12.110
युधिष्ठिर उवाच॥
कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत। विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥१२-११०-१॥
सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः। तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः ॥१२-११०-२॥
किं स्वित्सत्यं किमनृतं किं स्विद्धर्म्यं सनातनम्। कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत् ॥१२-११०-३॥
भीष्म उवाच॥
सत्यस्य वचनं साधु न सत्याद्विद्यते परम्। यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत ॥१२-११०-४॥
भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत्। यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत् ॥१२-११०-५॥
तादृशे मुह्यते बालो यत्र सत्यमनिष्ठितम्। सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥१२-११०-६॥
अप्यनार्योऽकृतप्रज्ञः पुरुषोऽपि सुदारुणः। सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥१२-११०-७॥
किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित्। सुमहत्प्राप्नुयात्पापं गङ्गायामिव कौशिकः ॥१२-११०-८॥
तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्वचः। दुष्करः प्रतिसङ्ख्यातुं तर्केणात्र व्यवस्यति ॥१२-११०-९॥
प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम्। यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः ॥१२-११०-१०॥
धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः। यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः ॥१२-११०-११॥
श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः। न तु तत्प्रत्यसूयामो न हि सर्वं विधीयते ॥१२-११०-१२॥
येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित्। तेभ्यस्तन्न तदाख्येयं स धर्म इति निश्चयः ॥१२-११०-१३॥
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन। अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात् ॥१२-११०-१४॥
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम्। यः पापैः सह सम्बन्धान्मुच्यते शपथादिति ॥१२-११०-१५॥
न च तेभ्यो धनं देयं शक्ये सति कथञ्चन। पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ॥१२-११०-१६॥
स्वशरीरोपरोधेन वरमादातुमिच्छतः। सत्यसम्प्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्वचित् ॥ अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः ॥१२-११०-१७॥
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्। अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् ॥ परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः ॥१२-११०-१८॥
प्रतिश्रुत्य तु दातव्यं श्वःकार्यस्तु बलात्कृतः। यः कश्चिद्धर्मसमयात्प्रच्युतोऽधर्ममास्थितः ॥१२-११०-१९॥
शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम्। सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः ॥१२-११०-२०॥
धनमित्येव पापानां सर्वेषामिह निश्चयः। येऽविषह्या ह्यसम्भोज्या निकृत्या पतनं गताः ॥१२-११०-२१॥
च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते। धनादानाद्दुःखतरं जीविताद्विप्रयोजनम् ॥१२-११०-२२॥
अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः। न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः ॥१२-११०-२३॥
तथागतं च यो हन्यान्नासौ पापेन लिप्यते। स्वकर्मणा हतं हन्ति हत एव स हन्यते ॥ तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु ॥१२-११०-२४॥
यथा काकश्च गृध्रश्च तथैवोपधिजीविनः। ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु ॥१२-११०-२५॥
यस्मिन्यथा वर्तते यो मनुष्य; स्तस्मिंस्तथा वर्तितव्यं स धर्मः। मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः ॥१२-११०-२६॥