Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.111
युधिष्ठिर उवाच॥
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः। दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह ॥१२-१११-१॥
भीष्म उवाच॥
आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः। वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ॥१२-१११-२॥
ये दम्भान्न जपन्ति स्म येषां वृत्तिश्च संवृता। विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते ॥१२-१११-३॥
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः। नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ॥१२-१११-४॥
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः। वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते ॥१२-१११-५॥
स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्वृतावृतौ। अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते ॥१२-१११-६॥
ये न लोभान्नयन्त्यर्थान्राजानो रजसावृताः। विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते ॥१२-१११-७॥
आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम्। धर्मेण जयमिच्छन्तो दुर्गाण्यतितरन्ति ते ॥१२-१११-८॥
ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा। निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते ॥१२-१११-९॥
ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते। प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते ॥१२-१११-१०॥
अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते। तपोनित्याः सुतपसो दुर्गाण्यतितरन्ति ते ॥१२-१११-११॥
कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः। येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते ॥१२-१११-१२॥
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः। विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ॥१२-१११-१३॥
ये च संशान्तरजसः संशान्ततमसश्च ये। सत्ये स्थिता महात्मानो दुर्गाण्यतितरन्ति ते ॥१२-१११-१४॥
येषां न कश्चित्त्रसति त्रसन्ति न च कस्यचित्। येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते ॥१२-१११-१५॥
परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः। ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते ॥१२-१११-१६॥
सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते। ये श्रद्दधाना दान्ताश्च दुर्गाण्यतितरन्ति ते ॥१२-१११-१७॥
ये न मानितमिच्छन्ति मानयन्ति च ये परम्। मान्यमाना न मन्यन्ते दुर्गाण्यतितरन्ति ते ॥१२-१११-१८॥
ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः। सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते ॥१२-१११-१९॥
ये क्रोधं नैव कुर्वन्ति क्रुद्धान्संशमयन्ति च। न च कुप्यन्ति भृत्येभ्यो दुर्गाण्यतितरन्ति ते ॥१२-१११-२०॥
मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः। जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ॥१२-१११-२१॥
यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम्। वाक्सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते ॥१२-१११-२२॥
ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम्। भक्ता नारायणं ये च दुर्गाण्यतितरन्ति ते ॥१२-१११-२३॥
य एष रक्तपद्माक्षः पीतवासा महाभुजः। सुहृद्भ्राता च मित्रं च सम्बन्धी च तवाच्युतः ॥१२-१११-२४॥
य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत्। इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः ॥१२-१११-२५॥
स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ। राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः ॥१२-१११-२६॥
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम्। ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा ॥१२-१११-२७॥
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च। पाठयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते ॥१२-१११-२८॥
इति कृत्यसमुद्देशः कीर्तितस्ते मयानघ। सन्तरेद्येन दुर्गाणि परत्रेह च मानवः ॥१२-१११-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.