Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.094
वामदेव उवाच॥
यत्राधर्मं प्रणयते दुर्बले बलवत्तरः। तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः ॥१२-९४-१॥
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम्। अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति ॥१२-९४-२॥
यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः। तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते ॥१२-९४-३॥
साहसप्रकृतिर्यत्र कुरुते किञ्चिदुल्बणम्। अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति ॥१२-९४-४॥
योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते। जितानामजितानां च क्षत्रधर्मादपैति सः ॥१२-९४-५॥
द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे। यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः ॥१२-९४-६॥
शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि। प्रियो भवति भूतानां न च विभ्रश्यते श्रियः ॥१२-९४-७॥
अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत्। नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् ॥१२-९४-८॥
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः। न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥१२-९४-९॥
नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत्। न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः ॥१२-९४-१०॥
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत्। न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् ॥१२-९४-११॥
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः। तस्य कर्माणि सिध्यन्ति न च सन्त्यज्यते श्रिया ॥१२-९४-१२॥
निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये। भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह ॥१२-९४-१३॥
अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम्। शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि ॥१२-९४-१४॥
एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम्। भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि ॥१२-९४-१५॥
मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम्। अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् ॥१२-९४-१६॥
त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम्। कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः ॥१२-९४-१७॥
रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति। प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते ॥१२-९४-१८॥
ये केचिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत्। सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते ॥१२-९४-१९॥
अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत्। श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ॥१२-९४-२०॥
दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः। अबलानभियुञ्जीत न तु ये बलवत्तराः ॥१२-९४-२१॥
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन्। आहवे निधनं कुर्याद्राजा धर्मपरायणः ॥१२-९४-२२॥
मरणान्तमिदं सर्वं नेह किञ्चिदनामयम्। तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् ॥१२-९४-२३॥
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम्। मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही ॥१२-९४-२४॥
एतानि यस्य गुप्तानि स राजा राजसत्तम। सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् ॥१२-९४-२५॥
नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम्। एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् ॥१२-९४-२६॥
दातारं संविभक्तारं मार्दवोपगतं शुचिम्। असन्त्यक्तमनुष्यं च तं जनाः कुर्वते प्रियम् ॥१२-९४-२७॥
यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते। आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते ॥१२-९४-२८॥
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते। शृणोति प्रतिकूलानि विमना नचिरादिव ॥१२-९४-२९॥
अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते। जितानामजितानां च क्षत्रधर्मादपैति सः ॥१२-९४-३०॥
मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान्। स वै व्यसनमासाद्य गाधमार्तो न विन्दति ॥१२-९४-३१॥
यः कल्याणगुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते। अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके ॥१२-९४-३२॥
अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि। प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥१२-९४-३३॥
नाकाले प्रणयेदर्थान्नाप्रिये जातु सञ्ज्वरेत्। प्रिये नातिभृशं हृष्येद्युज्येतारोग्यकर्मणि ॥१२-९४-३४॥
के मानुरक्ता राजानः के भयात्समुपाश्रिताः। मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत् ॥१२-९४-३५॥
न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्वचित्। भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः ॥१२-९४-३६॥
अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम्। अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् ॥१२-९४-३७॥
एतां राजोपनिषदं ययातिः स्माह नाहुषः। मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान् ॥१२-९४-३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.