Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.112
युधिष्ठिर उवाच॥
असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः। ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम् ॥१२-११२-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर ॥१२-११२-२॥
पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः। परहिंसारुचिः क्रूरो बभूव पुरुषाधमः ॥१२-११२-३॥
स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम्। गोमायुत्वं च सम्प्राप्तो दूषितः पूर्वकर्मणा ॥१२-११२-४॥
संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः। न भक्षयति मांसानि परैरुपहृतान्यपि ॥१२-११२-५॥
अहिंस्रः सर्वभूतेषु सत्यवाक्सुदृढव्रतः। चकार च यथाकाममाहारं पतितैः फलैः ॥१२-११२-६॥
श्मशाने तस्य चावासो गोमायोः संमतोऽभवत्। जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत् ॥१२-११२-७॥
तस्य शौचममृष्यन्तः सर्वे ते सहजातयः। चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः ॥१२-११२-८॥
वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि। इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः ॥१२-११२-९॥
तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम्। भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते ॥१२-११२-१०॥
इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः। मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः ॥१२-११२-११॥
अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम्। प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः ॥१२-११२-१२॥
श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम्। आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् ॥१२-११२-१३॥
आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे। किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत् ॥१२-११२-१४॥
भवन्तः सर्वलोभेन केवलं भक्षणे रताः। अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः ॥१२-११२-१५॥
अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम्। इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये ॥१२-११२-१६॥
तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः। कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम् ॥१२-११२-१७॥
सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह। व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः ॥१२-११२-१८॥
तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे। मृदुपूर्वं घातिनस्ते श्रेयश्चाधिगमिष्यति ॥१२-११२-१९॥
अथ सम्पूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः। गोमायुः प्रश्रितं वाक्यं बभाषे किञ्चिदानतः ॥१२-११२-२०॥
सदृशं मृगराजैतत्तव वाक्यं मदन्तरे। यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन् ॥१२-११२-२१॥
न शक्यमनमात्येन महत्त्वमनुशासितुम्। दुष्टामात्येन वा वीर शरीरपरिपन्थिना ॥१२-११२-२२॥
सहायाननुरक्तांस्तु यतेतानुपसंहितान्। परस्परमसङ्घुष्टान्विजिगीषूनलोलुपान् ॥१२-११२-२३॥
तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः। पूजयेथा महाभागान्यथाचार्यान्यथा पितॄन् ॥१२-११२-२४॥
न त्वेवं मम सन्तोषाद्रोचतेऽन्यन्मृगाधिप। न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम् ॥१२-११२-२५॥
न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः। ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे ॥१२-११२-२६॥
संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम्। कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः ॥१२-११२-२७॥
दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः। कृती चामोघकर्तासि भाव्यैश्च समलङ्कृतः ॥१२-११२-२८॥
किं तु स्वेनास्मि सन्तुष्टो दुःखा वृत्तिरनुष्ठिता। सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः ॥१२-११२-२९॥
राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम्। वनचर्या च निःसङ्गा निर्भया निरवग्रहा ॥१२-११२-३०॥
नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि। न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम् ॥१२-११२-३१॥
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम्। विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥१२-११२-३२॥
अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः। उपघातैर्यथा भृत्या दूषिता निधनं गताः ॥१२-११२-३३॥
यदि त्वेतन्मया कार्यं मृगेन्द्रो यदि मन्यते। समयं कृतमिच्छामि वर्तितव्यं यथा मयि ॥१२-११२-३४॥
मदीया माननीयास्ते श्रोतव्यं च हितं वचः। कल्पिता या च ते वृत्तिः सा भवेत्तव सुस्थिरा ॥१२-११२-३५॥
न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित्। नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि ॥१२-११२-३६॥
एक एकेन सङ्गम्य रहो ब्रूयां हितं तव। न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते ॥१२-११२-३७॥
मया संमन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया। मदीयानां च कुपितो मा त्वं दण्डं निपातयेः ॥१२-११२-३८॥
एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः। प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः ॥१२-११२-३९॥
तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि। प्राद्विषन्कृतसङ्घाताः पूर्वभृत्या मुहुर्मुहुः ॥१२-११२-४०॥
मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च। दोषेषु समतां नेतुमैच्छन्नशुभबुद्धयः ॥१२-११२-४१॥
अन्यथा ह्युचिताः पूर्वं परद्रव्यापहारिणः। अशक्ताः किञ्चिदादातुं द्रव्यं गोमायुयन्त्रिताः ॥१२-११२-४२॥
व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते। धनेन महता चैव बुद्धिरस्य विलोभ्यते ॥१२-११२-४३॥
न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह। अथास्य समयं कृत्वा विनाशाय स्थिताः परे ॥१२-११२-४४॥
ईप्सितं च मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम्। अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि ॥१२-११२-४५॥
यदर्थं चाप्यपहृतं येन यच्चैव मन्त्रितम्। तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम् ॥१२-११२-४६॥
समयोऽयं कृतस्तेन साचिव्यमुपगच्छता। नोपघातस्त्वया ग्राह्यो राजन्मैत्रीमिहेच्छता ॥१२-११२-४७॥
भोजने चोपहर्तव्ये तन्मांसं न स्म दृश्यते। मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत ॥१२-११२-४८॥
कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम्। सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना ॥१२-११२-४९॥
सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम्। बभूवामर्षितो राजा वधं चास्याभ्यरोचयत् ॥१२-११२-५०॥
छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः। सर्वेषामेव सोऽस्माकं वृत्तिभङ्गेषु वर्तते ॥१२-११२-५१॥
इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते। श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः ॥१२-११२-५२॥
वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः। धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः ॥ कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ्श्रमम् ॥१२-११२-५३॥
मांसापनयनं ज्ञात्वा व्याघ्रस्तेषां तु तद्वचः। आज्ञापयामास तदा गोमायुर्वध्यतामिति ॥१२-११२-५४॥
शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः। मृगराजं हितैर्वाक्यैः सम्बोधयितुमागमत् ॥१२-११२-५५॥
पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंवृतम्। कर्मसङ्घर्षजैर्दोषैर्दुष्यत्यशुचिभिः शुचिः ॥१२-११२-५६॥
नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका। शुचेरपि हि युक्तस्य दोष एव निपात्यते ॥१२-११२-५७॥
लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः। मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः ॥ अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः ॥१२-११२-५८॥
बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः। कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि ॥१२-११२-५९॥
शून्यात्तच्च गृहान्मांसं यदद्यापहृतं तव। नेच्छते दीयमानं च साधु तावद्विमृश्यताम् ॥१२-११२-६०॥
असत्याः सत्यसङ्काशाः सत्याश्चासत्यदर्शिनः। दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ॥१२-११२-६१॥
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव। न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः ॥१२-११२-६२॥
तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम्। परीक्ष्य ज्ञापयन्ह्यर्थान्न पश्चात्परितप्यते ॥१२-११२-६३॥
न दुष्करमिदं पुत्र यत्प्रभुर्घातयेत्परम्। श्लाघनीया च वर्या च लोके प्रभवतां क्षमा ॥१२-११२-६४॥
स्थापितोऽयं पुत्र त्वया सामन्तेष्वधि विश्रुतः। दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत् ॥१२-११२-६५॥
दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम्। स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति ॥१२-११२-६६॥
तस्मादथारिसङ्घाताद्गोमायोः कश्चिदागतः। धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम् ॥१२-११२-६७॥
ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः। परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः ॥१२-११२-६८॥
अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित्। तेनामर्षेण सन्तप्तः प्रायमासितुमैच्छत ॥१२-११२-६९॥
शार्दूलस्तत्र गोमायुं स्नेहात्प्रस्रुतलोचनः। अवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन् ॥१२-११२-७०॥
तं स गोमायुरालोक्य स्नेहादागतसम्भ्रमम्। बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा ॥१२-११२-७१॥
पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः। परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि ॥१२-११२-७२॥
स्वसन्तुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः। स्वयं चोपहृता भृत्या ये चाप्युपहृताः परैः ॥१२-११२-७३॥
परिक्षीणाश्च लुब्धाश्च क्रूराः काराभितापिताः। हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः ॥१२-११२-७४॥
सन्तापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः। अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः ॥१२-११२-७५॥
अवमानेन युक्तस्य स्थापितस्य च मे पुनः। कथं यास्यसि विश्वासमहमेष्यामि वा पुनः ॥१२-११२-७६॥
समर्थ इति सङ्गृह्य स्थापयित्वा परीक्ष्य च। कृतं च समयं भित्त्वा त्वयाहमवमानितः ॥१२-११२-७७॥
प्रथमं यः समाख्यातः शीलवानिति संसदि। न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता ॥१२-११२-७८॥
एवं चावमतस्येह विश्वासं किं प्रयास्यसि। त्वयि चैव ह्यविश्वासे ममोद्वेगो भविष्यति ॥१२-११२-७९॥
शङ्कितस्त्वमहं भीतः परे छिद्रानुदर्शिनः। अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम् ॥१२-११२-८०॥
दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते। भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते ॥१२-११२-८१॥
कश्चिदेव हि भीतस्तु दृश्यते न परात्मनोः। कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास्तु दुर्लभाः ॥१२-११२-८२॥
सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम्। समर्थो वाप्यशक्तो वा शतेष्वेकोऽधिगम्यते ॥१२-११२-८३॥
अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम्। शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् ॥१२-११२-८४॥
एवं बहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत्। प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात् ॥१२-११२-८५॥
अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान्। गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ ॥१२-११२-८६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.