Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.099
युधिष्ठिर उवाच॥
के लोका युध्यमानानां शूराणामनिवर्तिनाम्। भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह ॥१२-९९-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर ॥१२-९९-२॥
अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम्। ददर्श सुरलोकस्थं शक्रेण सचिवं सह ॥१२-९९-३॥
सर्वतेजोमयं दिव्यं विमानवरमास्थितम्। उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम् ॥१२-९९-४॥
स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः। ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् ॥१२-९९-५॥
सागरान्तां महीं कृत्स्नामनुशिष्य यथाविधि। चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया ॥१२-९९-६॥
ब्रह्मचर्येण घोरेण आचार्यकुलसेवया। वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् ॥१२-९९-७॥
अतिथीनन्नपानेन पितॄंश्च स्वधया तथा। ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः ॥१२-९९-८॥
क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि। उदीक्षमाणः पृतनां जयामि युधि वासव ॥१२-९९-९॥
देवराज सुदेवोऽयं मम सेनापतिः पुरा। आसीद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम् ॥१२-९९-१०॥
नानेन क्रतुभिर्मुख्यैरिष्टं नैव द्विजातयः। तर्पिता विधिवच्छक्र सोऽयं कस्मादतीव माम् ॥१२-९९-११॥
इन्द्र उवाच॥
एतस्य विततस्तात सुदेवस्य बभूव ह। सङ्ग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः ॥१२-९९-१२॥
संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम्। युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः ॥१२-९९-१३॥
अम्बरीष उवाच॥
कानि यज्ञे हवींष्यत्र किमाज्यं का च दक्षिणा। ऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो ॥१२-९९-१४॥
इन्द्र उवाच॥
ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा। हवींषि परमांसानि रुधिरं त्वाज्यमेव च ॥१२-९९-१५॥
सृगालगृध्रकाकोलाः सदस्यास्तत्र सत्रिणः। आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे ॥१२-९९-१६॥
प्रासतोमरसङ्घाताः खड्गशक्तिपरश्वधाः। ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः ॥१२-९९-१७॥
चापवेगायतस्तीक्ष्णः परकायावदारणः। ऋजुः सुनिशितः पीतः सायकोऽस्य स्रुवो महान् ॥१२-९९-१८॥
द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः। हस्तिहस्तगतः खड्गः स्फ्यो भवेत्तस्य संयुगे ॥१२-९९-१९॥
ज्वलितैर्निशितैः पीतैः प्रासशक्तिपरश्वधैः। शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु ॥१२-९९-२०॥
आवेगाद्यत्तु रुधिरं सङ्ग्रामे स्यन्दते भुवि। सास्य पूर्णाहुतिर्होत्रे समृद्धा सर्वकामधुक् ॥१२-९९-२१॥
छिन्धि भिन्धीति यस्यैतच्छ्रूयते वाहिनीमुखे। सामानि सामगास्तस्य गायन्ति यमसादने ॥१२-९९-२२॥
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम्। कुञ्जराणां हयानां च वर्मिणां च समुच्चयः ॥ अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते ॥१२-९९-२३॥
उत्तिष्ठति कबन्धोऽत्र सहस्रे निहते तु यः। स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते ॥१२-९९-२४॥
इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताः। व्याघुष्टतलनादेन वषट्कारेण पार्थिव ॥ उद्गाता तत्र सङ्ग्रामे त्रिसामा दुन्दुभिः स्मृतः ॥१२-९९-२५॥
ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत्। आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥१२-९९-२६॥
भर्तुरर्थे तु यः शूरो विक्रमेद्वाहिनीमुखे। भयान्न च निवर्तेत तस्य लोका यथा मम ॥१२-९९-२७॥
नीलचन्द्राकृतैः खड्गैर्बाहुभिः परिघोपमैः। यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम ॥१२-९९-२८॥
यस्तु नावेक्षते कञ्चित्सहायं विजये स्थितः। विगाह्य वाहिनीमध्यं तस्य लोका यथा मम ॥१२-९९-२९॥
यस्य तोमरसङ्घाटा भेरीमण्डूककच्छपा। वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा ॥१२-९९-३०॥
असिचर्मप्लवा सिन्धुः केशशैवलशाद्वला। अश्वनागरथैश्चैव सम्भिन्नैः कृतसङ्क्रमा ॥१२-९९-३१॥
पताकाध्वजवानीरा हतवाहनवाहिनी। शोणितोदा सुसम्पूर्णा दुस्तरा पारगैर्नरैः ॥१२-९९-३२॥
हतनागमहानक्रा परलोकवहाशिवा। ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा ॥१२-९९-३३॥
पुरुषादानुचरिता भीरूणां कश्मलावहा। नदी योधमहायज्ञे तदस्यावभृथं स्मृतम् ॥१२-९९-३४॥
वेदी यस्य त्वमित्राणां शिरोभिरवकीर्यते। अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम ॥१२-९९-३५॥
पत्नीशाला कृता यस्य परेषां वाहिनीमुखम्। हविर्धानं स्ववाहिन्यस्तदस्याहुर्मनीषिणः ॥१२-९९-३६॥
सदश्चान्तरयोधाग्निराग्नीध्रश्चोत्तरां दिशम्। शत्रुसेनाकलत्रस्य सर्वलोकानदूरतः ॥१२-९९-३७॥
यदा तूभयतो व्यूहो भवत्याकाशमग्रतः। सास्य वेदी तथा यज्ञे नित्यं वेदास्त्रयोऽग्नयः ॥१२-९९-३८॥
यस्तु योधः परावृत्तः सन्त्रस्तो हन्यते परैः। अप्रतिष्ठं स नरकं याति नास्त्यत्र संशयः ॥१२-९९-३९॥
यस्य शोणितवेगेन नदी स्यात्समभिप्लुता। केशमांसास्थिसङ्कीर्णा स गच्छेत्परमां गतिम् ॥१२-९९-४०॥
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति। स विष्णुविक्रमक्रामी बृहस्पतिसमः क्रतुः ॥१२-९९-४१॥
नायकं वा प्रमाणं वा यो वा स्यात्तत्र पूजितः। जीवग्राहं निगृह्णाति तस्य लोका यथा मम ॥१२-९९-४२॥
आहवे निहतं शूरं न शोचेत कदाचन। अशोच्यो हि हतः शूरः स्वर्गलोके महीयते ॥१२-९९-४३॥
न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम्। हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे ॥१२-९९-४४॥
वराप्सरःसहस्राणि शूरमायोधने हतम्। त्वरमाणा हि धावन्ति मम भर्ता भवेदिति ॥१२-९९-४५॥
एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः। चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते ॥१२-९९-४६॥
वृद्धं बलं न हन्तव्यं नैव स्त्री न च वै द्विजः। तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् ॥१२-९९-४७॥
अहं वृत्रं बलं पाकं शतमायं विरोचनम्। दुरावार्यं च नमुचिं नैकमायं च शम्बरम् ॥१२-९९-४८॥
विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः। प्रह्रादं च निहत्याजौ ततो देवाधिपोऽभवम् ॥१२-९९-४९॥
भीष्म उवाच॥
इत्येतच्छक्रवचनं निशम्य प्रतिगृह्य च। योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान् ॥१२-९९-५०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.