12.100
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रतर्दनो मैथिलश्च सङ्ग्रामं यत्र चक्रतुः ॥१२-१००-१॥
यज्ञोपवीती सङ्ग्रामे जनको मैथिलो यथा। योधानुद्धर्षयामास तन्निबोध युधिष्ठिर ॥१२-१००-२॥
जनको मैथिलो राजा महात्मा सर्वतत्त्ववित्। योधान्स्वान्दर्शयामास स्वर्गं नरकमेव च ॥१२-१००-३॥
अभीतानामिमे लोका भास्वन्तो हन्त पश्यत। पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः ॥१२-१००-४॥
इमे पलायमानानां नरकाः प्रत्युपस्थिताः। अकीर्तिः शाश्वती चैव पतितव्यमनन्तरम् ॥१२-१००-५॥
तान्दृष्ट्वारीन्विजयतो भूत्वा सन्त्यागबुद्धयः। नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः ॥१२-१००-६॥
त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम्। इत्युक्तास्ते नृपतिना योधाः परपुरञ्जय ॥१२-१००-७॥
विजयन्त रणे शत्रून्हर्षयन्तो जनेश्वरम्। तस्मादात्मवता नित्यं स्थातव्यं रणमूर्धनि ॥१२-१००-८॥
गजानां रथिनो मध्ये रथानामनु सादिनः। सादिनामन्तरा स्थाप्यं पादातमिह दंशितम् ॥१२-१००-९॥
य एवं व्यूहते राजा स नित्यं जयते द्विषः। तस्मादेवं विधातव्यं नित्यमेव युधिष्ठिर ॥१२-१००-१०॥
सर्वे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः। क्षोभयेयुरनीकानि सागरं मकरा इव ॥१२-१००-११॥
हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम्। जितां च भूमिं रक्षेत भग्नान्नात्यनुसारयेत् ॥१२-१००-१२॥
पुनरावर्तमानानां निराशानां च जीविते। न वेगः सुसहो राजंस्तस्मान्नात्यनुसारयेत् ॥१२-१००-१३॥
न हि प्रहर्तुमिच्छन्ति शूराः प्राद्रवतां भयात्। तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम् ॥१२-१००-१४॥
चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि। अपाणयः पाणिमतामन्नं शूरस्य कातराः ॥१२-१००-१५॥
समानपृष्ठोदरपाणिपादाः; पश्चाच्छूरं भीरवोऽनुव्रजन्ति। अतो भयार्ताः प्रणिपत्य भूयः; कृत्वाञ्जलीनुपतिष्ठन्ति शूरान् ॥१२-१००-१६॥
शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सदा। तस्मात्सर्वास्ववस्थासु शूरः संमानमर्हति ॥१२-१००-१७॥
न हि शौर्यात्परं किञ्चित्त्रिषु लोकेषु विद्यते। शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् ॥१२-१००-१८॥