Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.116
युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ संशयो मे महानयम्। स च्छेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः ॥१२-११६-१॥
पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम्। कथितो वाक्यसञ्चारस्ततो विज्ञापयामि ते ॥१२-११६-२॥
यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम्। आयत्यां च तदात्वे च क्षेमवृद्धिकरं च यत् ॥१२-११६-३॥
पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत्। अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे ॥१२-११६-४॥
अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृतः। असुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः ॥१२-११६-५॥
यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः। इन्द्रियाणामनीशत्वादसज्जनबुभूषकः ॥१२-११६-६॥
तस्य भृत्या विगुणतां यान्ति सर्वे कुलोद्गताः। न च भृत्यफलैरर्थैः स राजा सम्प्रयुज्यते ॥१२-११६-७॥
एतान्मे संशयस्थस्य राजधर्मान्सुदुर्लभान्। बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति ॥१२-११६-८॥
शंसिता पुरुषव्याघ्र त्वं नः कुलहिते रतः। क्षत्ता चैव पटुप्रज्ञो यो नः शंसति सर्वदा ॥१२-११६-९॥
त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम्। अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम् ॥१२-११६-१०॥
कीदृषाः संनिकर्षस्था भृत्याः स्युर्वा गुणान्विताः। कीदृशैः किङ्कुलीनैर्वा सह यात्रा विधीयते ॥१२-११६-११॥
न ह्येको भृत्यरहितो राजा भवति रक्षिता। राज्यं चेदं जनः सर्वस्तत्कुलीनोऽभिशंसति ॥१२-११६-१२॥
न हि प्रशास्तुं राज्यं हि शक्यमेकेन भारत। असहायवता तात नैवार्थाः केचिदप्युत ॥ लब्धुं लब्ध्वा चापि सदा रक्षितुं भरतर्षभ ॥१२-११६-१३॥
भीष्म उवाच॥
यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः। हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते ॥१२-११६-१४॥
मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः। नृपतेर्मतिदाः सन्ति सम्बन्धज्ञानकोविदाः ॥१२-११६-१५॥
अनागतविधातारः कालज्ञानविशारदाः। अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते ॥१२-११६-१६॥
समदुःखसुखा यस्य सहायाः सत्यकारिणः। अर्थचिन्तापरा यस्य स राज्यफलमश्नुते ॥१२-११६-१७॥
यस्य नार्तो जनपदः संनिकर्षगतः सदा। अक्षुद्रः सत्पथालम्बी स राज्यफलभाग्भवेत् ॥१२-११६-१८॥
कोशाक्षपटलं यस्य कोशवृद्धिकरैर्जनैः। आप्तैस्तुष्टैश्च सततं धार्यते स नृपोत्तमः ॥१२-११६-१९॥
कोष्ठागारमसंहार्यैराप्तैः सञ्चयतत्परैः। पात्रभूतैरलुब्धैश्च पाल्यमानं गुणीभवेत् ॥१२-११६-२०॥
व्यवहारश्च नगरे यस्य कर्मफलोदयः। दृश्यते शङ्खलिखितः स धर्मफलभाग्भवेत् ॥१२-११६-२१॥
सङ्गृहीतमनुष्यश्च यो राजा राजधर्मवित्। षड्वर्गं प्रतिगृह्णन्स धर्मात्फलमुपाश्नुते ॥१२-११६-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.