Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.109
युधिष्ठिर उवाच॥
महानयं धर्मपथो बहुशाखश्च भारत। किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥१२-१०९-१॥
किं कार्यं सर्वधर्माणां गरीयो भवतो मतम्। यथायं पुरुषो धर्ममिह च प्रेत्य चाप्नुयात् ॥१२-१०९-२॥
भीष्म उवाच॥
मातापित्रोर्गुरूणां च पूजा बहुमता मम। अत्र युक्तो नरो लोकान्यशश्च महदश्नुते ॥१२-१०९-३॥
यदेते ह्यभिजानीयुः कर्म तात सुपूजिताः। धर्म्यं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर ॥१२-१०९-४॥
न तैरनभ्यनुज्ञातो धर्ममन्यं प्रकल्पयेत्। यमेतेऽभ्यनुजानीयुः स धर्म इति निश्चयः ॥१२-१०९-५॥
एत एव त्रयो लोका एत एवाश्रमास्त्रयः। एत एव त्रयो वेदा एत एव त्रयोऽग्नयः ॥१२-१०९-६॥
पिता ह्यग्निर्गार्हपत्यो माताग्निर्दक्षिणः स्मृतः। गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ॥१२-१०९-७॥
त्रिष्वप्रमाद्यन्नेतेषु त्रीँल्लोकानवजेष्यसि। पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथापरम् ॥ ब्रह्मलोकं गुरोर्वृत्त्या नित्यमेव चरिष्यसि ॥१२-१०९-८॥
सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत। यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् ॥१२-१०९-९॥
नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत्। नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम् ॥ कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे च जनाधिप ॥१२-१०९-१०॥
सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः। अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥१२-१०९-११॥
नैवायं न परो लोकस्तस्य चैव परन्तप। अमानिता नित्यमेव यस्यैते गुरवस्त्रयः ॥१२-१०९-१२॥
न चास्मिन्न परे लोके यशस्तस्य प्रकाशते। न चान्यदपि कल्याणं पारत्रं समुदाहृतम् ॥१२-१०९-१३॥
तेभ्य एव तु तत्सर्वं कृत्यया विसृजाम्यहम्। तदासीन्मे शतगुणं सहस्रगुणमेव च ॥ तस्मान्मे सम्प्रकाशन्ते त्रयो लोका युधिष्ठिर ॥१२-१०९-१४॥
दशैव तु सदाचार्यः श्रोत्रियानतिरिच्यते। दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ॥१२-१०९-१५॥
पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि। गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः ॥ गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः ॥१२-१०९-१६॥
उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः। शरीरमेतौ सृजतः पिता माता च भारत ॥ आचार्यशिष्टा या जातिः सा दिव्या साजरामरा ॥१२-१०९-१७॥
अवध्या हि सदा माता पिता चाप्यपकारिणौ। न संदुष्यति तत्कृत्वा न च ते दूषयन्ति तम् ॥ धर्माय यतमानानां विदुर्देवाः सहर्षिभिः ॥१२-१०९-१८॥
य आवृणोत्यवितथेन कर्णा; वृतं ब्रुवन्नमृतं सम्प्रयच्छन्। तं वै मन्ये पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन् ॥१२-१०९-१९॥
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते; प्रत्यासन्नं मनसा कर्मणा वा। यथैव ते गुरुभिर्भावनीया; स्तथा तेषां गुरवोऽप्यर्चनीयाः ॥१२-१०९-२०॥
तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः। गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता ॥१२-१०९-२१॥
येन प्रीताश्च पितरस्तेन प्रीतः पितामहः। प्रीणाति मातरं येन पृथिवी तेन पूजिता ॥१२-१०९-२२॥
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम्। मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः ॥ ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह ॥१२-१०९-२३॥
न केनचन वृत्तेन ह्यवज्ञेयो गुरुर्भवेत्। न च माता न च पिता तादृशो यादृशो गुरुः ॥१२-१०९-२४॥
न तेऽवमानमर्हन्ति न च ते दूषयन्ति तम्। गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः ॥१२-१०९-२५॥
उपाध्यायं पितरं मातरं च; येऽभिद्रुह्यन्ति मनसा कर्मणा वा। तेषां पापं भ्रूणहत्याविशिष्टं; तस्मान्नान्यः पापकृदस्ति लोके ॥१२-१०९-२६॥
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च। चतुर्णां वयमेतेषां निष्कृतिं नानुशुश्रुमः ॥१२-१०९-२७॥
एतत्सर्वमतिदेशेन सृष्टं; यत्कर्तव्यं पुरुषेणेह लोके। एतच्छ्रेयो नान्यदस्माद्विशिष्टं; सर्वान्धर्माननुसृत्यैतदुक्तम् ॥१२-१०९-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.