Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.107
राजपुत्र उवाच॥
न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम्। नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम् ॥१२-१०७-१॥
पुरस्तादेव भगवन्मयैतदपवर्जितम्। येन मां नाभिशङ्केत यद्वा कृत्स्नं हितं भवेत् ॥१२-१०७-२॥
आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः। नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते ॥१२-१०७-३॥
मुनिरुवाच॥
उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे। प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शन ॥१२-१०७-४॥
उभयोरेव वामर्थे यतिष्ये तव तस्य च। संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम् ॥१२-१०७-५॥
त्वादृशं हि कुले जातमनृशंसं बहुश्रुतम्। अमात्यं को न कुर्वीत राज्यप्रणयकोविदम् ॥१२-१०७-६॥
यस्त्वं प्रव्रजितो राज्याद्व्यसनं चोत्तमं गतः। आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् ॥१२-१०७-७॥
आगन्ता मद्गृहं तात वैदेहः सत्यसङ्गरः। यथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम् ॥१२-१०७-८॥
भीष्म उवाच॥
तत आहूय वैदेहं मुनिर्वचनमब्रवीत्। अयं राजकुले जातो विदिताभ्यन्तरो मम ॥१२-१०७-९॥
आदर्श इव शुद्धात्मा शारदश्चन्द्रमा इव। नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः ॥१२-१०७-१०॥
तेन ते सन्धिरेवास्तु विश्वसास्मिन्यथा मयि। न राज्यमनमात्येन शक्यं शास्तुममित्रहन् ॥१२-१०७-११॥
अमात्यः शूर एव स्याद्बुद्धिसम्पन्न एव च। ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम् ॥ धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी ॥१२-१०७-१२॥
कृतात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः। सुसङ्गृहीतस्त्वेवैष त्वया धर्मपुरोगमः ॥ संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान् ॥१२-१०७-१३॥
यद्ययं प्रतियुध्येत्त्वां स्वकर्म क्षत्रियस्य तत्। जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे ॥१२-१०७-१४॥
त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः। अयुद्ध्वैव नियोगान्मे वशे वैदेह ते स्थितः ॥१२-१०७-१५॥
स त्वं धर्ममवेक्षस्व त्यक्त्वाधर्ममसाम्प्रतम्। न हि कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि ॥१२-१०७-१६॥
नैव नित्यं जयस्तात नैव नित्यं पराजयः। तस्माद्भोजयितव्यश्च भोक्तव्यश्च परो जनः ॥१२-१०७-१७॥
आत्मन्येव हि संदृश्यावुभौ जयपराजयौ। निःशेषकारिणां तात निःशेषकरणाद्भयम् ॥१२-१०७-१८॥
इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम्। अभिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च ॥१२-१०७-१९॥
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्बहुश्रुतः। श्रेयस्कामो यथा ब्रूयादुभयोर्यत्क्षमं भवेत् ॥१२-१०७-२०॥
तथा वचनमुक्तोऽस्मि करिष्यामि च तत्तथा। एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा ॥१२-१०७-२१॥
ततः कौशल्यमाहूय वैदेहो वाक्यमब्रवीत्। धर्मतो नीतितश्चैव बलेन च जितो मया ॥१२-१०७-२२॥
सोऽहं त्वया त्वात्मगुणैर्जितः पार्थिवसत्तम। आत्मानमनवज्ञाय जितवद्वर्ततां भवान् ॥१२-१०७-२३॥
नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम्। नावमन्ये जयामीति जितवद्वर्ततां भवान् ॥१२-१०७-२४॥
यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात्। ततः सम्पूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान् ॥१२-१०७-२५॥
वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा। पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत् ॥१२-१०७-२६॥
ददौ दुहितरं चास्मै रत्नानि विविधानि च। एष राज्ञां परो धर्मः सह्यौ जयपराजयौ ॥१२-१०७-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.