12.101
युधिष्ठिर उवाच॥
यथा जयार्थिनः सेनां नयन्ति भरतर्षभ। ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह ॥१२-१०१-१॥
भीष्म उवाच॥
सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे। साध्वाचारतया केचित्तथैवौपयिका अपि ॥ उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः ॥१२-१०१-२॥
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः। तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् ॥ कार्याणां सम्प्रसिद्ध्यर्थं तानुपायान्निबोध मे ॥१२-१०१-३॥
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत। जानन्वक्रां न सेवेत प्रतिबाधेत चागताम् ॥१२-१०१-४॥
अमित्रा एव राजानं भेदेनोपचरन्त्युत। तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते ॥१२-१०१-५॥
गजानां पार्श्वचर्माणि गोवृषाजगराणि च। शल्यकङ्कटलोहानि तनुत्राणि मतानि च ॥१२-१०१-६॥
शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः। नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते ॥१२-१०१-७॥
ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वधाः। फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः ॥ अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः ॥१२-१०१-८॥
चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते। पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा ॥१२-१०१-९॥
नैवातिशीतो नात्युष्णः कालो भवति भारत। तस्मात्तदा योजयेत परेषां व्यसनेषु वा ॥१२-१०१-१०॥
एतेषु योगाः सेनायाः प्रशस्ताः परबाधने ॥१२-१०१-१०॥
जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते। चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः ॥१२-१०१-११॥
नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव। तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः ॥१२-१०१-१२॥
आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते। परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत् ॥१२-१०१-१३॥
आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम्। बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः ॥१२-१०१-१४॥
उपन्यासोऽपसर्पाणां पदातीनां च गूहनम्। अथ शत्रुप्रतीघातमापदर्थं परायणम् ॥१२-१०१-१५॥
सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव। अनेन विधिना राजञ्जिगीषेतापि दुर्जयान् ॥१२-१०१-१६॥
यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः। पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर ॥१२-१०१-१७॥
अकर्दमामनुदकाममर्यादामलोष्टकाम्। अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः ॥१२-१०१-१८॥
समा निरुदकाकाशा रथभूमिः प्रशस्यते। नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् ॥१२-१०१-१९॥
बहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता। पदातीनां क्षमा भूमिः पर्वतोपवनानि च ॥१२-१०१-२०॥
पदातिबहुला सेना दृढा भवति भारत। रथाश्वबहुला सेना सुदिनेषु प्रशस्यते ॥१२-१०१-२१॥
पदातिनागबहुला प्रावृट्काले प्रशस्यते। गुणानेतान्प्रसङ्ख्याय देशकालौ प्रयोजयेत् ॥१२-१०१-२२॥
एवं सञ्चिन्त्य यो याति तिथिनक्षत्रपूजितः। विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन् ॥१२-१०१-२३॥
प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत्। मोक्षे प्रयाणे चलने पानभोजनकालयोः ॥१२-१०१-२४॥
अतिक्षिप्तान्व्यतिक्षिप्तान्विहतान्प्रतनूकृतान्। सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान् ॥ बहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः ॥१२-१०१-२५॥
पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः। परिचर्यावरोद्धारो ये च केचन वल्गिनः ॥१२-१०१-२६॥
अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च। समानाशनपानास्ते कार्या द्विगुणवेतनाः ॥१२-१०१-२७॥
दशाधिपतयः कार्याः शताधिपतयस्तथा। तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् ॥१२-१०१-२८॥
यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे। यथा जयार्थं सङ्ग्रामे न जह्याम परस्परम् ॥१२-१०१-२९॥
इहैव ते निवर्तन्तां ये नः केचन भीरवः। न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति ॥१२-१०१-३०॥
आत्मानं च स्वपक्षं च पलायन्हन्ति संयुगे। द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने ॥१२-१०१-३१॥
अमनोज्ञासुखा वाचः पुरुषस्य पलायतः। प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च ॥१२-१०१-३२॥
हित्वा पलायमानस्य सहायान्प्राणसंशये। अमित्रैरनुबद्धस्य द्विषतामस्तु नस्तथा ॥१२-१०१-३३॥
मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः। राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह ॥१२-१०१-३४॥
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम्। जयिनं सुहृदस्तात वन्दनैर्मङ्गलेन च ॥१२-१०१-३५॥
यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः। तदसह्यतरं दुःखमहं मन्ये वधादपि ॥१२-१०१-३६॥
श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च। सा भीरूणां परान्याति शूरस्तामधिगच्छति ॥१२-१०१-३७॥
ते वयं स्वर्गमिच्छन्तः सङ्ग्रामे त्यक्तजीविताः। जयन्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥१२-१०१-३८॥
एवं संशप्तशपथाः समभित्यक्तजीविताः। अमित्रवाहिनीं वीराः सम्प्रगाहन्त्यभीरवः ॥१२-१०१-३९॥
अग्रतः पुरुषानीकमसिचर्मवतां भवेत्। पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा ॥१२-१०१-४०॥
परेषां प्रतिघातार्थं पदातीनां च गूहनम्। अपि ह्यस्मिन्परे गृद्धा भवेयुर्ये पुरोगमाः ॥१२-१०१-४१॥
ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः। ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः ॥१२-१०१-४२॥
अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः। स्कन्धदर्शनमात्रं तु तिष्ठेयुर्वा समीपतः ॥१२-१०१-४३॥
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्। सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ॥१२-१०१-४४॥
सम्प्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम्। प्रगृह्य बाहून्क्रोशेत भग्ना भग्नाः परा इति ॥१२-१०१-४५॥
आगतं नो मित्रबलं प्रहरध्वमभीतवत्। शब्दवन्तोऽनुधावेयुः कुर्वन्तो भैरवं रवम् ॥१२-१०१-४६॥
क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान्। भेरीमृदङ्गपणवान्नादयेयुश्च कुञ्जरान् ॥१२-१०१-४७॥