Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.092
उतथ्य उवाच॥
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः। सम्पद्यदैषा भवति सा बिभर्ति सुखं प्रजाः ॥१२-९२-१॥
यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम्। रक्तानि वा शोधयितुं यथा नास्ति तथैव सः ॥१२-९२-२॥
एवमेव द्विजेन्द्राणां क्षत्रियाणां विशामपि। शूद्राश्चतुर्णां वर्णानां नानाकर्मस्ववस्थिताः ॥१२-९२-३॥
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि। ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ॥१२-९२-४॥
तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम्। शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः ॥१२-९२-५॥
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ। राजवृत्तानि सर्वाणि राजैव युगमुच्यते ॥१२-९२-६॥
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च। सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ॥१२-९२-७॥
राजैव कर्ता भूतानां राजैव च विनाशकः। धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ॥१२-९२-८॥
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा। समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ॥१२-९२-९॥
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः। अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ॥१२-९२-१०॥
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते। अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ॥१२-९२-११॥
यच्च भूतं स भजते भूता ये च तदन्वयाः। अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ॥१२-९२-१२॥
दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च। अविषह्यतमं मन्ये मा स्म दुर्बलमासदः ॥१२-९२-१३॥
दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान्। मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् ॥१२-९२-१४॥
न हि दुर्बलदग्धस्य कुले किञ्चित्प्ररोहति। आमूलं निर्दहत्येव मा स्म दुर्बलमासदः ॥१२-९२-१५॥
अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम्। बलस्याबलदग्धस्य न किञ्चिदवशिष्यते ॥१२-९२-१६॥
विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति। अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् ॥१२-९२-१७॥
मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम्। मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् ॥१२-९२-१८॥
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम्। तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् ॥१२-९२-१९॥
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु। न हि पापं कृतं कर्म सद्यः फलति गौरिव ॥१२-९२-२०॥
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति। महान्दैवकृतस्तत्र दण्डः पतति दारुणः ॥१२-९२-२१॥
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव। अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ॥१२-९२-२२॥
राज्ञो यदा जनपदे बहवो राजपूरुषाः। अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ॥१२-९२-२३॥
यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा। कृपणं याचमानानां तद्राज्ञो वैशसं महत् ॥१२-९२-२४॥
महावृक्षो जायते वर्धते च; तं चैव भूतानि समाश्रयन्ति। यदा वृक्षश्छिद्यते दह्यते वा; तदाश्रया अनिकेता भवन्ति ॥१२-९२-२५॥
यदा राष्ट्रे धर्ममग्र्यं चरन्ति; संस्कारं वा राजगुणं ब्रुवाणाः। तैरेवाधर्मश्चरितो धर्ममोहा; त्तूर्णं जह्यात्सुकृतं दुष्कृतं च ॥१२-९२-२६॥
यत्र पापा ज्ञायमानाश्चरन्ति; सतां कलिर्विन्दति तत्र राज्ञः। यदा राजा शास्ति नरान्नशिष्या; न्न तद्राज्यं वर्धते भूमिपाल ॥१२-९२-२७॥
यश्चामात्यं मानयित्वा यथार्हं; मन्त्रे च युद्धे च नृपो नियुञ्ज्यात्। प्रवर्धते तस्य राष्ट्रं नृपस्य; भुङ्क्ते महीं चाप्यखिलां चिराय ॥१२-९२-२८॥
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम्। समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ॥१२-९२-२९॥
संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते। निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ॥१२-९२-३०॥
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा। पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ॥१२-९२-३१॥
यदा शारणिकान्राजा पुत्रवत्परिरक्षति। भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ॥१२-९२-३२॥
यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः। कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ॥१२-९२-३३॥
कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै। हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते ॥१२-९२-३४॥
विवर्धयति मित्राणि तथारींश्चापकर्षति। सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते ॥१२-९२-३५॥
सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति। पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ॥१२-९२-३६॥
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ। अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् ॥१२-९२-३७॥
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः। संयच्छन्भवति प्राणान्नसंयच्छंस्तु पापकः ॥१२-९२-३८॥
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च। यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥१२-९२-३९॥
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः। तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ॥१२-९२-४०॥
सहस्राक्षेण राजा हि सर्व एवोपमीयते। स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ॥१२-९२-४१॥
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम्। भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा ॥१२-९२-४२॥
सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक्। पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ॥१२-९२-४३॥
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम्। भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ॥१२-९२-४४॥
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम्। न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा ॥१२-९२-४५॥
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः। सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणामपि ॥१२-९२-४६॥
ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम्। स्वदेशे परदेशे वा न ते धर्मो विनश्यति ॥१२-९२-४७॥
धर्मश्चार्थश्च कामश्च धर्म एवोत्तरो भवेत्। अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ॥१२-९२-४८॥
त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः। सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् ॥१२-९२-४९॥
अप्रमादश्च शौचं च तात भूतिकरं महत्। एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ॥१२-९२-५०॥
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः। नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ॥१२-९२-५१॥
एतद्वृत्तं वासवस्य यमस्य वरुणस्य च। राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ॥१२-९२-५२॥
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम्। आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ ॥१२-९२-५३॥
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत। देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः ॥१२-९२-५४॥
भीष्म उवाच॥
स एवमुक्तो मान्धाता तेनोतथ्येन भारत। कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् ॥१२-९२-५५॥
भवानपि तथा सम्यङ्मान्धातेव महीपतिः। धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ॥१२-९२-५६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.