Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.108
युधिष्ठिर उवाच॥
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप। धर्मो वृत्तं च वृत्तिश्च वृत्त्युपायफलानि च ॥१२-१०८-१॥
राज्ञां वृत्तं च कोशश्च कोशसञ्जननं महत्। अमात्यगुणवृद्धिश्च प्रकृतीनां च वर्धनम् ॥१२-१०८-२॥
षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च। दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम् ॥१२-१०८-३॥
समहीनाधिकानां च यथावल्लक्षणोच्चयः। मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता ॥१२-१०८-४॥
क्षीणसङ्ग्रहवृत्तिश्च यथावत्सम्प्रकीर्तिता। लघुनादेशरूपेण ग्रन्थयोगेन भारत ॥१२-१०८-५॥
विजिगीषोस्तथावृत्तमुक्तं चैव तथैव ते। गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर ॥१२-१०८-६॥
यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत। अरीन्हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च ॥१२-१०८-७॥
भेदमूलो विनाशो हि गणानामुपलभ्यते। मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः ॥१२-१०८-८॥
एतदिच्छाम्यहं श्रोतुं निखिलेन परन्तप। यथा च ते न भिद्येरंस्तच्च मे ब्रूहि पार्थिव ॥१२-१०८-९॥
भीष्म उवाच॥
गणानां च कुलानां च राज्ञां च भरतर्षभ। वैरसंदीपनावेतौ लोभामर्षौ जनाधिप ॥१२-१०८-१०॥
लोभमेको हि वृणुते ततोऽमर्षमनन्तरम्। तौ क्षयव्ययसंयुक्तावन्योन्यजनिताश्रयौ ॥१२-१०८-११॥
चारमन्त्रबलादानैः सामदानविभेदनैः। क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम् ॥१२-१०८-१२॥
तत्र दानेन भिद्यन्ते गणाः सङ्घातवृत्तयः। भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात् ॥१२-१०८-१३॥
भेदाद्गणा विनश्यन्ति भिन्नाः सूपजपाः परैः। तस्मात्सङ्घातयोगेषु प्रयतेरन्गणाः सदा ॥१२-१०८-१४॥
अर्था ह्येवाधिगम्यन्ते सङ्घातबलपौरुषात्। बाह्याश्च मैत्रीं कुर्वन्ति तेषु सङ्घातवृत्तिषु ॥१२-१०८-१५॥
ज्ञानवृद्धान्प्रशंसन्तः शुश्रूषन्तः परस्परम्। विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः ॥१२-१०८-१६॥
धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः। यथावत्सम्प्रवर्तन्तो विवर्धन्ते गणोत्तमाः ॥१२-१०८-१७॥
पुत्रान्भ्रातॄन्निगृह्णन्तो विनये च सदा रताः। विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः ॥१२-१०८-१८॥
चारमन्त्रविधानेषु कोशसंनिचयेषु च। नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः ॥१२-१०८-१९॥
प्राज्ञाञ्शूरान्महेष्वासान्कर्मसु स्थिरपौरुषान्। मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप ॥१२-१०८-२०॥
द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः। कृच्छ्रास्वापत्सु संमूढान्गणानुत्तारयन्ति ते ॥१२-१०८-२१॥
क्रोधो भेदो भयो दण्डः कर्शनं निग्रहो वधः। नयन्त्यरिवशं सद्यो गणान्भरतसत्तम ॥१२-१०८-२२॥
तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः। लोकयात्रा समायत्ता भूयसी तेषु पार्थिव ॥१२-१०८-२३॥
मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शन। न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत ॥१२-१०८-२४॥
गणमुख्यैस्तु सम्भूय कार्यं गणहितं मिथः। पृथग्गणस्य भिन्नस्य विमतस्य ततोऽन्यथा ॥ अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च ॥१२-१०८-२५॥
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम्। निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः ॥१२-१०८-२६॥
कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः। गोत्रस्य राजन्कुर्वन्ति गणसम्भेदकारिकाम् ॥१२-१०८-२७॥
आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम्। अभ्यन्तराद्भयं जातं सद्यो मूलं निकृन्तति ॥१२-१०८-२८॥
अकस्मात्क्रोधलोभाद्वा मोहाद्वापि स्वभावजात्। अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् ॥१२-१०८-२९॥
जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा। न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः ॥१२-१०८-३०॥
भेदाच्चैव प्रमादाच्च नाम्यन्ते रिपुभिर्गणाः। तस्मात्सङ्घातमेवाहुर्गणानां शरणं महत् ॥१२-१०८-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.