Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.095
वामदेव उवाच॥
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः। जघन्यमाहुर्विजयं यो युद्धेन नराधिप ॥१२-९५-१॥
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति। न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते ॥१२-९५-२॥
यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः। सन्तुष्टपुष्टसचिवो दृढमूलः स पार्थिवः ॥१२-९५-३॥
यस्य योधाः सुसन्तुष्टाः सान्त्विताः सूपधास्थिताः। अल्पेनापि स दण्डेन महीं जयति भूमिपः ॥१२-९५-४॥
पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः। सधना धान्यवन्तश्च दृढमूलः स पार्थिवः ॥१२-९५-५॥
प्रभावकालावधिकौ यदा मन्येत चात्मनः। तदा लिप्सेत मेधावी परभूमिं धनान्युत ॥१२-९५-६॥
भोगेष्वदयमानस्य भूतेषु च दयावतः। वर्धते त्वरमाणस्य विषयो रक्षितात्मनः ॥१२-९५-७॥
तक्षत्यात्मानमेवैष वनं परशुना यथा। यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ॥१२-९५-८॥
न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः। क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥१२-९५-९॥
यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः। यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥१२-९५-१०॥
नैनमन्येऽवजानन्ति नात्मना परितप्यते। कृत्यशेषेण यो राजा सुखान्यनुबुभूषति ॥१२-९५-११॥
इदंवृत्तं मनुष्येषु वर्तते यो महीपतिः। उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते ॥१२-९५-१२॥
भीष्म उवाच॥
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः। तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः ॥१२-९५-१३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.