12.093
युधिष्ठिर उवाच॥
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः। पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पितामह ॥१२-९३-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ॥१२-९३-२॥
राजा वसुमना नाम कौसल्यो बलवाञ्शुचिः। महर्षिं परिपप्रच्छ वामदेवं यशस्विनम् ॥१२-९३-३॥
धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम्। येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः ॥१२-९३-४॥
तमब्रवीद्वामदेवस्तपस्वी जपतां वरः। हेमवर्णमुपासीनं ययातिमिव नाहुषम् ॥१२-९३-५॥
धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम्। धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् ॥१२-९३-६॥
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः। ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते ॥१२-९३-७॥
अधर्मदर्शी यो राजा बलादेव प्रवर्तते। क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ॥१२-९३-८॥
असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा। सहैव परिवारेण क्षिप्रमेवावसीदति ॥१२-९३-९॥
अर्थानामननुष्ठाता कामचारी विकत्थनः। अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ॥१२-९३-१०॥
अथाददानः कल्याणमनसूयुर्जितेन्द्रियः। वर्धते मतिमान्राजा स्रोतोभिरिव सागरः ॥१२-९३-११॥
न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः। बुद्धितो मित्रतश्चापि सततं वसुधाधिपः ॥१२-९३-१२॥
एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता। एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः ॥१२-९३-१३॥
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः। अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते ॥१२-९३-१४॥
अदाता ह्यनतिस्नेहो दण्डेनावर्तयन्प्रजाः। साहसप्रकृती राजा क्षिप्रमेव विनश्यति ॥१२-९३-१५॥
अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धिमान्। अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते ॥१२-९३-१६॥
अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः। व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः ॥१२-९३-१७॥
यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति। सुखतन्त्रोऽर्थलाभेषु न चिरं महदश्नुते ॥१२-९३-१८॥
गुरुप्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता। धर्मप्रधानो लोकेषु सुचिरं महदश्नुते ॥१२-९३-१९॥