख्यातं राजानमतिखादिनम्। प्रद्विष्टस्य कुतः श्रेयः सम्प्रियो लभते प्रियम् ॥१२-८८-१७॥
वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना। भृतो वत्सो जातबलः पीडां सहति भारत ॥१२-८८-१८॥
न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर। राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत् ॥१२-८८-१९॥
यो राष्ट्रमनुगृह्णाति परिगृह्य स्वयं नृपः। सञ्जातमुपजीवन्स लभते सुमहत्फलम् ॥१२-८८-२०॥
आपदर्थं हि निचयान्राजान इह चिन्वते। राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा ॥१२-८८-२१॥
पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा। यथाशक्त्यनुकम्पेत सर्वानभ्यन्तरानपि ॥१२-८८-२२॥
बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम्। एवं न सम्प्रकुप्यन्ते जनाः सुखितदुःखिताः ॥१२-८८-२३॥
प्रागेव तु करादानमनुभाष्य पुनः पुनः। संनिपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत् ॥१२-८८-२४॥
इयमापत्समुत्पन्ना परचक्रभयं महत्। अपि नान्ताय कल्पेत वेणोरिव फलागमः ॥१२-८८-२५॥
अरयो मे समुत्थाय बहुभिर्दस्युभिः सह। इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम् ॥१२-८८-२६॥
अस्यामापदि घोरायां सम्प्राप्ते दारुणे भये। परित्राणाय भवतां प्रार्थयिष्ये धनानि वः ॥१२-८८-२७॥
प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये। नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः ॥१२-८८-२८॥
कलत्रमादितः कृत्वा नश्येत्स्वं स्वयमेव हि। अपि चेत्पुत्रदारार्थमर्थसञ्चय इष्यते ॥१२-८८-२९॥
नन्दामि वः प्रभावेन पुत्राणामिव चोदये। यथाशक्त्यनुगृह्णामि राष्ट्रस्यापीडया च वः ॥१२-८८-३०॥
आपत्स्वेव च वोढव्यं भवद्भिः सद्गवैरिव। न वः प्रियतरं कार्यं धनं कस्याञ्चिदापदि ॥१२-८८-३१॥
इति वाचा मधुरया श्लक्ष्णया सोपचारया। स्वरश्मीनभ्यवसृजेद्युगमादाय कालवित् ॥१२-८८-३२॥
प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम्। योगक्षेमं च सम्प्रेक्ष्य गोमिनः कारयेत्करान् ॥१२-८८-३३॥
उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः। तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत् ॥१२-८८-३४॥
सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः। गोमिनां पार्थ कर्तव्यं संविभागाः प्रियाणि च ॥१२-८८-३५॥
अजस्रमुपयोक्तव्यं फलं गोमिषु सर्वतः। प्रभावयति राष्ट्रं च व्यवहारं कृषिं तथा ॥१२-८८-३६॥
तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः। दयावानप्रमत्तश्च करान्सम्प्रणयन्मृदून् ॥१२-८८-३७॥
सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः। न ह्यतः सदृशं किञ्चिद्धनमस्ति युधिष्ठिर ॥१२-८८-३८॥